Skip to content
SarvaKosh
Back to the archive

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

by महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री

Report a copyright issue

DevanagariSanskritpublished506 pages

About this granth

The Harshacharita (हर्षचरितम्) is the seventh-century Sanskrit prose work of Banabhatta on the life and lineage of the emperor Harshavardhana, often called the first historical narrative (akhyayika) in Sanskrit. The introduction to this edition sets Bana's prose beside Kalidasa's verse and describes the Harshacharita as his first work, a prelude to the style he perfected in the Kadambari.

The work has eight chapters (ucchvasas). They begin with Sarasvati's descent under Durvasa's curse, Bana's Vatsyayana family and his visit to Harsha's court, then turn to Sthanvishvara and King Prabhakaravardhana, the births of his children, Rajyashri's marriage, the Huna campaign, the king's death and Queen Yashomati's self-immolation, Rajyavardhana's murder and Harsha's vow of conquest, and the search for Rajyashri in the Vindhya forest, where Harsha meets the monk Divakaramitra.

This is No. 36 of the Vidyabhawan Sanskrit Granthamala from Chowkhamba Vidya Bhawan, Varanasi, with Shankara's Sanskrit commentary Sanketa and a Hindi commentary by Pt. Jagannath Pathak of the Vaidyanath Dham Gurukul, Bihar. The scan of 506 pages contains the whole work.

Page 139
Page 139 scan

५४ हर्षचरितम्
सरक्तोत्पलैरिव रक्तशालिशालेयैरनवरतमणभणायमानचारुचामीकरघुरु-
घुरुकमालिकैरर्जत्कारञ्जवनैरिव रणितशुष्कबीजकोशीशतैः श्रवणोपान्तप्रे-
ङ्खत्पञ्चरागवर्णोर्णाचित्रसूत्रजूटजटाजालैः कपिकपोलकपिलैः क्रमेलककुलैः
कपिलायमानम्, अन्यत्र शरज्जलधरैरिव सद्यःस्रुतपयः पटलधवलतनुभिः
कल्पपादपैरिव मुक्ताफलजालकजायमानालोकलुप्तच्छायमण्डलैर्नारायण-
नाभिपुण्डरीकैरिवाश्लिष्टगरुडपक्षैः क्षीरोदोद्देशैरिव द्योतमानविकटविद्रु-
मदण्डैः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 140
Page 140 scan

द्वितीय उच्छ्वासः ६५

विवस्वतः प्रतापमापिबद्भिरिवातपं चन्द्रलोकमयमिव जीवलोकं जन-
यद्भिः कुमुदमयमिव कालं कुर्वद्भिज्योत्स्नामयमिव वासरं विरचयद्भिः फेन-
मयीमिव दिवं दर्शयद्भिरकालकौमुदीसहस्राणीव सृजद्भिरुपहसद्भिरिव
शातक्रतवीं श्रियं श्वेतायमानैरातपत्रखण्डैः श्वेतद्वीपायमानम्, क्षणदृष्टन-
ष्टाष्टदिङ्मुखं च मुष्णद्भिरिव भुवनमाक्षेपोत्क्षेपदोलायितं दिनं गतागता-
नोव कारयद्भिरुत्सारयद्भिरिव कुनृपतिसम्पर्ककलङ्ककालीं कालेयीं स्थितिं
विकचविशदकाशवनपाण्डुरदशदिशं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 141
Page 141 scan

६६ हर्षचरितम्
क्षैर्दोलयमानम्, अपि च हंसयूथायमानं करिकर्णशङ्खैः, कल्पलता-
वनायमानं कदलिकाभिः, माणिक्यवृक्षकवनायमानं मायूरातपत्रैः,
मन्दाकिनीप्रवाहायमानमंशुकैः, क्षीरोदायमानं क्षौमैः, कदलीवनायमानं
मरकतमयूखैः, जन्यमानान्यदिवसमिव पद्मरागबालातपैः, उत्पद्यमाना-
परम्बरमिवेन्द्रनीलप्रभापटलैः, आरभ्यमाणापूर्वनिशमिव महानीलमयू-
खान्धकारैः, स्यन्दमानानेककालिन्दीसहस्रमिव गारुडमणिप्रभाप्रतानैः,
अङ्गारकितमिव पुष्परागरश्मिभिः,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 142
Page 142 scan

द्वितीय उच्छ्वासः ६७
राणीबार्पयद्भिः कैश्चिदुरःस्थलदोलायमानेन्द्रनीलतरलप्रभापट्टैः स्वामि-
कोपप्रशमनाय कण्ठबद्धकृपाणपट्टैरिव कैश्चिदुच्छ्वाससौरभभ्राम्यद्भ्रम-
रपटलान्धकारितमुखैरपहृतलक्ष्मीशोकधृतलम्बश्मश्रुभिरिवान्यैः शेखरोड्डी-
यमानमधुपमण्डलैम्रैः प्रणामविडम्बनाभयपलायमानमौलिभिरिव निर्जितै-
रपि सुसंमानितैरिवानन्यशरणैरन्तरान्तरा निष्पततां प्रविशतां चान्तर-
प्रतीहाराणामनुमार्गप्रधावितानेकार्थिजनसहस्राणामनुयायिनः पुरुषानश्रा-
न्तैः पुनः पुनः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 143
Page 143 scan

६८ हर्षचरितम्
च्छ्रजातिभिः सर्वदेशान्तरागतैश्च दूतमण्डलैरूपास्यमानम् , सर्वप्रजानि-
र्माणभूमिमिव प्रजापतीनां लोकत्रयसारोच्चयरचितं चतुर्थमिव लोकम् ,
महाभारतशतैरप्यकथनीयसमृद्धिसंभारम् , कृतयुगसहस्रैरिव कल्पितसन्नि-
वेशम् , स्वर्गाबुर्दैरिव विहितरामणीयकम् , राजलक्ष्मीकोटिभिरिव कृत-
परिग्रहं राजद्वारमगमत् ।
अभवच्चास्य जातविस्मयस्य मनसि—'कथमिवेदमियतप्रमाणं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 144
Page 144 scan

अथ स मुहूर्तादिव प्रांशुना, कर्णिकारगौरेण, वीध्रकञ्चुकच्छन्नवपुषा,
समुन्मिषन्माणिक्यपदकबन्धबन्धुरवस्तबन्धकृशावलग्नेन, हिमशैलशि-
लाविशालवक्षसा, हरवृषककुद्कूटविकटांसतटेन, उरसः चपलहृषीकह-
रिणकुलमंयमनपाशमिव हारं बिभ्रता, 'कथयतं यदि सोमवंशसंभवः
सूर्यवंशसंभवो वा भूपतिरभूदेवंविधः' इति प्रष्टुमानीयताभ्यां सोमसूर्याभ्या-
मिव श्रवणगताभ्यां मणिकुण्डलाभ्यां समुद्भासमानेन, वहद्वदनलावण्य-
विसरवेणिकाक्षिप्यमाणैरधिकारगौरवाह्नीयमानमार्गेणेव दिनकृतः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 145
Page 145 scan

१०० हर्षचरितम्
पाण्डुरमुष्णीषमुद्वहता, वामेन स्थूलमुक्ताफलच्छुरणदन्तुरत्सरुं करकिस-
लयेन कलयता कृपाणम्, इतरेणापनीततरलतां ताडनीमिव लतां शात-
कौम्भीं वेत्रयष्टिमुन्मृष्टां धारयता पुरुषेणानुगम्यमानो निर्गत्यावोचत्—
‘एष खलु महाप्रतीहाराणामनन्तरश्चक्षुष्यो देवस्य पारियात्रनामा दौवा-
रिकः। समनुगृह्णात्वेनमनुरूपया प्रतिपत्त्या कल्याणभिनिवेशी’ इति।
दौवारिकस्तु समुपसृत्य कृतप्रणामो मधुरया गिरा सविनयमभाषत—
‘आगच्छत। प्रविशत

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 146
Page 146 scan

द्वितीय उच्छ्वासः १०१
सीकैश्च, शोणैश्च, श्यामैश्च, श्वेतैश्च, पिङ्गरैश्च, हरिद्भिश्च, तित्तिरिकल्माषैश्च,
पञ्चभद्रैश्च, मल्लिकाक्षैश्च, कृत्तिकापिञ्जरैश्च, आयतनिर्मासमुखैः, अनुत्क-
टकर्णकोशैः, सुवृत्तश्लक्ष्णसुघटितघण्टिकाबन्धैः, यूपानुपूर्वीवक्रायतोदग्र-
ग्रीवैः, उपचयश्वसत्स्कन्धसंधिभिः, निर्भुग्नोरःस्थलैः, अस्थूलप्रगुणप्रसृ-
वर्णविशेषवर्णनम् । 'शोणः पद्मार्जुनः स्मृतः' । पिञ्जरैरीषत्कपिलैः । हरिच्छुकनिभो
वर्णः । तित्तिरिः पक्षिविशेषस्तद्वच्चित्रैः । 'सिताक्ष यस्य वाजिनः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 147
Page 147 scan

१०२ हर्षचरितम्
तैर्लोहपीठकठिनखुरमण्डलैः, अतिजवतृटनभयादनिर्मितान्त्राणीवोदराणि
वृत्तानि धारयद्भिः, उच्चद्रोणीविभज्यमानपृथुजघनैः, जगतीदोलायमान-
बालपल्लवैः, कथमप्युभयतो निखातदृढभूरिपाशसंयमननियन्त्रितैः, आय-
तैरपि पश्चात्पाशबन्धपरवशप्रसारितैकाङ्घ्रिभिरायततरैरिवोपलक्ष्यमाणैः,
बहुगुणसूत्रग्रथितश्रीबागण्डकैः, आमीलितलोचनैः, दुर्वारसश्याम लफेन-
लवशबलान्दंशनगृहीतमुक्तान्फरफरितत्वचः कण्डूजुषः प्रदेशान्प्रचाल-
यद्भिः, सालसवलितवालधिभिः,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 148
Page 148 scan

द्वितीय उच्छ्वासः १०३
जनानलरद्यमाणैरिवोपरिविततवितानैः, पुरः पूजिताभिमतदेवतैः, भूपाल-
वल्लभैस्तुरङ्गैरारचितां मन्दुरां विलोकयन् , कुतूहलाक्षिप्तहृदयः किंचिदन्त-
रमतिक्रान्तो हस्तवामेनात्युन्नतया निरवकाशमिवाकाशं कुर्वाणम् , महता
कदलीवनेन परिवृतपर्यन्तं सर्वतो मधुकरमयीभिर्मदस्स्रुतिभिर्नदीभिरिवाप-
तन्तीभिरापूर्यमाणम् , आशामुखविसर्पिणा बकुलवनानामिव विकसतामा-
मोदेन लिम्पन्तं घ्राणेन्द्रियं दूरादव्यक्तमभिधिष्ण्यागारमपश्यत् । अपृच्छच्च-
'अत्र देवः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 149
Page 149 scan

१०४ हर्षचरितम्
महान्दृश्यते' इति । स तमवादीत्—'भद्र ! श्रूयते दर्पशातः । यद्येवम-
दोषो वा पश्यामि तावद्वारणेन्द्रमेव । अतोऽर्हसि मामत्र प्रापयितुम् ।
अतिपरवानस्मि कुतूहलेन' इति । सोऽभाषत—'भवत्वेवम् । आगच्छतु
भवान् । को दोषः । पश्यतु तावद्वारणेन्द्रम्' इति ।
गत्वा च तं प्रदेशं दूरादेव गम्भीरगलगर्जितैर्वियति चातक-
कदम्बकैर्भुवि च भवननीलकण्ठकुलैः कलकेकाकलकलमुखरमुखैः
क्रियमाणाकालकोलाहलम् ,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 150
Page 150 scan

द्वितीय उच्छ्वासः १०५
अनवरतमवतंसशङ्खैरामन्द्रकर्णतालदुन्दुभिध्वनिभिः पञ्चमीप्रवेशमङ्गला-
रम्भमिव सूचयन्तम्, अविरतचलनचित्रत्रिपदीललितलास्यलयैर्दोलाय-
मानदीर्घदेहाभोगवत्तया मेदिनीबिदलनभयेन भारमिव लघयन्तम्,
दिग्भित्तितटेषु कायमिव कण्डूयमानम्, आहवायोदस्तहस्ततया दिग्बार-
णानिवाह्वयमानम्, ब्रह्माण्डस्तम्भमिव स्थूलनिशितदन्तेन करपत्रेण
पाटयन्तम्, अमान्तं भुवनाभ्यन्तरे बहिरिव निर्गन्तुमीहमानम्; सर्वतः-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 151
Page 151 scan

No OCR text.

Page 152
Page 152 scan

द्वितीय उच्छ्वासः १०७
वनानीवोपभुक्तानि पुनःपुनः करटाभ्यां बहलमदामोदव्याजेन विसृज-
न्तम्, अहर्निशं विभ्रमकृतहस्तस्थितिभिरर्धखण्डितपुण्ड्रेक्षुकाण्डकण्डूयन-
लिखितैरलिकुलवाचालितैर्दानपट्टकैरिवलभमानमिव सर्वकाननानि करिप-
तीनाम्, अविरलोदबिन्दुस्यन्दिना हिमशिलाशकलमयेन विभ्रमनक्षत्र-
मालागुणेन शिशिरीक्रियमाणम्, सकलवारणेन्द्राधिपत्यपट्टबन्धबन्धुर-
मिवोच्चैस्तरां शिरो दधानम्, मुहुर्मुहुः स्थगितापावृतदिङ्मुखाभ्यां कर्णता-
लतालवृन्ताभ्यां वीजयन्तमिव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 153
Page 153 scan

२०८ हर्षचरितम्
दर्पम्, आयतवंशक्रमांगतेन गजाधिपत्यचिह्नेन चामरेणेव चलता बाल-
धिना विराजमानम्, स्वच्छशिशिरशीकरच्छलेन दिग्विजयपीताः
सरित इव पुनःपुनर्मुखेन मुञ्चन्तम्, क्षणमवधानदाननिःस्पन्दीकृतसक-
लावयवानामन्यद्विरदडिण्डिमाकर्णनाङ्गवलनानामन्ते दीर्घफूत्कारैः परिभव-
दुःखमिवावेदयन्तम्, अलब्धयुद्धमिवात्मानमनुशोचन्तम्, आरोहाधिरू-
ढिपरिभवेन लज्जमानमिवाङ्गुलीलेखितमहीतलं, मदं मुञ्चन्तम्, अवज्ञा-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 154
Page 154 scan

द्वितीय उच्छ्वासः १०५
दर्पेण, ग्रसन्तमिव शौर्येण, मूर्च्छन्तमिव मदेन, त्रुट्यन्तमिव तारुण्येन,
द्रवन्तमिव दानेन, वल्गन्तमिव बलेन, माद्यन्तमिव मानेन, उद्यन्त-
मिवोत्साहेन, ताम्यन्तमिव तेजसा, लिम्पन्तमिव लावण्येन, सिञ्चन्त-
मिव सौभाग्येन स्निग्धं नखेषु, परुषं रोमविषये, गुरुं मुखे, सच्छिष्यं
विनये, मृदुं शिरसि, दृढं परिचयेषु, ह्रस्वं स्कन्धबन्धे, दीर्घमायुषि,
दरिद्रमुदरं, सततप्रवृत्तं दाने, बलभद्रं मदलीलासु, कुलकलत्रमायत्त-
तासु, जिनं क्षमासु,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 155
Page 155 scan

११० हर्षचरितम्
कालं परिणतिषु, राहुं तीक्ष्णकरग्रहशेषु, लोहिताङ्गं वक्रचारेषु, अलातचक्रं
मण्डलश्रान्तिविज्ञानेषु, मनोरथसंपादकं चिन्तामणिपर्वतं विक्रमस्य,
दन्तमुक्ताशैलस्तम्भनिवासप्रासादमभिमानस्य, घण्टाचामरमण्डनमनो-
हरमिच्छासंचरणविमानं मनस्वितायाः, मदधारादुर्दिनान्धकारं गन्धो-
दकधारागृहं क्रोधस्य, सकाञ्चनप्रतिमं महानिकेतनमहंकारस्य, सगण्ड-
शैलप्रस्रवणं क्रीडापर्वतमवलेपस्य, सदन्ततोरणं वज्रमन्दिरं दर्पस्य,
उच्चकुम्भकूटाट्टालकविकटं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 156
Page 156 scan

पादपं भूनन्दनस्य, तथा च संगीतगृहं कर्णतालताण्डवानाम्, आपान-
मण्डपं मधुपमण्डलानाम्, अन्तःपुरं शृङ्गाराभरणानाम्, मदनोत्सवं
मदलीलालास्यानाम्, अक्षुण्णप्रदोषं नक्षत्रमालामण्डलानाम्, अकाल-
प्रावृट्कालं मदमहानदीपूरप्लवानाम्, अलीकशरत्समयं सप्तच्छद-
वनपरिमलानाम्, अपूर्वहिमागमं शीकरनीहाराणाम्, मिथ्याजलधरं
गर्जिताडम्बराणां दर्पशातमपश्यत् ।
आसीच्चास्य चेतसि—'नूनमस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 157
Page 157 scan

११२ हर्षचरितम्
आयातः कथमप्ययं स्मृतिपथं शूनीभवच्चेतसां
नागेन्द्रः सहते न मानसगतानाशागजेन्द्रानपि ॥
तदेहि । पुनरप्येनं द्रक्ष्यसि । पश्य तावद्देवम्' इत्यभिधीयमानश्च तेन
मदजलपङ्किलकपोलपट्टपतितां मत्तामिव मदपरिमलेन मुकुलितां कथमपि
तस्माद्दृष्टिमाकृष्य तेनैव दौवारिकेणोपदिश्यमानवर्त्मा समतिक्रम्य
भूपालकुलसहस्रसंकुलानि त्रीणि कक्षान्तराणि चतुर्थे भुक्तास्थानमण्ड-
पस्य पुरस्तादजिरे स्थितम्, दूरादूर्ध्वस्थितेन प्रांशुना कर्णिकारगौरेण

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 158
Page 158 scan

द्वितीय उच्छ्वासः ११३
श्लोकम्, हरिचन्दनरसप्रक्षालिते तुषारशीकरशीतलतले दन्तपाण्डुरपादे
शशिमय इव मुक्ताशैलशिलापट्टशयने समुपविष्टम्, शयनीयपर्यन्तविन्यस्ते
समर्पितसकलविग्रहभारं भुजे, दिङ्मुखविसर्पिणि देहप्रभावित्ताने विततमणि-
मयूखे घर्मसमयसुभगे सरसीव मृदुमृणालजालजटिलजले सराजकं रम-
माणम्, तेजसः परमाणुभिरिव केवलैर्निर्मितम्, अनिच्छन्तमपि बलादा-
रोपितमिव सिंहासनम्, सर्वावयवेषु सर्वलक्षणैर्गृहीतम्, गृहीतब्रह्मचर्य-
मालिङ्गितं राजलक्ष्म्या,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in