Skip to content
SarvaKosh
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

by पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा)

DevanagariHindipublished742 pages

Page 400 of 742

Read in context
Page 400

[४ षडत्ययोपचाराध्यायः ] हस्त्यायुर्वेदः । ३८१
भस्म कृत्वा रसान्षट्सु क्षरणात्क्षारसंज्ञितः ॥
संयोगात्तु रसस्त्वेष रसः प्रकृतिसंभवः ॥ १०० ॥
तुषाराग्नियथा नागान्निर्दहेच्छिरसः पुनः ॥
विद्युन्मालिविनिर्दिष्टा तथा तस्य प्रतिक्रिया ॥ १ ॥
वर्जयित्वाऽवगाहं च परिषेकं च शीतलम् ॥
पलाशशय्या नागस्य निर्वाते पूजिता भवेत् ॥ २ ॥
आमये पूर्वमुत्पन्ने यश्च मिथ्योपचारतः ॥
उपद्रवति यत्पश्चात्तेन स स्यादुपद्रवः ॥ ३ ॥
कायसंरक्षणार्थं च वर्णज्ञानार्थमेव च ॥
एकामेव च्छविं विद्याद्यत्र रोम प्रतिष्ठितम् ॥ १०४ ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव ॥
सद्यःक्षतविधानं तु कृत्स्नकल्पमरिंदम ॥ १०५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
सद्यःक्षतचिकित्सितं नाम तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः ।
अथाङ्गराजो मतिमानभिवाद्य मुनिं स्थितम् ॥
पालकाप्यमृषिश्रेष्ठं पुनरेवेदमब्रवीत् ॥ १ ॥
शिरास्नाव्यस्थिसंध्यानां छेदे तिर्यक्तथैव च ॥
(*पक्वस्यापाटने चैव) तन्मे ब्रूहि षेडत्ययान्¹ ॥ २ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
हीनं तत्रातिरिक्तं च द्विविधं शस्त्रनिश्चयात् ॥ ३ ॥
वैद्योपचारान्नागानां शस्त्रकर्म विगर्हितम् ॥
गम्भीरानुगतं दोषं शस्त्राप्राप्य वारणे ॥ ४ ॥
अदृष्टकर्मा तु भिषक्पाटयित्वाऽवसीदति ॥
रुजाः शस्त्रकृतास्तस्य यथा पूयसमुद्भवाः ॥ ५ ॥
दन्तिनो दाहबहुलाः हीने स्याच्छ(स्युः श)स्त्रकर्मणि ॥
व्रणे त्वल्पाश्रये शस्त्रमवगाढं यदा बलात् ॥ ६ ॥

  • कपुस्तके त्रुटितः पाठः ।
    १ क. गडत्परान् ।