Skip to content
SarvaKosh
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 222 of 474

Read in context
Page 222

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
२२२ दशकुमारचरितम् । [ उत्तरपीठिकायां
तव्या । प्रत्यहं च यद्यत्तत्र वृत्तं तदस्मि त्वयैव बोध्यः, मदुक्ता पुनरियमु-
दर्कस्वादुनोऽस्मात्कर्मणः प्रसाधनाय च्छायेवानपायिनी कल्पसुन्दरीमनुव-
र्त्तताम्' इति । ते च तमर्थं तथैवान्वतिष्ठताम् ।
(११) केषुचिद्दिनेषु गतेष्वाचष्ट मां मदम्बा 'वत्स, माधवीव पिचु-
मन्दाश्लेषिणी यथासौ शोच्यमात्मानं मन्येत तथोपपाद्य स्थापिता । किं
भूयः कृत्यम्' इति । पुनरहमभिलिख्यात्मनः प्रतिकृतिम् 'इयममुष्यै नेया ।
विलसितानि विहारादीनि । अन्विष्य अनुसन्धानेन आविष्कृत्य । मानं कोपम् ।
अनन्येति-नास्ति अन्यो व्यापारो यस्यास्तया परित्यक्तान्यकार्याया । उपस्थातव्या
सेव्या । वृत्तं सञ्जातम् । बोध्यः ज्ञापनीयः । इयं पुष्करिका । उदर्को भाविफलं
स्वादु मधुरं यस्य तस्य-शुभपरिणामस्येत्यर्थः । प्रसाधनाय सम्पादनाय । अन-
पायिनी अविच्छिन्ना । अनुवर्ततामनुसरतु । ते वृद्धा-पुष्करिके । तथैव यथा
मयोक्तं तेनैव प्रकारेण ।
(११) गतेषु व्यतीतेषु । मामुपहारवर्माणम् । माधवी वासन्तीलता ।
पिचुमन्दाश्लेषिणी-निम्बवृक्षाश्रिता । पिचुमन्दं निम्बवृक्षमश्लिष्यतीति तथोक्ता ।
असौ कल्पसुन्दरी । शोच्य शोचनीयम् । निम्बवृक्षाश्रयणेन माधवीलताया यथा
शोचनीयता भवति तथा कल्पसुन्दर्या अपि विकटवर्मपत्नीत्वस्वीकारेणेति भावः ।
उपपाद्य सम्पाद्य भूयः पुनः अग्रे इति यावत् । कृत्यं कर्तव्यम् । अभिलिख्य चित्र-
यित्वा। प्रतिकृतिं प्रतिमूर्त्तिम् । इयं प्रतिकृतिः । अमुष्यै-कल्पसुन्दर्यै-तदर्थ-
मित्यर्थः । नेया प्रापणीया । नीतां प्रापिताम् । एनां प्रतिकृतिम् । निर्वर्ण्य दृष्ट्वा ।
यह कहा-'हे मातः ! आप भा सभी दूसरे कर्मोंको त्याग करके केवल कल्पसुन्दरी
रानीकी सेवा करें। प्रत्येक दिवस वहाँपर जो भी समाचार मिले उसे आप स्वयं मुझसे
आ करके कहें। इस पुष्करिकाको मेरे कहे वचनोंपर छायाके समान सदा रानी कल्प-
सुन्दरीकी सेवामें अविच्छिन्नरूपेण आरूढ़ रहना चाहिये। क्योंकि इस कार्यसे अन्तमें
सुन्दर परिणाम होनेवाला है।' वे दोनों मेरे कहे वाक्योंपर दृढ़ रह करके वैसा ही
करने लगीं।
(११) कुछ दिनोंके बीतनेपर मेरी वृद्धा माताने मुझसे ( उपहारवर्मासे ) आ करके
कहा-'हे वत्स ! जैसे वासन्तीलताकी दशा नीमके वृक्षपर शोचनीया होती है उसी
प्रकारसे मैंने रानी कल्पसुन्दरीकी शोचनीया दशा कर दी है। अब इसके पश्चात् मुझे
जो आज्ञा हो वैसा कार्य मैं करूँ।' तदनन्तर मैंने अपना चित्र खींच करके उसे दिया
और कहा कि 'यह चित्र उस रानी कल्पसुन्दरीको दे दो। इस चित्रको अवलोकन
Nepal Sanskrit University, Balmeeki Campus, Kathmandu