Skip to content
SarvaKosh
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 292 of 474

Read in context
Page 292

२६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
दधानाम् , ऐरावतमदावलेपदूनापविद्धामिव नन्दनवनकल्पवृक्षरत्नमञ्जरीं
कामपि तरुणीमालोकयम् ।
( ४ ) अतर्कयं च—'क्व गता सा महाटवी, कुत इदमूर्ध्वाण्डसम्पुटो-
ल्लेखि शक्तिध्वजशिखरशूलोत्सेधं सौधमागतम्, क्व च तदरण्यस्थलीस-
लोचने नयने इन्दीवरे नीलोत्पले इव यत्र तथाभूतमाननं दधानां धारयन्तीम् ।
ऐरावतस्येन्द्रवाहनस्य मदेन योऽवलेपो गर्वस्तेनादौ लूना छिन्ना पश्चात् अपविद्धा
निःक्षिप्ता त्यक्तेति यावत्-तथाभूताम् । नन्दनवने देवराजोद्याने यः कल्पवृक्षः पारि-
जातस्तरुस्तस्य रत्नमयी या वल्लरी मञ्जरी तामिव । कामपि-अनिर्वचनीयां
तरुणीं-युवतीम् ।
( ४ ) अतर्कयं-मनस्यचिन्तयम् । महाटवी-महारण्यम् । कुतः-कस्मात् स्था-
नात् । इदं-पुरोदृश्यमानम् । ऊर्ध्वाण्डेति-नखैर्हिरण्यगर्भः स तदण्डं विभिदे
समम् । ताभ्यां च सकलाभ्यां स दिवं भूमिञ्च निर्ममे इति मनूक्तेः ऊर्ध्वाण्ड
मूर्ध्वकपालं ब्रह्माण्डस्योध्वंर्ध्वदेश इति यावत्-तस्य यः सम्पुट आवरणं तदुल्लिखति
स्पृशतीत्येवं शीलम् । गगनस्पर्शि इत्यर्थः । शक्तिध्वजेति-शक्तिध्वजः कार्त्तिकेयः ।
सेनानीः क्रौञ्चशत्रुश्च कुमारः शक्तिकेतन इति कोषात् । तस्य यच्छूलमस्त्रविशे-
षस्तस्य शिखरमग्रभागस्तद्वत् उत्सेध औन्नत्यं यस्य तत् अत्युच्चतमित्यर्थः । सौ-
धस्य विशेषणद्वयम् । शिखरशूलमित्यत्र शूलस्य शिखरमित्यर्थे राजदन्तादिव-
त्पूर्वनिपातः । सौधं-राजसदनम् । आगतमुपस्थितम् । क्व गतमिति शेषः । तद-
रण्येति-तस्यां पूर्वोक्तायामरण्यस्थल्यां काननभूमौ समास्तीर्णं रचितम् । पल्लव-
शयनं किसलयतल्पम् । कुतस्त्यं-कुत आगतम् । इन्दुगभस्तीति-इन्दोश्चन्द्रस्य
ज्वालासे जले हुए कामदेवके कणमात्र अवशिष्ट भागको वर्द्धन करनेवाली अंगनाको देखा ।
जिस कमलकोशके भीतर भौंरा सोता हो ऐसे कमलके समान और निद्रासे परिव्याप्त
होनेसे संपुटित नयनरूप नीले कमलवाले मुखको धारण करनेवाली तथा इन्द्रके ऐरावत
हाथीकेद्वारा मदान्धमें तोड़कर त्यागी हुई नन्दनवनके कल्पवृक्षकी रत्नमञ्जरीके समान
आभावाली उस युवती ( अंगना ) को मैने देखा ।
(४) मनमें चिन्तन करने लगा—वह गहन वन कहां चला गया ? कहांसे यह
अत्यन्त विशाल राजप्रासाद आ गया जो ब्रह्माण्डके ऊपरवाले भागको स्पर्शित करनेवाला
है तथा कुमार कार्तिकेयके पर्वतकी चोटियोंके तुल्य अति उन्नत भागवाला है अर्थात्
गगनस्पर्शी है । वह वनस्थली कहां गयी जहांपर मैंने पल्लवोंकी शय्या रची थी ? कहांसे
यह चन्द्रमाकी किरणसमूहके सदृश उज्ज्वल तथा हंसतूलके समान शुभ्र वस्त्रवाली,