Skip to content
SarvaKosh
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 352 of 474

Read in context
Page 352

३५२ दशकुमारचरितम् । [ उत्तरपीठिकायां
लब्धाभिः काकिणीभिः स्थिरतराण्यनत्यार्द्राणि नातिशुष्काणि काष्ठानि
मितंपचां स्थालीमुभे शरावे चाहर' इति ।
(३१) तथाकृते तया तांस्तण्डुलाननतिनिम्नोत्तानविस्तीर्णकुक्षौ क-
कुभोल्लूखले लोहपत्रवेष्टितमुखेन समशरीरेण विभाव्यमानमध्यतानवेन
व्यायतेन गुरुणा खादिरेण मुसलेन चतुरललितक्षेपोत्क्षेपणायासितभुज
गृह्णन्तीति प्रसिद्धिः । तेभ्यः स्वर्णकारेभ्यः । इमान्-तुषान् । लब्धाभिः तन्मूल्य-
स्वेन प्राप्ताभिः । काकिणीभिः कपर्दिकाभिः । स्थिरतराणि-सारवन्ति । अनत्या-
र्द्राणि अनतिसरसानि । किञ्चिदाद्राणि काष्ठानि मन्दं मन्दं ज्वलन्तीति भावः ।
नातिशुष्काणि-अतिशुष्ककाष्ठानां शीघ्रदाहभयादनतिनीरसानि । काष्ठानि इन्ध-
नानि । मितम्पचां मितं स्वल्पं पचतीति मितनखे चेति खश् । स्वल्पपाचिनीमि-
त्यर्थः । स्थालीं पाकपात्रम् । उभे शरावे-वर्धमानकद्वयम् । मृत्पात्रयुग्ममिति
शेषः । आहर आनय ।
(३१) तथाकृते कथनानुसारेण अनुष्ठिते, तत्तद्द्रव्ये आनीते सतीत्यर्थः ।
तया धात्र्या । अनतीति-अनतिनिम्नो नातिनम्रः उत्तानः ऊर्ध्वमुखो विस्तीर्णश्च
कुक्षिरभ्यन्तरभागो यस्य तादृशे । ककुभोल्लूखले-ककुभेन अर्जुनवृक्षेण निर्मिते
उलूखले तण्डुलोत्पादकयन्त्रविशेषे लोहपत्रेति-लोहपत्रेण पत्राकारलोहेन वेष्टितं
मुखमग्रभागो यस्यं तेन । समशरीरेण तुल्यावयवेन । विभाव्येति-विभाव्यमानं
अनुभूयमानं मध्ये मध्यभागे तानवं तनुत्वं कृशत्वमिति यावत्, यस्य तेन ।
व्यायतेन दीर्घेण । गुरुणा स्थूलेन । खादिरेण खादिरकाष्ठनिर्मितेन । एतत्सर्वं
मुसलेनेत्यस्य विशेषणम् । मुसलेन दण्डविशेषेण । चतुरति-चतुरं चपलं ललितं
दिया । खड़े-खड़े (साबित) चावलके दाने अलग कर डाले और टूटे हुए अलग कर
डाले तथा भूसी अलग कर दी । ततः अपनी धात्रीसे बोली-'हे अम्ब ! यह भूसी
सुनारोंको बेंच दीजिये । क्योंकि वे लोग इससे अपने गहने साफ करते हैं, अतः खरीद लेंगे
इस भूसीके बदले उनसे जो कौड़ी (द्रव्य) प्राप्त होवे उससे न बहुत गीली तथा न
बहुत सूखी लकड़ी (ईंधनके लिये) और स्वल्पपाचिनी हंडिया एवं दो मिट्टीके ढक्कन
ले आइए ।'
(३१) वृद्धा उपधात्रीद्वारा उपयुक्त व्यापार सम्पादित होनेपर उस कन्याने उन
चावलोंको कुछ गहिरी और ऊर्ध्वमुखवाली ककुभकी (अर्जुन वृक्षकी) बड़ी ओखलीमें
रख दिया । फिर जिस मूसलमें मुखके ऊपर लोहेकी सामी लगी थी तथा जो बीचमें
क्षीण था और ऊपर नीचे सम अवयवी था, जो खदिरकी लकड़ीका बना था । जो लम्बा
Nepal Sanskrit University, Balmeeki Campus, Kathmandu