गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
by महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी
Source: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (origin)
Page 92 of 600
Read in contextHere is the accurate transcription of the provided Vedic Brahmana page into pure Markdown in Unicode Devanagari.
५४ गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ३१ ॥
वाकोवाक्यम् इति ब्राह्मणम् ) सभी [ उपर्युक्त ] प्रश्नोत्तरात्मक स्थलों में यही ब्राह्मण
[ ब्रह्मज्ञान ] है ॥ ३० ॥
भावार्थः-मनुष्य को चाहिये कि ओम् को सर्वाधार जानकर उसका चिन्तन करता
हुआ आत्म-सामर्थ्य बढ़ावे और विषय को भली भांति समझ कर ठीक ठीक अर्थ का ग्रहण
करे ॥ ३० ॥
कण्डिका ३१ ॥
एतद्ध स्मैतद् विद्वांसमेकादशाक्षमौद्गल्यं ग्लावो मैत्रेयोऽभ्याजगाम ।
स तस्मिन् ब्रह्मचर्यं वसतो¹ विज्ञायोवाच किं स्विन्मर्यादा² अयं तं मौद्गल्यो
अध्येति यदस्मिन् ब्रह्मचर्यं वसतीति तद्धि मौद्गल्यस्यान्तेवासी शुश्राव स
आचार्यायाव्रज्याचचष्टे, दुरधीयानं वा अयं भवन्तमवोचद्योऽयमद्यातिथिर्भवति ।
किं सोम्य विद्धानीति । त्रीन् वेदान् ब्रूते भो३ इति तस्य सौम्य यो विस्पष्टो विजि-
गीषोऽन्तेवासी तन्मे ह्वयेति, तमाजुहाव, तमभ्युवाचासाविति भो३ इति किं सोम्य
त आचार्य्योऽध्येतीति, त्रीन् वेदान् ब्रूते भो३ इति, यन्नु खलु सौम्यासमाभिः सर्वे
वेदा मुखतो गृहीताः कथन्त एवमाचार्य्यो भाषते कथं नु शिष्टाः शिष्टेभ्य एवं
भाषेरन् यं ह्येनमहं प्रश्नं पृच्छामि न तं विवक्ष्यति न ह्येनमध्यैतीति । स ह
मौद्गल्यः स्वमन्तेवासिनमुवाच, परेहि सोम्य ग्लावं मैत्रेयमुपसीदाधीहि भोः
सावित्रीं गायत्रीञ्चतुर्विंशतियोनिं द्वादशमिथुनां यस्या भृग्वाङ्गिरसश्चक्षुर्यस्यां सर्व-
मिदं श्रितं, तां भवान् प्रब्रवीत्विति स चेत्सोम्य दुरधीयानो भविष्यत्याचार्य्योवाच
ब्रह्मचारी ब्रह्मचारिणे सावित्रीं प्राहैति वक्ष्यति, तत्त्वं ब्रूयात् दुरधीयानन्तं वै
भवान् मौद्गल्यमवोचत् स त्वा यं प्रश्नमप्राक्षीन्न तं व्यवोचः पुरा संवत्सरादार्त्ति-
मार्कुप्स्यसीति ॥ ३१ ॥
कण्डिका ३१ ॥ मौद्गल्य और मैत्रेय की कथा ॥
( एतद् ह स्म एतत् ) यह बहुत प्रसिद्ध है— विद्वांसम् एकादशाक्षम्
मौद्गल्यम् ग्लावः मैत्रेयः अभ्याजगाम ) विद्वान् [ दो कान, दो आंख, दो नथने,
एक मुख, एक ब्रह्मरन्ध्र एक नाभि, एक उपस्थ एक पायु ] ग्यारह इन्द्रियों से युक्त शरीर
वाले [ सर्वथा स्वस्थ ] मौद्गल्य [ मुद्गल ऋषि के सन्तान ] के पास ग्लाव [ चन्द्र-
आत्मज्ञानफलम् (पदम्) सुप्तिङन्तं पदम् (पा० १ । ४ । १४) (विषयी)
इन्द्रियगोचरज्ञानयुक्तः । ( वाकोवाक्यम् ) क० २१ द्र० ।
३१–( एकादशाक्षम् ) अक्षू व्याप्तौ—अच् । नासिकाश्रोत्रनेत्राणां द्वयं द्वयं
मुखमेकं ब्रह्मरन्ध्रमेकं नाभ्या सहाधःस्थानि त्रीणि, इत्थमेकादश अक्षाणि इन्द्रि-
याणि यस्मिन् तच्छरीरम्, ततः अर्शआद्यच् । एकादशेन्द्रिययुक्तशरीरवन्तं
१. पू० सं० "वसतीति" इति पाठः । सम्पा० ॥
२. अत्र जर्मनसंस्करगे 'मर्या' इति पाठः । सोऽपि युक्तः । तथा च "मर्या इति मनुष्यनाम
मर्यादामिधानं वा स्यात् । मर्यादा मर्येरादीयते" इति निरुक्तम् ४ । २ ॥ सम्पा० ॥