हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
by महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री
About this granth
The Harshacharita (हर्षचरितम्) is the seventh-century Sanskrit prose work of Banabhatta on the life and lineage of the emperor Harshavardhana, often called the first historical narrative (akhyayika) in Sanskrit. The introduction to this edition sets Bana's prose beside Kalidasa's verse and describes the Harshacharita as his first work, a prelude to the style he perfected in the Kadambari.
The work has eight chapters (ucchvasas). They begin with Sarasvati's descent under Durvasa's curse, Bana's Vatsyayana family and his visit to Harsha's court, then turn to Sthanvishvara and King Prabhakaravardhana, the births of his children, Rajyashri's marriage, the Huna campaign, the king's death and Queen Yashomati's self-immolation, Rajyavardhana's murder and Harsha's vow of conquest, and the search for Rajyashri in the Vindhya forest, where Harsha meets the monk Divakaramitra.
This is No. 36 of the Vidyabhawan Sanskrit Granthamala from Chowkhamba Vidya Bhawan, Varanasi, with Shankara's Sanskrit commentary Sanketa and a Hindi commentary by Pt. Jagannath Pathak of the Vaidyanath Dham Gurukul, Bihar. The scan of 506 pages contains the whole work.
४२० हर्षचरितम्
प्रियं समाचराम इति पारिप्लवं चेतो नः। सकलवनचरसार्थसाधारणस्य
कन्दमूलफलस्य गिरिसरिदम्भसो वा के वयम्। अपरोपकरणीकृतस्तु
कायकलिरयमस्माकम्। सर्वस्वमवशिष्टमिष्टातिथ्याय। स्वायत्ताश्च विद्यन्ते
विद्याबिन्दवः कतिचित्। उपयोगं तु न प्रीतिर्विचारयति। यदि च नोप-
रुणद्धि कंचित्कार्यलवमरक्षणीयाक्षरं वा कथनीयं तत्कथयतु भवान् स
श्रोतुमभिलषति हृदयं सर्वमिदं नः। केन कृत्यातिभारेण भव्यो भूषित-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inच महावनभ्रमणपरिक्लेशस्य कारणमवधारयतु मतिमान् । मम हि विनष्ट-
निखिलेष्टबन्धोर्जीवितानुबन्धस्य निबन्धनमेकैव यवीयसी स्वसावशेषा ।
सापि भर्तुर्विद्योगाद्धैरिपरिभवभयाद्भ्रमन्ती कथमपि विन्ध्यवनमिदम्,
अशुभशबरबलबहुलम्, अगणितगजकुलकलिलम्, अपरिमितमृगपति-
शरभभयम्, उद्दामहिषमुषितपथिकगमनम्, अतिनिशितशरकुशपरुषम्,
अवटशतविषममविशत् । अतस्तामन्वेष्टुं वयमनिशं निशि निशि च
सततमियामटवीमटामः । न चैनामासादयामः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४२२ हर्षचरितम्
शोकावेशविवशा वैश्वानरं विशति। संभावयतु तामप्रोषितप्राणां भगवान्।
अभ्युपपद्यता समुचितैः समाश्वासनैः। अनुपरतपूर्वं कृमिकीटप्रायमपि
दुःखितं दयाराशेरार्यस्य गोचरगतम्' इति।
राजा तु जातानुजाशङ्कः सोदर्यस्नेहाद्धान्तर्द्रुत इव दुःखेन दोदूयमान-
हृदयः कथमपि गद्गदिकागृहीतकण्ठो विकलवाग्बाष्पायमाणदृष्टिः पप्रच्छ—
'पाराशरिन् ! कियद्दूरे सा योषिदेवंजातीया जीवेद्वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअष्टम उच्छ्वासः ४२३
तितारतानवर्तिनीनां वीणातन्त्रीणामिव झंकारमेकतानं नारीणां रुदितम-
धृतिकरमतिकरुणमाकर्णितवानस्मि । समुपजातकृपञ्च गतोऽस्मि तं
प्रदेशम् । दृष्टवानस्मि च दृषदखण्डखण्डिताङ्गुलिगलल्लोहितेन च पाणि-
प्रविष्टशरशलाकराल्यशूलसंकोचितचक्षुषा चाध्वनीनश्रमश्वयथुनिश्ञ्चल-
चरणेन च स्थाणवव्रणव्यथितगुल्फबद्धभूर्जत्वचा च वातखुडखेदखञ्ज-
जङ्घाजातज्वरेण च पांसुपाण्डुरपिच्छकेन च खर्जूरजूटजटार्जर्जरितजानुना
च शतावरीविदारितोरुणा च विदारीदारिततनुदुकूलपल्लवेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४२४ हर्षचरितम्
मूलफलैः कदर्शितबाहुना ताम्बूलविरहविरसमुखखण्डितकोमलामलकीफलेन
कुशकुसुमाहतलोहितानां श्वयथुमतामक्ष्णां लेपीकृतमनःशिलेन च कण्ट-
कीलतालूनालकलेशेन केनचित्किसलयोपपादितवातपत्रकृत्येन केनचित्कद-
लीदलव्यजनवाहिना केनचित्कमलिनीपलाशपुटगृहीताम्भसा केनचि-
त्पाथेयीकृतमृणालपूलिकेन केनचिच्चीनांशुकदशाशिक्यनिहितनालिकेर-
कोशफलशीकलितसरलतैलेन, कतिपयावशेषशोकविकलकलमूककुब्जवाम-
नबधिरबर्बराविरलेनाबलानां चक्रवालेन परिवृताम्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअष्टम उच्छ्वासः ४२५
शमपि शून्यतयातिशयानाम्, मृण्मयीमिव निश्चेतनतया मरुन्मयीमिव
निःश्वाससंपदा पावकमयीमिव संतापसंतानेन सलिलमयीमिवाश्रुप्रस्र-
वणेन वियन्मयीमिव निरवलम्बनतया तडिन्मयीमिव परिप्लवतया शब्द-
मयीमिव परिदेवितवाणीबाहुल्येन मुक्तमुक्तांशुकरत्नकुसुमकनकपत्राभरणां
कल्पलतामिव महावने पतिताम्, परमेश्वरोत्तमाङ्गपातदुर्ललिताङ्गां गङ्गा-
मिव गां गताम्, वनकुसुमधूलिधूसरितपादपल्लवाम्, प्रभातचन्द्रमूर्तिमिव
लोकान्तरमभिलषन्तीम्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४२६ हर्षचरितम्
प्रत्यूषप्रदीपशिखामिव क्षामक्षामां पाण्डुवपुषम्, पार्श्ववर्त्तिवारणाभियोगर-
क्ष्यमाणां वनकरिणीमिव महाहदे निमग्नाम्, प्रविष्टां वनगहनं ध्यानं च,
स्थितां तरुतले मरणे च पतितां धात्र्युत्सङ्गे महानर्थे च, दूरीकृतां भर्त्रा
सुखेन च, विरेचितां श्रमरेणायुषा च, आकुलां केशकलापेन मरणोपा-
येन च, विवर्णितामध्वधूलिभिरङ्गवेदनाभिश्च, दग्धां चण्डातपेन वैधव्येन
च, धृतमुखीं पाणिना मौनेन च, गृहीतां प्रियसखीजनेन मन्युना च,
तथा च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअष्टम उच्छ्वासः ४२७
संततां चिन्तासु, विच्छिन्नामाशासु, कृशां काये, स्थूलां श्वसिते, पूरितां
दुःखेन, रिक्तां सत्त्वेन, अध्यासितामायासेन, शून्यां हृदयेन, निश्चलां
निश्चयेन, चलितां धैर्यात्, अपि च वसतिं व्यसनानाम्, आधानमाधी-
नाम्, अवस्थानमनवस्थानाम्, आधारमधृतीनाम्, आवासमवसादानाम्,
आस्पद्मापदाम्, अभियोगमभाग्यानाम्, उद्वेगमुद्वेगानाम्, कारणं करु-
णायाः, पारं परायत्तताया योषितम्। चिन्तितवानस्मि च चित्रमीदृशीम-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४२८ हर्षचरितम्
मुखि' इत्यमुनिमतम् , 'बाले' इत्यगौरवोपेतम् , 'आर्ये' इति जरारोपणम् ,
'पुण्यवति' इति फलविपरीतम् , 'भवति' इति सर्वसाधारणम् । अपि च
'कासि' इत्यनभिजातम् , 'किमर्थं रोदिषि' इति दुःखकारणस्मरणकारि,
“मा रोदीः' इति शोकहेतुमपनीय न शोभते, 'समाश्वसिहि' इति किमा-
'श्रित्य, 'स्वागतम्' इति यातयामम्, 'सुखमास्यते' इति मिथ्या । इत्येवं
चिन्तयत्येव मयि तस्मात्त्रैणादुत्थायान्यतरा योषिदार्यरूपेव शोकविक्लवा
समुपसृत्य कतिपयपलितशारं शिरो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्राणरक्षणाच्च न परं पुण्यजातं जगति गीयते जनेन । अनुकम्पाभूमयः
प्रकृत्यैव युवतयः किं पुनर्विपद्मभिभूताः । साधुजनश्च सिद्धक्षेत्रमार्त्तवच-
साम् । यत इयं नः स्वामिनी मरणेन पितुरभावेन भर्तुः प्रवासेन च
भ्रातुः भ्रंशेन च शेषस्य बान्धववर्गस्यातिमृदुहृदयत्यानपत्यतया च निर-
वलम्बना, परिभवेन च नीचारातिकृतेन, प्रकृतिमन्स्विनी अमुना च
महाटवीपर्यटनक्लेशेन कदर्थितसौकुमार्या, दग्धदैवदत्तैरेवंविधैर्बहुभिरुप-
र्युपरि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४३० हर्षचरितम्
शयायाः शोकः । शक्यते चेन्मुहूर्त्तमात्रमपि त्रातुमुपरिष्टान्न व्यर्थेयमभ्य-
र्थना भविष्यति । मम हि गुरुरपर इव भगवान्सुगतः समीपगत एव ।
कथिते मयास्मिन्वदन्ते नियतमागमिष्यति परमदयालुः । 'दुःखान्धकार-
पटलभिदुरैश्च सौगतैः सुभाषितैः स्वकीयैश्च दर्शितनिदर्शनैर्नानागमगुरु-
भिर्गिरां कौशलैः कुशलशीलामेनां प्रबोधपदवीमारोपयिष्यति' इति । तच्च
श्रुत्वा 'त्वरतामार्यः' इत्यभिदधाना सा पुनरपि पादयोः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअष्टम उच्छ्वासः ४३१
हृदयमेवं निवेदयति' इत्युक्त्वा तमपि श्रमणमभ्यधात् — 'आर्य ! उत्तिष्ठ ।
दर्शय कासौ । यतस्व प्रभूतप्राणपरित्राणपुण्योपार्जनाय यामः, यदि कथं-
चिज्जीवन्तीं संभावयामः' इति भाषमाण एवोत्तस्थौ ।
अथ समग्रशिष्यवर्गानुगतेनाचार्येण तुरगेभ्योऽवतीर्य समस्तेन साम-
न्तलोकेन पश्चादाकृष्यमाणाश्वीयेनानुगम्यमानः पुरस्ताच्च तेन शाक्यपु-
त्रीयेण प्रदिश्यमानवर्त्मा पद्धयामेव तं प्रदेशमविरलैः पदैः पिबन्निव
प्रावर्तत ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४३२ हर्षचरितम्
ञ्जलिबन्धः । मातर्महाटवि, रटन्तीं न शृणोषीमामापत्पतिताम् । पतङ्ग,
प्रसीद पाहि पतिव्रतामशरण्याम् । प्रयलरक्षित कृतघ्न चारित्रचण्डाल, न
रक्षसि राजपुत्रीम् । किमवधृतं लक्षणैः । हा देवि दुहितृस्नेहमयि यशोमति,
मुषितासि दग्धदैवदस्युना । देव, दुहितरि दह्यमानायां नापतसि ।
प्रतापशील, शिथिलीभूतमपत्यप्रेम । महाराज राज्यवर्धन, न धावसि
मन्दीभूता भगिनीप्रीतिः । अहो निष्ठुरः प्रेतभावः । व्यपेहि पाप पावक
स्त्रीघातनिर्घृण, ज्वलन्न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअष्टम उच्छ्वासः ४३१
स्थास्यसि कथमिवाशिवे शवशिबिरे शबरिके । सुतनु, तनूनपाति पति-
ष्यसि त्वमपि । मृणालकोमले मालावति, म्लानासि । मातर्मातङ्गिके,
अङ्गीकृतस्त्वयापि मृत्युः । वत्से वत्सिके, वत्स्यसि कथमनभिप्रेते प्रेतनगरे ।
नागरिके, गरिमाणमागतास्यनया स्वामिभक्त्या । विराजिके, विराजि-
तासि राजपुत्रीविपदि जीवितव्ययव्यवसायेन । भृगुपतनाभ्युद्यमभागा-
भिज्ञे भृङ्गारधारिणि, धन्यासि । केतकि, कुतः पुनरीदृशी स्वप्नेऽपि सुस्वा-
मिनी । मेनके,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४१४ हर्षचरितम्
बसन्तिके, अन्तरं प्रयच्छ । आपृच्छते छत्रधारी देवि, देहि दृष्टिम् । इष्टा
तव जहाति जीवितं विजयसेना । सेयं मुक्तिका मुक्तकण्ठमारटति निकटे
नाटकसूत्रधारी । पादयोः पतति ते ताम्बूलवाहिनी बहुमता राजपुत्रि,
पत्रलता, कलिङ्गसेने, अयं पश्चिमः परिष्वङ्गः । पीडय निर्भरमुरसा माम् ।
असवः प्रवसन्ति वसन्तसेने । मञ्जुलिके, मार्जयसि कतिकृत्वः सुदुःसह-
दुःखसहस्रास्रदिग्धं चक्षुरिदं रोदिषि कियदालिष्य च माम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचरणानामयमञ्जलिः । परः परलोकप्रयाणप्रणामोऽयं मातः । मरणसमये
कस्माल्लवलिके, हलहलो बलीयानानन्दमयो हृदयस्य मे । हृष्यन्त्युच्चै-
रोमाञ्चमुञ्चि किमङ्गीकृत्याङ्गानि । वामलिके, बामेन मे स्फुरितमक्ष्णा ।
वृथा विरससि वयस्य वायस, वृत्ते क्षीरिणि क्षयो क्षयो क्षीणपुण्यायाः पुरः।
हरिणि, हेषितमिव हयानामुत्तरतः । कस्येदमातपत्रमुच्चमत्र पादपान्तरेण
प्रभावति, विभाव्यते । कुरङ्गिके, केन सुगृहीतनाम्रो नाम गृहीतममृत-
मयमार्थस्य ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४३६ हर्षचरितम् .
प्रत्यानयतेव कुतोऽपि जीवितमाह्लादकेन हस्तसंस्पर्शेन सहसैव समुन्मि-
मील राज्यश्रीः । तथा चासंभावितागमनस्याचिन्तितदर्शनस्य सहसा
प्राप्तस्य भ्रातुः स्वप्नदृष्टदर्शनस्येव कण्ठे समाश्लिष्य तत्कालाविर्भावनि-
र्भरेणाभिभूतसर्वात्मना दुःखसंभारेण निर्दयं नदीमुखप्रणालाभ्यामिव
मुक्ताभ्यां स्थूलप्रवाहमुत्सृजन्ती बाष्पवारि विलोचनाभ्याम् 'हा तात, हा
अम्ब, हा सख्यः' इति व्याहरन्ती, मुहुर्मुहुरुच्चैस्तरां च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inमन्युभारभरितान्तःकरणा करुणं काहलेन स्वरेण कतिचित्कालमतिदीर्घं
रुरोद । विगते च मन्युवेगे वन्हेः समीपादाक्षिप्य भ्रात्रा नीता निकटवर्तिनि
तरुतले निषसाद ।
शनैराचार्यस्तु तथा हर्ष इति विज्ञाय विवर्धितादरः सुतरां मुहूर्तमिव-
वातिबाह्य निभृतसंज्ञाज्ञापितेन शिष्येणोपनीतं नलिनीदलैः स्वयमेवादाय
नम्रो मुखप्रक्षालनायोदकमुपनिन्ये । नरेन्द्रोऽपि सादरं गृहीत्वा प्रथममन-
वरतरोदनाताम्रं चिरप्रवृत्ताश्रुजलजालं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४४० हर्षचरितम्
तान्कथमपि रसातलनिवासी वासुकिर्नाम विषमुचामीशः। स च तैर्मु-
क्ताफलैः पातालतलेऽपि तारागणमिव दर्शयद्भिरैकावलीमकल्पयत्। चकार
च मन्दाकिनीति नाम तस्याः। सा च भगवतः सोमस्य सर्वासामोष-
धीनामधिपतेः प्रभावादत्यन्तविषघ्नी हिमामृतसंभवत्वाच्च स्पर्शेन सर्वस-
त्त्वसंतापहारिणी बभूव। यतः स तां सर्वदा विषोष्मशान्तये वासुकिः
पर्यधत्त।
समतिक्रामति च कियत्यपि काले
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअष्टम उच्छ्वासः ४४१
महीयसि विसर्पति रश्मिमण्डले युगपद्धवलायमानेषु दिङ्मुखेषु मुकुलि-
तलतावधूतकण्ठितैरामूलाद्विकसितमिव तरुभिः, अभिनवमृणाललुब्धैर्धा-
वितमिव धुतपक्षपुटपटलधवलितगगनं वनसरसीहंसयूथैः, स्फुटितमिव
भरवशविशीर्यमाणधूलिधवलैर्गर्भभेदसूचितसूचीसंचयशुचिभिः केतकी-
बाटैः, उल्लसितदलदन्तुराभिः प्रबुद्धमिव कुमुदिनीभिः, विधुतसितस-
टाभारभरितदिक्षकैश्चलितमिव केसरिकुलैः, प्रहसितमिव सितदशनां-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in