Skip to content
SarvaKosh
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 278 of 474

Read in context
Page 278

२७८ दशकुमारचरितम् । [ उत्तरपीठिकायां
सह चिताधिरोहणाय माम्' इति । श्रुत्वा चैतत्प्रीतियुक्तः समादिक्षत्क्षि-
तीश्वरः—'क्रियतां कुलोचितः संस्कारः । उत्सवोत्तरं च पश्चिमं विधिसं-
स्कारमनुभवतु मे भगिनीपतिः' इति ।
(२०) चण्डाले तु मत्प्रतिषिद्धसकलमन्त्रवादिप्रयासे संस्थिते 'काम-
पालोऽपि कालदष्ट एव' इति स्वभवनोपनयनममुष्य स्वमाहात्म्यप्रकाश-
नाय महीपतिरन्वमंस्त । आनीतश्च पिता मे विविक्तायां भूमौ दर्भशय्या-
मधिशाय्य स्थितोऽभूत् ।
( २१ ) अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य,
मुहुश्चिप्रणम्य भवनदेवता यत्ननिवारितपरिजनाक्रन्दिता पितुर्मे शयन-
न करिष्यामि तर्हि ऐहिकसुखासक्ता पातिव्रत्योचितं नानुष्ठितवतीति जना मां
निन्दिष्यन्तीति भावः । अनुमन्तुं अनुज्ञातुम् । उत्सवोत्तरं उत्सवप्रधानम् । पश्चि-
मम्-अन्त्यम् । विधिसंस्कारम्-अन्त्येष्टिपद्धत्युक्तदाहक्रियाम् ।
( २९ ) चण्डाले-पूर्वमेव सर्पदष्टे घोषणाकारिणि । मत्प्रतिषिद्धेति-मयाऽ-
र्थपालेन प्रतिषिद्धो रुद्धः सकलानां मन्त्रवादिनां गारुडिकानां प्रयासो विषापहर-
णप्रयत्नो यस्मिन्-तथाभूते । संस्थिते-मृते सति । अमुष्य-कामपालस्य । स्वमा-
हात्म्यप्रकाशनाय-स्वीकीयोदारताप्रकटनार्थम् । अन्वमंस्त-अनुमोदितवान् ।
( २१ ) मरणमण्डनं-मृत्युकालोचितभूषणम् । सखीः-सहचरीः । भवनदेवताः-
गृहदेवताः । अभिप्रणम्येत्यस्य कर्म । यत्ननिवारितेति यत्नेन निवारितं परिजनस्य
स्वजनवर्गस्याक्रन्दितं विलापो यया सा । वैनतेयतां गरुडताम् । गतेन-प्राप्तेन-
कुलको कलङ्कित करनेवाली कहलाऊँगी । अतएव आप पतिके साथ चितामें अधिरोहण
करनेकी मुझे अनुमति देने योग्य हैं।' इन बातोंको सुनकर राजाने प्रेमपूर्वक आदेश दिया
कि, 'वंशके अनुकूल संस्कार करिये और उत्सव मनानेके अनन्तर कहा कि, मेरी बहिनके
पतिका अन्तिम संस्कार विधिसे हो।'
( २० ) मुझे छोड़कर और सभी मन्त्रशास्त्रियोंने उस दंशित चाण्डालकी झाड़ फूँक
की, किन्तु, वह सब व्यर्थ सिद्ध हुई । 'कामपालको भी कालने ही डस लिया है' ऐसा
जानकर राजाने अपनी उदारता दिखानेके लिये कामपालको घर ले जानेकी अनुमति दे
दी। लोगोंने मेरे पिताको लाकर एकान्त पृथ्वीतलपर कुशाकी शय्यापर लिटा दिया।
( २१ ) तदनन्तर मेरी माता कान्तिमतीने मृत्युकालका वेष रचकर करुणायुक्त होकर
सहचरीवर्गोंको बुलाया । भवनदेवताको बार-बार प्रणाम किया । यत्नके साथ अपनी