गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
by महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी
Source: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (origin)
Page 330 of 600
Read in context२६२ गोपथब्राह्मणे उत्तरभागे प्र० १ । क० २१ ।।
पाशेभ्यः सर्वस्मात्पाप्मनः सम्प्रमुच्यन्त इति । तत एतं प्रजा१पतिर्यज्ञक्रतुमपश्यत्,
वरुणप्रघासं तपाहरत् तेनायजत, तेनेष्ट्वा वरुणमप्रीणात् । स प्रीतो वरुणो
वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः प्रजाः प्रामुञ्चत् । प्र ह वा एतस्य प्रजा वरुणपा-
शेभ्यः सर्वस्माच्च पाप्मनो मुच्यन्ते । य एवं वेद । अथ यदग्निं प्रणयन्ति, यमेवामुं
वैश्वदेवे मन्थन्ति तमेव तत् प्रणयन्ति । यन्मथ्यते, तस्योक्तं ब्राह्मणम् । अथ यत्
सप्तदश सामिधेन्यः, सदन्तावाज्यभागौ, विराजौ संयाज्ये, तेषामुक्तं ब्राह्मणम् ।
अथ यन्नव प्रयाजाः नवानुयाजाः, नवैतानि हवींषि समानानि त्वेव पञ्च सञ्च-
राणि हवींषि भवन्ति पोष्णान्तानि, तेषामुक्तं ब्राह्मणम् ॥ २१ ॥
कण्डिका २१ ॥ प्रजापति के प्रजायें उत्पन्न करने और वरुण को
प्रसन्न करने की कथा ॥
(वैश्वदेवेन वै प्रजापतिः प्रजाः असृजत, ताः सृष्टाः अप्रसूताः वरुणस्य
यवान् जक्षुः) वैश्वदेव [सब देवताओं के यज्ञ] से ही प्रजापति [प्रजापालक परमेश्वर
वा सूर्य] ने प्रजाओं को उत्पन्न किया, उन उत्पन्न हुई ने सन्तानशून्य [वांझ] होकर
वरुण [सूर्य वा जलेश] के जौओं को खा लिया । (ताः वरुणः वरुणपाशैः प्रत्यबध्नात्)
उनको वरुण ने वरुण [रोक] के जालों से बांध लिया । (ताः प्रजाः प्रजापतिं पितरम्
एत्य उपावदन्) वे प्रजायें प्रजापति पिता के पास आकर कहने लगीं—(तं यज्ञक्रतुम्
उप जानीहि येन इष्ट्वा वरुणम् अप्रीणात्) उस यज्ञ व्यवहार को तू विचार, जिससे
यज्ञ करके वरुण को आपने प्रसन्न किया । (सः वरुणः प्रीतः वरुणपाशेभ्यः सर्वस्मात्
पाप्मनः सम्प्रमुच्यन्ते२ इति) वह वरुण प्रसन्न होकर वरुण के जालों से और सब पाप से
[हमें] छुड़ा देवे । (ततः प्रजापतिः एतं यज्ञक्रतुम् अपश्यत्) तब प्रजापति ने इस
यज्ञ व्यवहार को देखा । (तं वरुणप्रघासम् आहरत्, तेन अयजत, तेन इष्ट्वा वरुणम्
अप्रीणात्) वह वरुण के लिये उस अन्न को लाया और उससे यज्ञ किया और उससे यज्ञ
करके वरुण को प्रसन्न किया । (सः वरुणः प्रीतः वरुणपाशेभ्यः सर्वस्मात् च पाप्मनः
प्रजाः प्रामुञ्चत्) उस वरुण ने प्रसन्न होकर वरुण के फन्दों से और सब पाप से प्रजाओं
को मुक्त कर दिया । (एतस्य ह वै प्रजाः वरुणपाशेभ्यः सर्वस्मात् पाप्मनः च
मुच्यन्ते, यः एवं वेद) उस पुरुष की प्रजायें वरुण के फन्दों से और सब पाप से छूट
जाती हैं, जो ऐसा जानता है । (अथ यत् अग्निं प्रणयन्ति, यम् एव अमुं वैश्वदेवे
२१-(असृजत) उत्पादितवान् (अप्रसूताः) सन्तानशून्याः। वन्ध्याः
(यवान्) अन्नविशेषान् (जक्षुः) अद भक्षणे—लिट् । भक्षितवत्यः (वरुणः)
जलेशः । सूर्यः (उपावदन्) आदरेणाकथयन् (यज्ञक्रतुम्) यज्ञव्यवहारम् (उप-
जानीहि) विचारय (सम्प्रमुच्यन्ते) सम्प्रमुञ्चतु (वरुणप्रघासम्) वरुणाय
१. पू. सं. 'प्रजापतिम्' इति पाठः ॥
२. 'सम्प्रमुच्यन्ते' यह कर्मवाच्य का प्रयोग यहाँ असङ्गत है, पाठ भ्रष्ट प्रतीत होता है ॥सम्पा०॥