हितोपदेशः (हिन्दी अनुवाद सहित)
by नारायण पण्डित
Source: हितोपदेशः (हिन्दी अनुवाद सहित) · चौखम्बा विद्याभवन · 2017 (origin)
Page 135 of 302
Read in context-८९ ] धैर्यशील बननेके विषयमें कुटनीकी कहानी ११५-
ततो राज्ञा सादरमवलोकितौ प्रणम्योपविष्टौ । राजाह-'त्वया
स दृष्टः ?' । दमनको ब्रूते—'देव ! दृष्टः । किंतु यद्देवेन ज्ञातं
तत्तथा । महानेवासौ देवं द्रष्टुमिच्छति । किंतु महाबलोऽसौ,
ततः सजीभूयोपविश्य दृश्यताम् । शब्दमात्रादेव न भेतव्यम् ।
राजाने उन दोनोंको आदरसे देखा और वे दोनों प्रणाम करके बैठ गये ।
फिर राजा बोला—'तुमने उसे देखा ? दमनकने कहा-'महाराज ! देखा;
परन्तु जैसा महाराजने समझा था वैसाही है । बड़ा है, महाराजके दर्शन करना
चाहता है । परन्तु वह बड़ा बलवान् है । इसलिये सावधान हो बैठ कर देखिये ।
केवल शब्दसेही नहीं डरना चाहिये ।
तथा चोक्तम्, —
शब्दमात्रान्न भेतव्यमज्ञात्वा शब्दकारणम् ।
शब्दहेतुं परिज्ञाय कुट्टनी गौरवं गता' ॥ ८९ ॥
जैसा कहा है—शब्दका कारण बिना जाने केवल शब्दसेही नहीं डरना
चाहिये । जैसे शब्दका कारण जानकर कुटनीने आदर पाया' ॥ ८९ ॥
राजाह—'कथमेतत् ?' । दमनकः कथयति—
राजा बोला—'यह कथा कैसी है ?' दमनक कहने लगा ।—
कथा ५
[ बन्दर, घंटा और कराला नामक कुटनीकी कहानी ५ ]
'अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यं नगरम् । तच्छिखरप्रदेशे
घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जनप्रवादः श्रूयते । एकदा
घण्टामादाय पलायमानः कश्चिच्चौरो व्याघ्रेण व्यापादितः ।
तत्पाणिपतिता घण्टा वानरैः प्राप्ता । वानरास्तां घण्टामनुक्षणं
वादयन्ति । ततो नगरजनैः स मनुष्यः खादितो दृष्टः। प्रतिक्षणं
घण्टारवश्च श्रूयते । अनन्तरं 'घण्टाकर्णः कुपितो मनुष्यान्खादति
घण्टां च वादयती'त्युक्त्वा सर्वे जना नगरात्पलायिताः । ततः
करालया नाम कुट्टन्या विमृश्यानवसरोऽयं घण्टानादः । तत्किं
मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितः—'देव !
यदि कियद्धनोपक्षयः क्रियते, तदाहमेनं घण्टाकर्णं साधयामि ।'