हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
by महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री
About this granth
The Harshacharita (हर्षचरितम्) is the seventh-century Sanskrit prose work of Banabhatta on the life and lineage of the emperor Harshavardhana, often called the first historical narrative (akhyayika) in Sanskrit. The introduction to this edition sets Bana's prose beside Kalidasa's verse and describes the Harshacharita as his first work, a prelude to the style he perfected in the Kadambari.
The work has eight chapters (ucchvasas). They begin with Sarasvati's descent under Durvasa's curse, Bana's Vatsyayana family and his visit to Harsha's court, then turn to Sthanvishvara and King Prabhakaravardhana, the births of his children, Rajyashri's marriage, the Huna campaign, the king's death and Queen Yashomati's self-immolation, Rajyavardhana's murder and Harsha's vow of conquest, and the search for Rajyashri in the Vindhya forest, where Harsha meets the monk Divakaramitra.
This is No. 36 of the Vidyabhawan Sanskrit Granthamala from Chowkhamba Vidya Bhawan, Varanasi, with Shankara's Sanskrit commentary Sanketa and a Hindi commentary by Pt. Jagannath Pathak of the Vaidyanath Dham Gurukul, Bihar. The scan of 506 pages contains the whole work.
१२६ हर्षचरितम्
मल्लो देवः परमेश्वरो हर्षः । एतेन च खलु राजन्वती पृथिवी । नास्य
हरेरिव वृषविरोधीनि बालचरितानि, न पशुपतेरिव दक्षजनोद्वेगकारीण्यै-
श्वर्यविलसितानि, न शतक्रतोरिव गोत्रविनाशपिशुनाः प्रवादाः, न
यमस्येवातिवल्लभानि दण्डग्रहणानि, न वरुणस्येव निस्त्रिंशग्राहसहस्र-
रक्षिता रत्नालयाः, न धनदस्येव निष्फलाः सन्निधिलाभाः, न जिनस्ये-
वार्थवादशून्यानि दर्शनानि, न चन्द्रमस इव बहुलदोषोपहताः श्रियः ।
वृषो धर्मः, अरिष्टासुरो दान्तरूपश्च । बालेति । बाला हि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः १२७
चित्रमिदमत्यमरं राजत्वम् । अपि चास्य त्यागस्यार्थिनः, प्रज्ञायाः
शास्त्राणि, कवित्वस्य वाचः, सत्त्वस्य साहसस्थानानि, उत्साहस्य
व्यापाराः, कीर्तेर्दिङ्गाखानि, अनुरागस्य लोकहृदयानि, गुणगणस्य संख्या,
कौशलस्य कला, न पर्याप्तो विषयः । अस्मिंश्च राजनि यतीनां योग-
पट्टकाः, पुस्तकर्मणां पार्थिवविग्रहाः, षट्पदानां दानग्रहणकलहाः, वृत्तानां
पादच्छेदाः, अष्टपदानां चतुरङ्गकल्पना, पन्नगानां द्विजगुरुद्वेषाः, वाक्य-
विदामधिकरणविचाराः इति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२८ हर्षचरितम्
अथोत्तरे नातिदूरे राजधिष्ण्यस्य गजपरिचारको मधुरमपरवक्त्र-
मुच्चैरगायत्—
'करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।
मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः' ॥
राजा तु तच्छ्रुत्वा दृष्ट्वा च तं गिरिगुहागतसिंहबृंहितगम्भीरेण स्वरेण
पूरयन्निव नभोभागमपृच्छत्—'एष स बाणः ?' इति । 'यथा ज्ञापयति
देवः । सोऽयम्' इति विज्ञापितो दौवारिकेण । 'न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः १०६
निषण्णस्य मालवराजसूनोरकथयत्—‘महानयं भुजङ्गः’ इति। तूष्णीं-
भावेन त्वगमितनरेन्द्रवचसि तस्मिन्मूके च राजलोके मुहूर्तमिब
तृष्णीं स्थित्वा बाणो व्यज्ञापयत्—‘देव ! अविज्ञाततत्त्व इव, अश्रद्दधान
इव, नेय इव, अविदितलोकवृत्तान्त इव च कस्मादेवमाज्ञापयसि ?
स्वैरिणो विचित्राश्च लोकस्य स्वभावाः प्रवादाश्च । महद्भिस्तु यथार्थ-
दर्शिभिर्भवितव्यम् । नार्हसि मामन्यथा संभावयितुमविशिष्टमिव ।
ब्राह्मणोऽस्मि जातः सोमपायिनां वंशे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३० हर्षचरितम्
लोकद्वयाविरोधिभिस्तु चापलैः शैशवमशून्यमासीत् । अत्रानपला-
पोऽस्मि । अनेनैव च गृहीतविप्रतीसारमिव मे हृदयम् । इदानीं तु सुगत
इव शान्तमनसि मनाविव कर्तरि वर्णाश्रमव्यवस्थानां समवर्तिनीव च
साक्षाद्दण्डधृति देवे शासति सप्ताम्बुराशिरशनामशेषद्वीपमालिनीं महीं
क इवाविशङ्कः सर्वव्यसनबन्धोरविनयस्य मनसाप्यभिनयं कल्पयिष्यति ।
आसतां च तावन्मानुष्यकोपेताः । त्वत्प्रभावादलयोऽपि भीता इव मधु
पिबन्ति । रथाङ्गनामानोऽपि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः १३१
वृष्टिभिः स्नपयन्निव स्नेहगर्भेण दृष्टिपातमात्रेणान्तर्गतां प्रीतिमकथयत् ।
अस्ताभिलाषिणि च लम्बमाने सवितरि विसर्जितराजलोकोऽभ्यन्तरं
प्राविशत् ।
बाणोऽपि निर्गत्य धौतारकूटकोमलातपत्विषि निर्वाति वासरे,
अस्ताचलकूटकिरीटे निचुलमञ्जरीभांसि तेजांसि मुञ्चति वियन्मुचि
मरीचिमालिनि, अतिरोमन्थमन्थरकुरङ्गकुटुम्बकाध्यास्यमानम्रदिष्ठगोष्ठी-
नपृष्ठास्वरण्यस्थलीषु, शोकाकुलकोककामिनीकूजितकरुणासु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३२ हर्षचरितम्
शुचिशायचरणेषु चैत्यप्रणतिपरेषु पाराशरिषु, यज्ञपात्रपवित्रपाणौ प्रकीर्ण-
बर्हिष्युत्तेजसि जातवेदसि, हवींषि वषट्कुर्वति यायजूकजने, निद्राविद्राण-
द्रोणकुलकलिलकुलायेषु कापेयविकलकपिकुलेष्वारामतरुषु, निर्जिगमि-
षति जरत्तरुकोटरकुटीकुटुम्बिनि कौशिककुले, मुनिकरसहस्रप्रकीर्णसंध्या-
वन्दनोदबिन्दुनिकर इव दन्तुरयति तारापथस्थलीं स्थवीयसि तारकानि-
कुरम्बे, अम्बराश्रयिणि शर्वरीशबरीशिखण्डे, खण्डपरशुकण्ठकाले
कवलयति बाले
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय उच्छ्वासः १३३
गरे विजृम्भमाणे भीषणतमे तमीमुखे, मुखरितविततज्यधनुषि वर्षति
शरनिकरमनवरतमशेषसंसारशेमुषीमुषि मकरध्वजे, रताकल्पारम्भशो-
भिनि शम्भलीसुभाषितभाजि भजति भूषां भुजिष्याजने, सैरन्ध्रीबध्य-
मानरशनाजालजल्पाकजघनासु जनीषु, वशिकविशिखाविहारिणीष्वन-
न्यजानुप्लवासु प्रचलितास्वभिसारिकासु, विरलीभवति वरटानां वेशन्त-
शायिनीनां मञ्जुनि मञ्जीरशिञ्जितजडे जल्पिते, निद्राविद्राणद्रा-
घीयसि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३४ हर्षचरितम्
चौपलोचितकौलीनकोपितोऽपि मनसा स्निह्यत्येव मयि । यद्यहमक्षिगतः
स्याम्, न मे दर्शनेन प्रसादं कुर्यात् । इच्छति तु मां गुणवन्तम् ।
उपदिशन्ति हि विनयमनुरूपप्रतिपत्त्युपपादनेन वाचा विनापि भर्तव्यानां
स्वामिनः । अपि च धिङ्मां स्वदोषान्धमानसमनादरपीडितमेवमति-
गुणवति राजन्यन्यथा चान्यथा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः
निजवर्षादितस्नेहा बहुभक्तजनान्विताः ।
सुकाला इव जायन्ते प्रजापुण्येन भूभुजः ॥ १ ॥
साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् ।
न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥ २ ॥
अथ कदाचिद्विरलितबलाहके, चातकातङ्ककारिणि, कणत्कादम्बे,
दर्दुरद्विपि, मयूरमदमुषि, हंसपथिकसार्थसर्वातिथौ, धौतासिनिभनभसि,
निजेति । निज
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३६ हर्षचरितम्
भास्वरभास्वति, शुचिशशिनि, तरुणतारागणे, गलत्सुनासीरशरासने,
सीदत्सौदामनीदाम्नि, दामोदरनिद्राद्रुहि, द्रुतवैदूर्यवर्णार्णसि, घूर्णमानमि-
हिकालघुमेघमोघमघवति, निमीलन्नीपे, निष्कुसुमकुटजे, निर्मुकुलकन्दले,
कोमलकमले, मधुस्यन्दीन्दीवरे, कह्लाराह्लादिनि, शेफालिकाशीतलीकृ-
तनिशे, यूथिकामोदिनि, मोदमानकुमुदावदातदशदिशि, सप्तच्छदधूलि-
धूसरितसमीरे, स्तबकितबन्धुरबन्धूकावध्यमानाकाण्डसंध्ये, नीराजित-
वाजिनि, उद्दामदन्तिनि, दर्पक्षीणौक्षक्रे,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १३७
मञ्जरीरजसि, कठोरितत्रपुसत्वचि, कुसुमस्मेरशरे, शरत्समयारम्भे राज्ञः
समीपाद्वाणो बन्धून्द्रष्टुं पुनरपि तं ब्राह्मणाधिवासमगात् ।
समुपलब्धभूपालसंमानातिशयपरितुष्टास्त्वस्य ज्ञातयः श्लाघमाना
निर्ययुः । क्रमेण च कांश्चिदभिवाद्यमानः कैश्चिदभिवाद्यमानः,
कैश्चिच्छिरसि चुम्ब्यमानः, कांश्चिन्मूर्ध्नि समाजिघ्रन्, कैश्चिदालिङ्ग्य-
मानः, कांश्चिदालिङ्गन्, अन्यैराशिषानुगृह्यमाणः, पराननुगृह्णन्, बहु-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३८ हर्षचरितम्
कर्मण्यभियोगः ? तान्येव व्याकरणे परस्परस्पर्धानुबन्धाबन्ध्यदिवस-
दर्शितादराणि व्याख्यानमण्डलानि, सैव वा पुरातनी परित्यक्तान्यकर्तव्या
प्रमाणगोष्ठी, स एव वा मन्दीकृतेतरशास्त्ररसो मीमांसायामतिरसः ?
कच्चित एवाभिनवसुभाषितसुधावर्षिणः काव्यालापाः ?' इति ।
अथ ते तमूचुः—'तात ! संतोषजुषां सततसंनिहितविद्याविनोदानां
वैतानवह्निमात्रसहायानां कियन्मात्रं नः कृत्यं सुखितया सकलभुवनभुजि
भुजङ्गराजदेहदीर्घे रक्षति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १३६
चिताः क्रियाकलापाः' इत्येवमादिभिरालापैः स्कन्धावारवार्ताभिश्च
शैशवातिक्रान्तक्रीडानुस्मरणैः पूर्वजकथाभिश्च विनोदितमनास्तैः सह
सुचिरमतिष्ठत् । उत्थाय च मध्यन्दिने यथाक्रियमाणाः स्थितिरकरोत् ।
भुक्तवन्तं च तं सर्वे ज्ञातयः पर्यवारयन् ।
अत्रान्तरे दुकूलपट्टप्रभवे शिखण्ड्यपाङ्गपाण्डुनी पौण्ड्रे वाससी
वसानः स्नानावसानसमये वन्दितया तीर्थमृदा गोरोचनया च रचि-
ततिलकः, तैलामलकमसृणितमौलिः,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४० हर्षचरितम्
किरणैर्मृदुमृणालसूत्रैरिवावेष्टितं पुस्तकं पुरोनिहितशरशलाकायन्त्रके
निधाय, पृष्ठतः सनीडसंनिविष्टाभ्यां मधुकरपारावताभ्यां वांशिकाभ्यां
दत्ते स्थानके प्राभातिकप्रपाठकच्छेदचिह्नीकृतमन्तरं पत्रमुत्क्षिप्य,
गृहीत्वा च कतिपयपत्रलघ्वीं कपाटिकाम्, क्षालयन्निव मषीमलिनान्य-
क्षराणि दन्तकान्तिभिः, अर्चयन्निव सितकुसुममुक्तिभिर्ग्रन्थम्, मुख-
संनिहितसरस्वतीनूपुररवैरिब
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १४१
हर्षचरितादभिन्नं प्रतिभाति हि मे पुराणमिदम् ॥ ३ ॥
वंशानुगमविवादि स्फुटकराणं भरतमार्गभजनगुरु ।
श्रीकण्ठविनिर्यातं गीतमिव हर्षराज्यमिव ॥ ४ ॥
तच्छ्रुत्वा बाणस्य चत्वारः पितामहमुखपद्मा इव वेदाभ्यासपवित्रित-
मूर्तयः, उपाया इव सामप्रयोगललितमुखाः, गणपतिः, अधिपतिः, तारा-
पतिः, श्यामल इति पितृव्यपुत्रा भ्रातरः, प्रसन्नवृत्तयः, गृहीतवाक्याः,
कृतगुरूपदन्यासाः, न्यायवादिनः, सुकृतसंग्रहाभ्यासगुरवो लब्धसाधु-
भरतमुनिकृतो ग्रन्थः । श्रीकण्ठः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४२ हर्षचरितम्
शब्दा लोक इव व्याकरणेऽपि सकलपुराणराजर्षिचरिताभिज्ञाः, महाभारत-
तभावितात्मानः, विदितसकलेतिहासाः, महाविद्वांसः, महाकवयः,
महापुरुषवृत्तान्तकुतूहलिनः, सुभाषितश्रवणरसरसायनाः, वितृष्णाः, वयसि
वचसि यशसि तपसि सदसि महसि वपुषि यजुषि च प्रथमाः, पूर्वमेव
कृतसंगराः, विवक्षवः, स्मितसुधाधवलितकपोलोदराः, परस्परस्य
मुखानि व्यलोकयन् ।
अथ तेषां कनीयान्कमलदलदीर्घलोचनः श्यामलो नाम बाणस्य
व्याडिकृतो ग्रन्थश्च । गुरवो महान्तः, उपाध्यायाश्च । साधुशब्दः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १४३
प्रेयान्प्राणानामपि वशयिता दत्तसंज्ञस्तैः सप्रणयं दशनज्योत्स्नास्नापित-
ककुभा मुखेन्दुना बभाषे—'तात बाण ! द्विजानां राजा गुरुदारग्रहण-
मकार्षीत् । पुरूरवा ब्राह्मणधनतृष्णया दयितेनायुषा व्ययुज्यत । नहुषः
परकलत्राभिलाषी महाभुजङ्ग आसीत् । ययातिराहितब्राह्मणी पाणि-
बाणेत्यादिना पूर्वराजदोषोद्भावनद्वारेण हर्षस्य गरीयस्तां ख्यापयति । अत्र क्वचि-
च्छब्दद्वारेण क्वचिच्चार्थद्वारेण यथायोग्यं दोष उद्भाव्यः । चन्द्रादिशब्दाभिधानेन
राजत्वप्रतीतिर्न स्यादिति द्विजानां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४४ हर्षचरितम्
ग्रहणः पपात । सुद्युम्नः स्त्रीमय एवाभवत् । सोमकस्य प्रख्याता जगति
जन्तुवधनिर्घृणता । मांधाता मार्गणव्यसनेन सपुत्रपौत्रो रसातलमात् ।
पुरुकुत्सः कुत्सितं कर्म तपस्यन्नपि मेकलकन्यायामकरोत् । कुवलयाश्वो
रोत् । संदिष्टा च—'कुमारी शतपरिवारवतीयं शर्मिष्ठा यदा मे दास्यं करोति तदा-
गच्छामि' इति । शुक्रशापभीतेन वृषपर्वणा संपादितमनोरथा देवयानी पुनरपि
दासीभूतया शर्मिष्ठया सह वने क्रीडन्ती ययातिमायान्तं दृष्ट्वा बभाषे—'क्वाद्य मां
त्यक्त्वा पाणिग्राहो महानुभावो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय उच्छ्वासः १४५
भुजङ्गलोकपरिग्रहादश्वतरकन्यामपि न परिजहार । पृथुः प्रथमपुरुषऋः
परिभूतवान्पृथिवीम् । नृगस्य कृकलासभावेऽपि वर्णसंकरः समदृश्यत ।
सौदासेन नरक्षिता पर्याकुलीकृता क्षितिः । नलमवशाक्षहृदयं कलि-
रभिभूतवान् । संवरणो मित्रदुहितरि विप्लवतामगात् । दशरथ इष्टरा-
पुरुषऋः । पृथुरादिनृपो भूधराक्रान्तां सर्वां गां विलोक्य चापकोट्या गिरीन् भुवः
पर्यन्तेषु चिक्षेप । धरणकारणभूतभूभृत्परिभवाद्भवो विभवः । अत एवास्य
कापुरुषत्वम् । विष्णुपुराणे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in