Skip to content
SarvaKosh
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 54 of 474

Read in context
Page 54

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
५४ दशकुमारचरितम् । [ पूर्वपीठिकायां
(३) 'भूदेव, एतत्कटकाधिपती राजा कस्य देशस्य, किं नामधेयः,
किमत्रागमनकारणमस्य' इति पृष्टोऽभाषत महीसुरः- 'सौम्य, मत्तकालो
नाम लाटेश्वरो देशस्यास्य पालयितुर्वीरकेतोस्तनयां वामलोचनां नाम तरु-
णीरत्नमसमानलावण्यं श्रावं श्रावमवधूतदुहितृप्रार्थनस्य तस्य नगरीमरौ-
त्सीत् । वीरकेतुरपि भीतो महदुपायनमिव तनयां मत्तकालायादात् । तरु-
णीलाभहृष्टचेता लाटपतिः 'परिणेया निजपुर एव' इति निश्चित्य गच्छ-
न्निजदेशं प्रति संप्रति मृगयादरेणात्र वने सैन्यावासमकारयत् ।
(४) कन्यामारेण नियुक्तो मानपालो नाम वीरकेतुमन्त्री मानधन-
श्रतुरङ्गबलसमन्वितोऽन्यत्र रचितशिविरस्तं निजनाथावमानखिन्नमान-
(३) एतस्य पुरतो वर्त्तमानस्य कटकस्य सन्यस्याधिपतिः स्वामी । किन्नाम-
धेयः किमाख्यकः किं नामधेयं यस्येति विग्रहः । महीसुरो भूसुरः । लाटेश्वरः लाट-
देशाधिपतिः । असमानं अद्वितीयं लावण्यं सौन्दर्यं यस्य तत् । श्रावंध्रावं पुनः पुनः
श्रुत्वा । अवधूता तिरस्कृता न स्वीकृतेति यावत्, दुहितुः कन्याया वामलोचनाया
इति यावत् प्रार्थना लाटेश्वरकृता याच्ञा येन तस्य । तस्य वीरकेतोः । अरौत्सीत्
रुद्धवान् । उपायनमुपढौकनम् । अदात् प्रददौ । तरुण्याः कन्याया लाभेन प्राप्त्या
हृष्टं सन्तुष्टं चेतश्चित्तं यस्य सः । परिणेया विवाहा । निजपुरे स्वनगरे । मृगयाद-
रेण मृगयाभिलाषेण ।
(४) कन्यैव सारो धनं यस्य तेन वीरकेतुनेत्यर्थः । नियुक्तः प्रेरितः । मान
एव धनं यस्य सः अभिमानीत्यर्थः । चतुरङ्गं हस्त्यश्वरथपदातिरूप बलं सैन्यं तेन
(३) मैने पूछा- हे विप्रवर ! इस सेनाका राजा कौन है और उसका क्या नाम है ?
और यह राजा सेनासहित क्यों इस स्थान पर आया है ? ऐसा पूछनेपर उत्तर देते हुए
उसने कहा-हे सौम्य ! लाट देशके स्वामी मत्तकालने इस देशके अधिपति वीरकेतुकी तनया,
जो अपनी सुन्दरतामें अद्वितीया है तथा नारियोंमें मणिके समान है, के साथ विवाह करने
की अभिलाषा प्रकट की परन्तु, वीरकेतुने उसकी इच्छाको विफल कर दिया- वामलोचना
कन्या देनेसे इनकार कर दिया। तब क्रोध करके मत्तकालने इसका राज्य घेर लिया। इस
पर वीरकेतु अतिभयान्वित हो गया और विशाल भेंटमें अपनी पुत्री वामलोचना उसे
समर्पित कर दी। उक्त तरुणीकी प्राप्तिपर प्रसन्नचित्त मत्तकालने यह विचार किया कि
इसके साथ विवाह संस्कार अपने राज्यमें जाकर कर लेंगे-और वह वहाँसे चल पड़ा।
अपने राज्यको जाते हुए शिकार खेलनेकी इच्छासे उसने मार्गमें पड़ाव डाल दिया ।
(४) इधर वीरकेतुके आदेशसे मानपाल नामक मन्त्रीने भी चतुरंगिणी सेनाके साथ
Nepal Sanskrit University, Balmeeki Campus, Kathmandu