हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
by महाकवि बाणभट्ट
Page 182 of 184
Read in context१४० हर्षचरितम्
'चापलोचितकौलीनकोपितोऽपि मनसा स्निह्यत्येव मयि । यद्यहमक्षिगतः
स्याम्, न मे दर्शनेन प्रसादं कुर्यात् । इच्छति तु मां गुणवन्तम् ।
उपदिशन्ति हि विनयमनुरूपप्रतिपत्त्युपपादनेन वाचा विनापि भर्तव्यानां
स्वामिनः । अपि च धिङ्मां स्वदोषान्धमानसमनादरपीडितमेवमति-
गुणवति राजन्यन्यथा चान्यथा च चिन्तयन्तम् । सर्वथा तथा करोमि,
यथा यथावस्थितं जानाति मामयं कालेन' इत्येवमवधार्य चापरेद्यु-
र्निष्क्रम्य कटकात्सुहृदां बान्धवानां च भवनेषु तावदतिष्ठत, यावदस्य
स्वयमेव गृहीतस्वभावः पृथिवोपतिः प्रसादवानभूत् । अविशच्च पुनरपि
नरपतिभवनम् । स्वल्पैरेव चाहोभिः परमप्रीतेन प्रसादजन्मनो मानस्य
प्रेम्णो विश्रम्भस्य द्रविणस्य नर्मणः प्रभावस्य च परां कोटिमानीयत
नरेन्द्रेणेति ।
इति श्रीमहाकविबाणभट्टकृते हर्षचरिते राजदर्शनं नाम द्वितीय उच्छ्वासः ।
नूपुरम् । दक्षिणोऽनुकूलः कौलीन जनापवादः । अक्षिगतो द्वेष्यः । विश्रम्भस्याश्वा-
सस्य । द्रविणस्य धनस्य । नर्मणः परिहासस्य ॥
इति श्रीशंकरकविरचिते हर्षचरितसंकेते द्वितीय उच्छ्वासः समाप्तः ।
अनादर से दुखी हो ऐसे गुणवान् राजा के विषय में कुछ अनाप-शनाप सोचने लगा । अब
मैं सर्वथा वही करूँगा जिससे समय से वे मुझे ठीक पहचान लें।' ऐसा निश्चय करके दूसरे
दिन प्रातःकाल स्कन्धावार से निकल कर मित्रों और रिश्तेदारों के घर में ठहरा । तब त-
सम्राट् स्वयं उसके स्वभाव से परिचित होकर उस पर प्रसन्न हो गए और फिर बाण ने राज-
भवन में प्रवेश किया । थोड़े ही दिनों में सम्राट् उस पर अत्यन्त प्रसन्न हुए और अपने
प्रसादजनित सम्मान, प्रेम, विश्वास, धन-सम्पत्ति, परिहास और प्रभाव की पराकाष्ठा पर उसे
पहुँचा दिया ।
द्वितीय उच्छ्वास समाप्त ।
१. चापलोपचित ।