Skip to content
SarvaKosh
Back to the archive

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

by महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री

Report a copyright issue

DevanagariSanskritpublished506 pages

About this granth

The Harshacharita (हर्षचरितम्) is the seventh-century Sanskrit prose work of Banabhatta on the life and lineage of the emperor Harshavardhana, often called the first historical narrative (akhyayika) in Sanskrit. The introduction to this edition sets Bana's prose beside Kalidasa's verse and describes the Harshacharita as his first work, a prelude to the style he perfected in the Kadambari.

The work has eight chapters (ucchvasas). They begin with Sarasvati's descent under Durvasa's curse, Bana's Vatsyayana family and his visit to Harsha's court, then turn to Sthanvishvara and King Prabhakaravardhana, the births of his children, Rajyashri's marriage, the Huna campaign, the king's death and Queen Yashomati's self-immolation, Rajyavardhana's murder and Harsha's vow of conquest, and the search for Rajyashri in the Vindhya forest, where Harsha meets the monk Divakaramitra.

This is No. 36 of the Vidyabhawan Sanskrit Granthamala from Chowkhamba Vidya Bhawan, Varanasi, with Shankara's Sanskrit commentary Sanketa and a Hindi commentary by Pt. Jagannath Pathak of the Vaidyanath Dham Gurukul, Bihar. The scan of 506 pages contains the whole work.

Page 160
Page 160 scan

सकलमिव चतुःसमुद्रलावण्यमादायोत्थितया श्रिया समुपश्लिष्टम्,
आभरणमणिकिरणप्रभाजालजायमानानीन्द्रधनुःसहस्राणीन्द्रप्राभृतप्रहि-
तानि बिभ्रमानमिव, राज्ञां संभाषणेषु परित्यक्तमपि मधु वर्षन्तम्,
काव्यकथास्वपीतमप्यमृतमुद्वमन्तम्, विश्रम्भभाषितेष्वनाकृष्टमपि हृदयं
दर्शयन्तम्, प्रसादेषु निश्चलामपि श्रियं स्थाने स्थाने स्थापयन्तम्,
वीरगोष्ठीषु पुलकितेन कपोलस्थलेनानुरागसंदेशमिवोपांशु रणश्रियः शृण्व-
न्तम्, अतिक्रान्तसुभटकलहालापेषु स्नेहवृष्टिमिव दृष्टिमिष्टे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 161
Page 161 scan

अगोचरे गुणानामभूमौ सौभाग्यानामविषये वरप्रदानानामशक्य आशि-
षाममार्गे मनोरथानामतिदूरे दैवस्यादिश्युपमानानामसाध्ये धर्मस्या-
दृष्टपूर्वे लक्ष्म्या महत्त्वे स्थितम्, अरुणपादपल्लवेन सुगतमन्थरोरुणा
वज्रायुधनिष्ठुरप्रकोष्ठपृष्ठेन वृषस्कन्धेन भास्वद्विम्बाधरेण प्रसभावलो-
कितेन चन्द्रमुखेन कृष्णकेशेन वपुषा सर्वदेवतावतारमिवैकत्र दर्श-
यन्तम्, अपि च मांसलमयूखमालामलिनितमहीतले महति महार्हे माणि-
क्यमालामण्डितमेखले महानीलमये पादपीठे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 162
Page 162 scan

द्वितीय उच्छ्वासः ११७
वातिलोहितौ सकलनृपतिमौलिमालास्वतिपीतं पद्मरागरत्नआतपबिंबं
वमन्तौ सर्वतेजस्विमण्डलास्तमयसंध्यामिव धारयन्तावशेषराजककुसुम-
शेखरमधुरसस्रोतांसीव स्रवन्तौ समस्तसामन्तसीमन्तोत्तंसस्रक्सौरभ-
भ्रान्तैर्भ्रमरमण्डलैरमित्रोत्तमाङ्गैरिव मुहूर्तमप्यविरहितौ संवाहनतत्परायाः
श्रियो विकचरक्तपङ्कजवनवासभवनानीव कल्पयन्तौ जलजशङ्खमीन-
मकरसनाथतलतया कथितचतुरम्भोधिभोगचिह्नाविव चरणौ दधा-
नम्, दिङ्नागदन्तमुसलाभ्यामिव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 163
Page 163 scan

११८ हर्षचरितम्
नाभोगमिव भासमानम् , इभपतिदशनमुसलसहस्रोल्लेखकठिनमसृणे-
नापर्याप्ताम्बरप्रथिम्ना विविधवाहिनीसंक्षोभकलकलसंमर्दसहिष्णुना कैला-
समिव महता स्फटिकतटेनोरुणोरःकपाटेन विराजमानम् , श्रीसरस्वत्यो-
रुरोवदनोपभोगविभागसूत्रेणेव पतितेन शेषेणेव च तद्भुजस्तम्भविन्य-
स्तसमस्तभूभारलब्धविश्रान्तिसुखप्रसुप्तेन हारदण्डेन परिवलितकन्धरम् ,
जीवितावधिगृहीतसर्वस्वमहादानदीक्षाचीरेणेव हारमुक्ताफलानां किरण-
निकरेण प्रावृतवक्षःस्थलम् ,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 164
Page 164 scan

द्वितीय उच्छ्वासः ११६
लोकालोकमार्गार्गलेन चतुरुदधिपरिचेपखातशातकुम्भशिलाप्राकारेण
सर्वराजहंसबन्धवज्रपञ्जरेण भुवनलक्ष्मीप्रवेशमङ्गलमहामणितोरेणना-
तिदीर्घदोर्दण्डयुगलेन दिशां दिक्पालानां च युगपदायतिमपहरन्तम्,
सोदर्यलक्ष्मीचुम्बनलोभेन कौस्तुभमणेरिव मुखावयवतां गतस्याधरस्य
गलता रागेण पारिजातपल्लवरसेनेव सिञ्चन्तं दिङ्मुखानि, अन्तरान्तरा
सुहृत्परिहासस्मितैः प्रकीर्यमाणविमलदशनशिखाप्रतानैः प्रकृतिमूढाया
राजश्रियाः प्रज्ञालोकमिव दर्शयन्तम्,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 165
Page 165 scan

यहाँ प्रस्तुत पृष्ठ का देवनागरी में लिप्यंतरण है:

१२० हर्षचरितम्

न्तम्, विकचमुखकमलकर्णिकाकोशेनानवरतमापीयमानश्वाससौरभमि-
वाधोमुखेन

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 166
Page 166 scan

द्वितीय उच्छ्वासः १२१
मालागुणेन परिकलितकेशान्तम्, शिखण्डाभरणभुवा मुक्ताफलालोकेन
मरकतमणिकिरणकलापेन चान्योन्यसंवलनवृजिनेन प्रयागप्रवाहवेणि-
कावारिणेवागत्य स्वयमभिषिच्यमानम्, श्रमजलविलीनबहलकृष्णागुरु-
पङ्कतिलककलङ्ककल्पितेन कालिम्ना प्रार्थनाचाटुचतुरचरणपतनशत-
श्यामिकाकिणेनेव नीलायमानललाटेन्दुलेखाभिः क्षुभितमानसोद्गतै-
रुत्कलिकाकलापैरिव हारैरुल्लसद्भिरवष्टभ्यमानाभिर्विलासवलानचटुलै-
र्भ्रूलताकल्पैरैर्य्या श्रियमिव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 167
Page 167 scan

१२२ हर्षचरितम्
कुचोत्कम्पिकाविकारप्रेक्षितानां हारतरलमणीनां रश्मिभिराकृष्य हृदय-
मिव हठात्प्रवेशयन्तीभिः प्रभामुचामाभरणमणीनां मयूखैः प्रसारितै-
र्बहुभिरिव बाहुभिरालिङ्गन्तीभिर्जृम्भानुबन्धबन्धुरवदनारविन्दावरणी-
कृतैरुत्तानैः करकिसलयैः सरभसप्रधावितानि मानसानीव निरुन्धती-
भिर्मदनान्धमधुकरकुलकीर्यमाणकर्णकुसुमरजःकणकूर्णतकोणानि कुसुम-
शरशरनिकरप्रहारमूर्च्छामुक्कुलितानीव लोचनानि चतुरं संचारयन्ती-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 168
Page 168 scan

द्वितीय उच्छ्वासः १२३
न्तीभिर्वारविलासिनीभिर्विलुप्यमानमसौभाग्यमिव, सर्वतःस्पर्शस्विन्न-
वेपमानकरकिसलयगलितचरणारविन्दां चरणग्राहिणीं विहस्य कोणेन
लीलालंलं शिरसि ताडयन्तम्, अनवरतकरकलितकोणतया चात्मनः
प्रियां वीणामिव श्रियमपि शिक्षयन्तम्, निःस्नेह इति धनैः, अनाश्रयणीय
इति दोषैः, निग्रहरुचिरितीन्द्रियैः, दुरुपसर्प इति कलिना, नीरस इति
व्यसनैः, भीरुरित्ययशसा, दुर्नग्रहचित्तवृत्तिरिति चित्तभुवा, स्त्रीपर इति
सरस्वत्या, षण्ढ इति परकलत्रैः, काष्ठामुनिरिति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 169
Page 169 scan

१२४ हर्षचरितम्
शत्रूयोधैः, एकमप्यनेकधा गृह्यमाणम्, शन्तनोर्महावाहिनीपतिम्,
भीष्माजितकाशितमम्, द्रोणाच्चापलालसम्, गुरुपुत्रादमोघमार्ग णम्,
कर्णान्मित्रप्रियम्, युधिष्ठिराद्बहुक्षमम्, भीमादनेकनागायुतबलम्,
धनंजयान्महाभारतरणयोग्यम्, कारणमिव कृतयुगस्य, बीजमिव
विबुधसर्गस्य, उत्पत्तिद्वीपमिव दर्पस्य, एकागारमिव करुणायाः,
प्रातिवेशिकमिव पुरुषोत्तमस्य, खनिपर्वतमिव पराक्रमस्य, सर्वविद्या-
संगीतगृहमिव सरस्वत्याः, द्वितीयामृतमन्थनदिवसमिव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 170
Page 170 scan

द्वितीय उच्छ्वासः १२५
उपायमिव पुरंदरदर्शनस्य, आवर्तनमिव धर्मस्य, कन्यान्तःपुरमिव
कलानाम्, परमप्रमाणमिव सौभाग्यस्य, राजसर्गसमाप्त्यवभृथस्नान-
दिवसमिव सर्वप्रजापतीनाम्, गम्भीरं च, प्रसन्नं च, त्रासजननं च,
रमणीयं च, कौतुकजननं च, पुण्यं च, चक्रवर्तिनं हर्षमद्राक्षीत् ।
दृष्ट्वा चानुगृहीत इव निगृहीत इव साभिलाष इव तृप्त इव रोमाञ्च-
मुचा मुखेन मुञ्चन्नानन्दबाष्पवारिबिन्दून्दूरादेव विस्मयस्मेरः सम-
चिन्तयत्—'सोऽयं सुजन्मा,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 171
Page 171 scan

१२६ हर्षचरितम्
मल्लो देवः परमेश्वरो हर्षः । एतेन च खलु राजन्वती पृथिवी । नास्य
हरेरिव वृषविरोधीनि बालचरितानि, न पशुपतेरिव दक्षजनोद्वेगकारीण्यै-
श्वर्यविलसितानि, न शतक्रतोरिव गोत्रविनाशपिशुनाः प्रवादाः, न
यमस्येवातिवल्लभानि दण्डग्रहणानि, न वरुणस्येव निस्त्रिंशग्राहसहस्र-
रक्षिता रत्नालयाः, न धनदस्येव निष्फलाः सन्निधिलाभाः, न जिनस्ये-
वार्थवादशून्यानि दर्शनानि, न चन्द्रमस इव बहुलदोषोपहताः श्रियः ।
वृषो धर्मः, अरिष्टासुरो दान्तरूपश्च । बालेति । बाला हि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 172
Page 172 scan

द्वितीय उच्छ्वासः १२७
चित्रमिदमत्यमरं राजत्वम् । अपि चास्य त्यागस्यार्थिनः, प्रज्ञायाः
शास्त्राणि, कवित्वस्य वाचः, सत्त्वस्य साहसस्थानानि, उत्साहस्य
व्यापाराः, कीर्तेर्दिङ्गाखानि, अनुरागस्य लोकहृदयानि, गुणगणस्य संख्या,
कौशलस्य कला, न पर्याप्तो विषयः । अस्मिंश्च राजनि यतीनां योग-
पट्टकाः, पुस्तकर्मणां पार्थिवविग्रहाः, षट्पदानां दानग्रहणकलहाः, वृत्तानां
पादच्छेदाः, अष्टपदानां चतुरङ्गकल्पना, पन्नगानां द्विजगुरुद्वेषाः, वाक्य-
विदामधिकरणविचाराः इति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 173
Page 173 scan

१२८ हर्षचरितम्
अथोत्तरे नातिदूरे राजधिष्ण्यस्य गजपरिचारको मधुरमपरवक्त्र-
मुच्चैरगायत्—
'करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।
मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः' ॥
राजा तु तच्छ्रुत्वा दृष्ट्वा च तं गिरिगुहागतसिंहबृंहितगम्भीरेण स्वरेण
पूरयन्निव नभोभागमपृच्छत्—'एष स बाणः ?' इति । 'यथा ज्ञापयति
देवः । सोऽयम्' इति विज्ञापितो दौवारिकेण । 'न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 174
Page 174 scan

द्वितीय उच्छ्वासः १०६
निषण्णस्य मालवराजसूनोरकथयत्—‘महानयं भुजङ्गः’ इति। तूष्णीं-
भावेन त्वगमितनरेन्द्रवचसि तस्मिन्मूके च राजलोके मुहूर्तमिब
तृष्णीं स्थित्वा बाणो व्यज्ञापयत्—‘देव ! अविज्ञाततत्त्व इव, अश्रद्दधान
इव, नेय इव, अविदितलोकवृत्तान्त इव च कस्मादेवमाज्ञापयसि ?
स्वैरिणो विचित्राश्च लोकस्य स्वभावाः प्रवादाश्च । महद्भिस्तु यथार्थ-
दर्शिभिर्भवितव्यम् । नार्हसि मामन्यथा संभावयितुमविशिष्टमिव ।
ब्राह्मणोऽस्मि जातः सोमपायिनां वंशे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 175
Page 175 scan

१३० हर्षचरितम्
लोकद्वयाविरोधिभिस्तु चापलैः शैशवमशून्यमासीत् । अत्रानपला-
पोऽस्मि । अनेनैव च गृहीतविप्रतीसारमिव मे हृदयम् । इदानीं तु सुगत
इव शान्तमनसि मनाविव कर्तरि वर्णाश्रमव्यवस्थानां समवर्तिनीव च
साक्षाद्दण्डधृति देवे शासति सप्ताम्बुराशिरशनामशेषद्वीपमालिनीं महीं
क इवाविशङ्कः सर्वव्यसनबन्धोरविनयस्य मनसाप्यभिनयं कल्पयिष्यति ।
आसतां च तावन्मानुष्यकोपेताः । त्वत्प्रभावादलयोऽपि भीता इव मधु
पिबन्ति । रथाङ्गनामानोऽपि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 176
Page 176 scan

द्वितीय उच्छ्वासः १३१
वृष्टिभिः स्नपयन्निव स्नेहगर्भेण दृष्टिपातमात्रेणान्तर्गतां प्रीतिमकथयत् ।
अस्ताभिलाषिणि च लम्बमाने सवितरि विसर्जितराजलोकोऽभ्यन्तरं
प्राविशत् ।
बाणोऽपि निर्गत्य धौतारकूटकोमलातपत्विषि निर्वाति वासरे,
अस्ताचलकूटकिरीटे निचुलमञ्जरीभांसि तेजांसि मुञ्चति वियन्मुचि
मरीचिमालिनि, अतिरोमन्थमन्थरकुरङ्गकुटुम्बकाध्यास्यमानम्रदिष्ठगोष्ठी-
नपृष्ठास्वरण्यस्थलीषु, शोकाकुलकोककामिनीकूजितकरुणासु

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 177
Page 177 scan

१३२ हर्षचरितम्
शुचिशायचरणेषु चैत्यप्रणतिपरेषु पाराशरिषु, यज्ञपात्रपवित्रपाणौ प्रकीर्ण-
बर्हिष्युत्तेजसि जातवेदसि, हवींषि वषट्कुर्वति यायजूकजने, निद्राविद्राण-
द्रोणकुलकलिलकुलायेषु कापेयविकलकपिकुलेष्वारामतरुषु, निर्जिगमि-
षति जरत्तरुकोटरकुटीकुटुम्बिनि कौशिककुले, मुनिकरसहस्रप्रकीर्णसंध्या-
वन्दनोदबिन्दुनिकर इव दन्तुरयति तारापथस्थलीं स्थवीयसि तारकानि-
कुरम्बे, अम्बराश्रयिणि शर्वरीशबरीशिखण्डे, खण्डपरशुकण्ठकाले
कवलयति बाले

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 178
Page 178 scan

द्वितीय उच्छ्वासः १३३
गरे विजृम्भमाणे भीषणतमे तमीमुखे, मुखरितविततज्यधनुषि वर्षति
शरनिकरमनवरतमशेषसंसारशेमुषीमुषि मकरध्वजे, रताकल्पारम्भशो-
भिनि शम्भलीसुभाषितभाजि भजति भूषां भुजिष्याजने, सैरन्ध्रीबध्य-
मानरशनाजालजल्पाकजघनासु जनीषु, वशिकविशिखाविहारिणीष्वन-
न्यजानुप्लवासु प्रचलितास्वभिसारिकासु, विरलीभवति वरटानां वेशन्त-
शायिनीनां मञ्जुनि मञ्जीरशिञ्जितजडे जल्पिते, निद्राविद्राणद्रा-
घीयसि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 179
Page 179 scan

१३४ हर्षचरितम्
चौपलोचितकौलीनकोपितोऽपि मनसा स्निह्यत्येव मयि । यद्यहमक्षिगतः
स्याम्, न मे दर्शनेन प्रसादं कुर्यात् । इच्छति तु मां गुणवन्तम् ।
उपदिशन्ति हि विनयमनुरूपप्रतिपत्त्युपपादनेन वाचा विनापि भर्तव्यानां
स्वामिनः । अपि च धिङ्मां स्वदोषान्धमानसमनादरपीडितमेवमति-
गुणवति राजन्यन्यथा चान्यथा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in