Skip to content
SarvaKosh
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 29 of 474

Read in context
Page 29

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २६
( ६३ ) जनपतिरेकस्मिन्पुण्यदिवसे तीर्थस्नानाय पक्कणनिकटमार्गेण
गच्छन्नबलया कयाचिदुपलालितमनुपमशरीरं कुमारं कंचिदवलोक्य कुतू-
हलाकुलस्तामपृच्छत्—'भामिनि ! रुचिरमूर्तिः सराजगुणसंपूर्तिरसाव-
र्भको भवदन्वयसंभवो न भवति कस्य नयनानन्दनः, निमित्तेन केन भव-
दधीनो जातः, कथ्यतां यथातथ्येन त्वया' इति ।
( ६४ ) प्रणतया तया शबर्या सलीलमलापि—'राजन् ! आत्मपल्लीस-
मीपे पदव्यां वर्तमानस्य शक्रसमानस्य मिथिलेश्वरस्य सर्वस्वमपहरति
शबरसैन्ये मद्द‌यितेनापहृत्य कुमार एष मह्यमर्पितो व्यवर्धत' इति ।
( ६५ ) तदवधार्य कार्यज्ञो राजा मुनिकथितं द्वितीयं राजकुमारमेव
( ६३ ) जनपतिः राजा । पुण्यदिवसे पुण्यतिथौ पर्वणि वा । तीर्थस्नानाय तीर्थे
स्नानं कर्तुम् । पक्कणस्य शबकालयस्य निकटमार्गेण सन्निहिताध्वना । अबलया
स्त्रिया । उपलालितं वात्सल्याेन धृतम् । अनुपमं अतुलनीयं शरीरं देहो यस्य तम् ।
कुतूहलेन कौतुकेन आकुलो व्याप्तः । भामिनि हे कामिनि ! सम्बोधनमेतत् । रुचिरा
मनोरमा मूर्तिः स्वरूपं यस्य सः । राजगुणानां नृपलक्षणानां संपूत्र्या_परिपूर्णतया
सह वर्त्ततेऽसाविति । अर्भको बालः । भवत्यास्तवत्वन्वये वंशे सम्भव उत्पत्तिर्यस्य
सः । नयनानन्दनो नेत्रप्रीतिदः पुत्र इति भावः । निमित्तेन कारणेन । भवदधीन-
स्त्वदायत्तः । याथातथ्येन तत्त्वतः ।
( ६४ ) प्रणतया कृतनमस्कारया । सलीलं सस्मितम् अलापि अभाषि । पदव्यां
मार्गे । शक्रसमानस्य इन्द्रतुल्यस्य । सर्वस्वं सर्वधनम् । मद्दयितेन मम भर्त्रा ।
व्यवर्धत वृद्धिं गतः ।
( ६५ ) अवधार्य विज्ञाय । कार्यज्ञः कृत्यवित् । सामदानाभ्यां साम्ना सान्त्व-
( ६३ ) एकदा किसी पुण्य कालके दिन मगधेश तीर्थस्नानके लिए जा रहे थे। रास्तेमें
शबरोंके गांवमें एक वनिताको एक सुन्दर बालकको लालन करते हुए एवं किसी-दूसरेको
दिखलाते हुए देखा । राजाने उस वनितासे आश्चर्यचकित होकर कुतूहलते पूछा-'हे भामिनि
इतना सुन्दर और सम्पूर्ण राजलक्षणोंसे युक्त यह सुन्दर मूर्तिवाला बालक किसका है। तुम्हारे
वंशमें तो ऐसे सुन्दर बालककी उत्पत्ति असम्भव है। अतः सत्य कहो यह किसके नेत्रोंकी
पुतली है। कैसे तुम्हारे पास यहां आया ?
( ६४ ) वह भीलिनी प्रणामकर कहने लगी—'हे देव ! जब शबरोंकी सेनाने इस
ग्रामसे जाते हुए मिथिलेशका सर्वस्व अपहरण कर लिया था । तब मेरे पतिने हरण करके
इस बालकको मुझे दिया था । तबसे मैं इसका पालन कर रही हूं।'
( ६५ ) उस भीलिनी द्वारा इस बालकका वृत्त ज्ञातकर तथा भलीभांति जानकर