हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
by महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री
About this granth
The Harshacharita (हर्षचरितम्) is the seventh-century Sanskrit prose work of Banabhatta on the life and lineage of the emperor Harshavardhana, often called the first historical narrative (akhyayika) in Sanskrit. The introduction to this edition sets Bana's prose beside Kalidasa's verse and describes the Harshacharita as his first work, a prelude to the style he perfected in the Kadambari.
The work has eight chapters (ucchvasas). They begin with Sarasvati's descent under Durvasa's curse, Bana's Vatsyayana family and his visit to Harsha's court, then turn to Sthanvishvara and King Prabhakaravardhana, the births of his children, Rajyashri's marriage, the Huna campaign, the king's death and Queen Yashomati's self-immolation, Rajyavardhana's murder and Harsha's vow of conquest, and the search for Rajyashri in the Vindhya forest, where Harsha meets the monk Divakaramitra.
This is No. 36 of the Vidyabhawan Sanskrit Granthamala from Chowkhamba Vidya Bhawan, Varanasi, with Shankara's Sanskrit commentary Sanketa and a Hindi commentary by Pt. Jagannath Pathak of the Vaidyanath Dham Gurukul, Bihar. The scan of 506 pages contains the whole work.
तृतीय उच्छ्वासः १६७
बुकायत्ततरलपनम्, अंसावलम्बिना काषायेण योगपट्टकेन विरचितवैक-
क्षकम्, हृदयमध्यनिबद्धग्रन्थिना च रागेणेव खण्डशः कृतेन धातुरसा-
रुणेन कर्पटेन कृतोत्तरासङ्गम्, पुनरुक्तबालप्रग्रहवेष्टन निश्चलमूलेन बद्ध-
मृत्परिशोधनवंशत्वक्तितउना कौपीनसनाथशिखरेण खर्जूरपुटसमुद्गकग-
र्भीकृतभिक्षाकपालकेन दारवफलकत्रयत्रिकोणत्रियष्टिनिविष्टकमण्डलुना
बहिरुपपादितपादुकावस्थानेन स्थूलदशासूत्रनियन्त्रितपुस्तिकापूलकेन
वामकरधृतेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१६८ हर्षचरितम्
चसा' इत्युक्त्वा चोपनिन्थे । योगभारकादाकृष्य भैरवाचार्यप्रहितानि
रत्नवन्ति बहलालोकलिप्तानतःपुराणि पञ्च राजतानि पुण्डरीकाणि ।
नरपतिस्तु प्रियजनप्रणयभङ्गकातरो दाक्षिण्यमनुरुध्यमानो ग्रहणला-
घवं च लङ्घयितुमसमर्थो दोलायमानेन मनसा स्थित्वा चिरं कथंकथमप्य-
तिसौजन्यनिघ्नस्तानि जग्राह । जगाद च—'सर्वफलप्रसवहेतुः शिवभ-
क्तिरियं नो मनोरथदुर्लभानि फलति फलानि । येनैवमस्मासु प्रीयते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[header]
तृतीय उच्छ्वासः १६६
[/header]
इति। सोऽकथयत्—'अस्य जीर्णमातृगृहस्योत्तरेण बिल्ववाटिकामध्यास्ते'
इति। गत्वा च तं प्रदेशमवततार तुरगात्। प्रविवेश च बिल्ववाटिकां।
अथ महतः कार्पटिकवृन्दस्य मध्ये प्रातरेव स्नातम्, दत्ताष्टपुष्पि-
कम्, अनुष्ठिताग्निकार्यम्, कृतभस्मरेखापरिहारपरिकरे हरितगोमयो-
पलिप्तक्षितितलवितते व्याघ्रचर्मण्युपविष्टम्, कृष्णकम्बलप्रावरणनिभे-
नासुरविवरप्रवेशाशङ्कया पातालान्धकारावासमिवाभ्यस्यन्तम्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७० हर्षचरितम्
ललाटवलिभङ्गसंकोचितकूर्चभागं बभ्रुभासं भ्रूसंगत्या निरन्तरामाया-
मिनीमेकामिव भ्रूरेखां बिभ्राणम्, ईषत्काचरकनीनिकेन रक्तापाङ्ग-
निर्गतांशुप्रतानेन मध्यधवलभासेन्द्रायुधेनेवातिदीर्घेण लोचनयुगलेन
परितो महामण्डलमिवानेकवर्णरागमालिखन्तम्, सितपीतलोहित-
पताकावलिशबलम्, शिवबलिमिव दिक्षु विक्षिपन्तम्, तार्क्ष्यतुण्ड-
कोटिकुब्जाग्रघोणम्, दूरविदीर्णसृक्कसंक्षिप्तकपोलम्, किंचिदन्तुरतया
सदाहृदयसंनिहितहरमौलिचन्द्रातपेनेव निर्गच्छता
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १७१
नघटीयन्त्रमालामिव रुद्राक्षमालां दक्षिणेन पाणिना भ्रमयन्तम्, उरसि दो-
लायमानेनापिङ्गलाग्रेण कूर्चककलापेन संमार्जयन्तमिवान्तर्गतं निजरजो-
निकरम्, अतिनिबिडनीललोममण्डलविचितं च ध्यानलब्धेन ज्योतिषा
दग्धमिव हृदयदेशं दधानम्, ईषत्प्रशिथिलवलिवलयबध्यमानतुन्दम्, उप-
चीयमानस्फिङ्मांसपिण्डकम्, पाण्डुरपवित्रक्षौमावृतकौपीनम्, सावष्टम्भ-
पर्यङ्कबन्धमण्डलितेनामृतफेनश्वेतरुचा योगपट्टकेन वासुकिनेवाप्रतिहता-
नेकमन्त्रप्रभावाविर्भूतेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७२ हर्षचरितम्
द्धिविघ्नविनायकापनयनाङ्कुशेनेव सततपार्श्ववर्तिना विराज मानम् , अबहु-
भाषिणं मन्दहासिर्न सर्वोपकारिणं कुमारब्रह्मचारिणम् , अतितपस्विनम् ,
महामनस्विनं कृशक्रोधम् , अकृशानुरोधम् , महानगरमिवादीनप्रकृतिशो-
भितम् , मेरुमिव कल्पतरुपल्लवराशिसुकुमारच्छायम् , कैलासमिव पशुपति-
चरणरजःपवित्रितशिरसम् , शिवलोकमिव माहेश्वरगणानुयातम् ,
जलनिधिमिवानेकनदनदीसहस्रप्रक्षालितशरीरम् , जाह्नवीप्रवाहमिव बहु-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १७३
सौजन्यस्य, संभवं सद्भावस्य, कालं कलेः, भगवन्तं साक्षादिव विरू-
पाक्षं भैरवाचार्य ददर्श ।
भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा शशिनमिव जलनिधिश्चचाल ।
प्रथमतरोत्थितशिष्यलोकम्रोत्थाय प्रत्युज्जगाम । समर्पितश्रीफलोपायनश्च
जह्नुकर्णसमुद्गीर्यमाणगङ्गाप्रवाहह्लादगम्भीरया गिरा स्वस्तिशब्दमकरोत् ।
नरपतिरपि प्रीतिविस्तार्यमाणधवलिम्ना चक्षुषा प्रत्यर्पयन्निव बहुत-
राणि पुण्डरीकवनानि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७४ हर्षचरितम्
मामन्यनृपस्खलितैः खलीकर्तुम्। अशेषराजकोपेक्षिताया हतलक्ष्म्याः
खल्वयं शीलापराधो द्रविणदौरात्म्यं वा यदेवमाचरति मयि गुरुः।
अभूमिरयमुपचाराणाम्। अलमतियन्त्रणया। दूरस्थितोऽपि मनोरथ-
शिष्योऽयं जनो भवताम्। माननीयं च गुरुवन्नोल्लङ्घनमर्हति गुरो-
रासनम्। आसतां च भवन्त एवात्र' इति व्याहृत्य परिजनोपनीते वास-
सि निषसाद। भैरवाचार्योऽपि प्रीत्यानतिक्रमणीयं नृपवचनमनुवर्तमानः
पूर्ववत्तदेव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १७५
सन्ति प्राणाः । दुर्ग्रहीतानि कतिचिद्विद्यन्ते विद्याक्षराणि । भगवच्छिव-
भट्टारकपादसेवया समुपाजिताः कियत्योऽपि संनिहिताः पुण्यकणिकाः ।
स्वीक्रियतां यदत्रोपयोगार्हम् । प्रतनुलुणग्राह्याणि कुसुमानीव हि भवन्ति
सतां मनांसि । अपि च, विद्वत्संमताः श्रूयमाणा अपि साधवः शब्दा इव
सुधीरेऽपि हि मनसि यशांसि कुर्वन्ति । विवरं विशतः कुतूहलस्य फेनध-
वलैः स्रोतोभिरिवापह्रियमाणो गुणगणैरानीतोऽस्मि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७६ हर्षचरितम्
'तात ! क्व विभवाः, क्व च वयं वनवर्धिताः ? धनोष्मणा म्लायत्यलं
लतेव मनस्विता। खद्योतानामिवास्माकमियमपरोपतापिनो राजते
तेजस्विता। भवादृशा एव भाजनं भूतेः' इति स्थित्वा च कंचि-
त्कालं जगाम।
परिव्राट् तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्युपायनी-
चकार। एकदा तु श्वेतकर्पटावृतं किमप्यादाय प्राविशत्। उपविश्य च
पूर्ववत्स्थित्वा मुहूर्त्तमब्रवीत्—'महाभाग ! भवन्तमाह भगवान्यथा-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १७७
रासारम्, प्रलयकालमेघखण्डमिव नभस्तलात्पतितम्, दृश्यमानविकट-
दन्तमण्डलं हासमिव हिंसायाः, हरिबाहुदण्डमिव कृतदृढमुष्टिग्रहम्,
सकलभुवनजीवितापहरणक्षमेण कालकूटेनेव निर्मितम्, कृतान्तकोपान-
लतप्तेनेवायसा घटितम्, अतितीक्ष्णतया पवनस्पर्शनापि रुषेव क्वणन्तम्,
मणिसभाकुट्टिमपतत्प्रतिबिम्बच्छद्मनात्मानमपि द्विधेव पाटयन्तम्'
अरिशिरश्छेदलग्नैः कचैरिव किरणैः करालितधारम्, मुहुर्मुहुस्तडिदु-
न्मेषतरलैः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७८ हर्षचरितम्
साधयामः' इत्युक्त्वा निरयासीत् । नृपश्च प्रकृत्या वीररसानुरागी तेन
कृपाणेनामन्यत करतलवर्तिनीं मेदिनीम् ।
अथ व्रजत्सु दिवसेष्वेकदा भैरवाचार्यो राजानमुपह्वरे सोपग्रहम-
वादीत्—'तात ! स्वार्थांलसाः परोपकारदक्षाश्च प्रकृतयो भवन्ति भव्या-
नाम् । भवादृशां चार्थिदर्शनं महोत्सवः प्रणयनमाराधनमर्थग्रहणमु-
पकारः । भूमिरसि सर्वलोकमनोरथानाम् । येनाभिधीयसे । श्रूयताम् ।
भगवतो महाकालहृदयनाम्नो महामन्त्रस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपातालस्वामी। अपरो मच्छिष्य एव कर्णतालनामा द्राविडः। यदि
साधु मन्यसे ततो नीयतामयं दिङ्नागहस्तदीर्घो गृहीताट्टहासो निशा-
मेकामेकदिक्खावर्गलतां बाहुः।' इति कृतवचसि च तस्मिन्नन्धकारप्रविष्ट
इव दृष्टप्रकाशः प्राप्तोपकारावकाशः प्रमुदितेनान्तरात्मना नरेन्द्रः सम-
भाषत—'भगवन् ! परमनुगृहीतोऽस्म्यनेन शिष्यजनसामान्येन निदेशेन
कृतपरिग्रहमिवात्मानमवैमि' इति । ननन्द च तेन नरेन्द्रव्याहृतेन
भैरवाचार्यः। चकार च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८० हर्षचरितम्
तरि, यातुधानीष्विव वर्धमानासु तरुच्छायासु, पातालतलवासिषु विघ्नाथ
दानवेष्विवोत्तिष्ठत्सु तमोमण्डलेषु, नभसि पुञ्जीभवति, रौद्रं कर्म दिदृ-
क्षमाण इव नक्षत्रगणे, विगाढायां शर्वर्याम्, सुप्तजने निःशब्दस्तिमिते
निशीथे, राजा सान्तःपुरं परिजनं वञ्चयित्वा वामकरस्फुरत्सरुर्दक्षिण-
करेणोत्खातं खड्गमट्टहासमादाय विसर्पता च खड्गप्रभापटलेन नीलांशु-
कपटेनेव दर्शनभयादवगुण्ठितनिखिलगात्रयष्टिरनादिष्ट्याप्यनुगम्यमानो
राजलक्ष्म्या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १८१
टिटविकटस्वस्तिकाप्रन्थीन्महामुद्राबन्धानिव धारयन्तो मूर्धभिः एक श्रव-
णविवरविततविमलदन्तपत्रप्रभालोकलेपधवलितकपोलैर्मुखैरपिबन्त इव
निशाचरापचयचिकीर्षया शार्वरमन्धकारम्, इतरकर्णावलम्बिनां
रत्नकुण्डलानामच्छाच्छया रुचा गोरोचनयेव मन्त्रपरिजप्तया समाल-
ब्धाङ्गाः, स्वप्रतिबिम्बगर्भान्कर्मसिद्धये दत्तपुरुषोपहारानिवोल्लासयन्तो
निशितान्निस्त्रिंशान्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअवनिपतिस्तु—'कोऽत्र कः?' इति त्रीनपृच्छत्। आचचक्षिरे च
स्वं स्वं नाम त्रयोऽपि ते। तैरेव चानुगम्यमानो जगाम तां बलिदीपा-
लोकजर्जरितगुग्गुलुधूपधूमगृह्यमाणदिग्विभागतया विक्षिप्यमाणरक्षासर्ष-
पार्थदग्धान्धकारपलायमाननिशामिव समुपकल्पितसर्वोपकरणां निःशब्दां
च गम्भीरां च भीषणां च साधनभूमिम्।
तस्यां च कुमुदधूलिधवलेन भस्मना लिखितस्य महतो मण्डलस्य
मध्ये स्थितं दीप्ततरतेजःप्रसरम्, पृथुपरिवेषपरिक्षिप्तमिव शरत्सविता-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १८३
मानुषनिर्माणकारणकालुष्यपरमाणूनिव क्षयमुपनयन्तम्, आहुतिदानप-
र्यस्ताभिः प्रेतमुखस्पर्शदूषितम्, प्रक्षालयन्तमिवाशुशुक्षणिं करनखदी-
धितिभिः, धूमालोहितेन चक्षुषा क्षतजाहुतिमिव हुतभुजि पातयन्तम्,
ईषद्विवृताधरपुटप्रकटितसितदशनशिखरेण दृश्यमानमूर्तमन्त्राक्षरपङ्क्तिनेव
मुखेन किमपि जपन्तम्, होमश्रमस्वेदसलिलप्रतिबिम्बिताभिरासन्नदी-
पिकाभिर्दहन्तमिव कर्मसिद्धये सर्वावयवान्, अंसावलम्बिना बहुगुणेन
विद्याराजेनेव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८४ हर्षचरितम्
एवं चावस्थितेषु दिक्पालेषु दिक्पालभुजपञ्जरप्रविष्टे विस्रब्धं कर्म
साधयति भैरवं भैरवाचार्येऽतिचिरं च कृतकोलाहलेषु निष्फलप्रयत्नेषु
प्रत्यूहकारिषु शान्तेषु कौणपेषु गलत्यर्धरात्रसमये मण्डलस्य नातिदवी-
यस्युत्तरेणाकस्मादेव प्रलयमहावराहदंष्ट्राविवरमिव दर्शयन्ती क्षितिरदी-
र्यत । सहसैव च तस्माद्विरदाशावारणोत्क्षिप्त इवालान लोहस्तम्भः,
महावराहपीवरस्कन्धपीठो नरकासुर इव भुवो गर्भादुद्भूतो बलिदानव
इव भित्त्वोत्थितः पातालम्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[PageHeader]
तृतीय उच्छ्वासः १८५
[/PageHeader]
क्षामतरीकृतकुक्षिः, कच्छाबन्धं विधाय विलासविक्षिप्तेन धवलव्यायाम-
फालीपटान्तेन धरणितलगतेन धार्यमाण इव पृष्ठतः शेषेण स्थिरस्थूलो-
रुरुद्दण्डः, भूमिभङ्गभयेनेव मन्थराणि स्थापयन्पदानि निर्भरगर्वगुरु कथ-
मपि शैलमिव गात्रमुद्वहन्दर्पेण मुहुर्मुहुरुरसि द्विगुणिते दोष्णि वामे
तिर्यगुत्क्षिप्ते च दक्षिणे जङ्घाकाण्डे कुण्डलिते चण्डास्फोटनटांकारैः कर्म-
विघ्ननिर्घातानिव पातयन्नेकेन्द्रियविकलमिव जीवलोकं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८६ हर्षचरितम्
मयि का शक्तिर्ग्रहगणस्यापि गन्तुं गगने। भूनाथोऽप्ययमनाथस्तपस्वी
यस्त्वादृशैः शैवापसदैरुपकरणीक्रियते। सहस्वेदानीं सहामुना दुर्नरेन्द्रेण
दुर्नयस्य फलम्' इत्यभिधाय च निष्ठुरैः प्रकोष्ठप्रहारैस्त्रीनपि टीटिभप्रभृ-
तीनभिमुखं प्रधावितान्सशरीरावरणकृपाणानपातयत्।
अथ। पूर्वाधिक्षेपश्रवणादशस्त्रव्रणैरप्यमर्षस्वेदच्छलेनानेकसमरपीतम-
सिधाराजलमिव वमद्भिरवयवैरपि रोमाञ्चनिभेन मुक्तशरशतशल्यनिकर-
भरलघुमिवात्मानं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in