Skip to content
SarvaKosh
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 43 of 474

Read in context
Page 43

स्तद्वयस्यमुखानाम्नजनने विज्ञाय तस्मै निजवृत्तान्तमकथयत्-‘राजनन्दन,
केचिदस्यामटव्यां वेदादिविद्याभ्यासमपहाय निजकुलाचारं दूरीकृत्य
सत्यशौचादिधर्मव्रातं परिहृत्य किल्विषमन्विष्यन्तः पुलिन्दपुरोगमास्तद-
न्नमपभुञ्जाना बहवो ब्राह्मणब्रुवा निवसन्ति, तेषु कस्यचित्पुत्रो निन्दापात्र-
चारित्रो मातङ्गो नामाहं सह किरातबलेन जनपदं प्रविश्य ग्रामेषु धनिनः
स्त्रीबालसहितानानीयाटव्यां बन्धने निधाय तेषां सकलधनमपहरन्तु-
दृघृत्य वीतदयो व्यचरम् । कदाचिदेकस्मिन्कान्तारे मदीयसहचरगणेन
जिघांस्यमानं भूसुरमेकमवलोक्य दयायत्तचित्तोऽब्रवम् 'ननु पापाः, न
हन्तव्यो ब्राह्मण' इति ।

नस्य निर्देशः । मानुषमात्रं मानुषप्रमाणं पौरुषं पराक्रमो यस्य सः । नूनमवश्यम् ।
मत्वा विचार्य । तस्य राजवाहनस्य वयस्यानां मित्राणां मुखात् तेषां कथनेनेत्यर्थः ।
नामजनने नाम आख्या जननमुत्पत्तिः ते, कुलनामनीत्यर्थः । केचिदित्यस्य
ब्राह्मणब्रुवा इत्यनेन सम्बन्धः । अपहाय परित्यज्य । निजकुलाचारं ब्राह्मणकुलोचित-
धर्मम् । धर्मव्रातं धर्मसमूहम् । परिहृत्य त्यक्त्वा । किल्विषं पापम् । 'पापं किल्विष-
कल्मषमि'त्यमरोक्तेः । पुलिन्दानां किरातानां पुरोगमा अग्रगाः, पुलिन्दाः पुरोगमा
नेतारो येषां ते इति वा । तदन्नं म्लेच्छान्नमुपभुञ्जाना भक्षयन्तः । ब्राह्मणब्रुवा
ब्राह्मणाधमाः । निन्दापात्रं गर्हणीयं चारित्रं चरितं यस्य सः । किरातबलेन शबरसै-
न्येन । धनिनो धनाढ्यान् । स्त्रीभिरबलाभिर्बालैः शिशुभिश्च सहितान् युक्तान् ।
उद्गृह्य विनाश्य । वीताऽपगता दया करुणा यस्य सः । जिघांस्यमानं हन्तुमिष्य-
माणं हननार्थं नीयमानमिति भावः । भूसुरं ब्राह्मणम् । दयया करुणया आयत्तं आ-
क्रान्तं चित्तं हृदयं यस्य सः । अब्रवमकथयम् ।

यह अवश्य तेजस्वी पुरुष है ऐसा ज्ञातकर तथा पूर्वसे ही राजवाहनके सुहृदोंसे उसका नाम
और उत्पत्ति सुन चुकनेके कारण वह पुरुष राजवाहनसे अपना वृत्तान्त कहने लगा । उसने
कहा-हे राजनन्दन ! इस विन्ध्याटवीमें अनेक कुत्सित विप्रोंका आवास है जिन्होंने वेदादि
विद्याभ्यासको त्यागकर तथा ब्राह्मणोचित धर्माचार एवं सत्य-शौच आदि कुलाचारोंको
छोड़कर पापाचारमें प्रविष्ट होकर म्लेच्छोंके अधीन रहना अपना धर्म बना लिया है और
उन्हीं म्लेच्छोंका अन्न खाकर जीवन बिताना उनका प्रधान कार्य हो गया है। उन्हीं
विप्रोंमेंसे एक चरित्रहीन, निन्दित विप्रपुत्र मैं भी हूँ । मेरा नाम मातंग है। इसी विपिनके
किरात-भीलोंके साथ मैं भी नगरोंमें जाया करता था और पुत्र-कलत्रादिके सहित नगरोंसे
धनिकोंको पकड़ लाया करता था तथा उन्हें बन्दी बनाकर सारा माल-असबाब छीन
लेता था । इसी रीतिसे निर्दय होकर मैं घूमा करता था कि, एकदा किसी एक वनमें हमारे
साथी लोग एक ब्राह्मणको मारने लगे । मुझे उसपर करुणा भर आयीं और मैंने कहा-हे
पापियो ! इस ब्राह्मणकी हत्या न करो ।

रेफ र मध्यमा-य सका देरिव पारेया जत्व झ-छ, च ह, तवर्ग ट
स श खेको झु