Skip to content
SarvaKosh
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 155 of 474

Read in context
Page 155

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १५७
तीक्ष्णकौक्षेयकः फणिमुखकाकलीसंदंशकपुरुषशीर्षकयोगचूर्णयोगवर्तिका-
मानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्डकप्रभृत्यनेकोपकरणयुक्तो गत्वा
कस्यचिल्लुब्धेश्वरस्य गृहे संधि छित्त्वा पटभाससूक्ष्मच्छिद्रालक्षि-
तान्तर्गृहप्रवृत्तिरव्यथो निजगृहमिवानुप्रविश्य नीवीं सारमहतीमादाय
निरगाम् ।
( २६ ) नीलनारदनिकरपीवरतमोनिबिडितायां राजवीथ्यां झटिति
परनिपातः । कौक्षेयकः खड्गः । फणिमुखेति-अग्रे वक्ष्यमाणानि सर्वाण्येव चौर्य-
साधनान्युपकरणानि । फणिमुखं फणिनो मुखमिव मुखं यस्य तत् । सुरुङ्गाखनन-
साधनमस्त्रविशेषः । काकली काकचञ्च्वाकारयन्त्रविशेषः कर्तरीति प्रसिद्धः ।
सन्दंशकः दृढनिखातकीलोत्पाटनार्थं यन्त्रविशेषः साडांशीति भाषा । पुरुष-
शीर्षकं पुरुषमस्तकाकारकाष्ठमयशिरः परीक्षार्थं सुरुङ्गायां प्रथमप्रवेशनार्थम् ।
योगचूर्णं निष्पं जनौषधिमूलादिचूर्णं गृहस्थानां गभीरनिद्रावेशसाधनम् । योगव-
र्तिका-अग्निं विना आलोकसाधनम् । मानसूत्र प्रमाणरज्जुः, कर्कटकः कुलीरा-
कृतियन्त्रविशेषः । रज्जुः सौधाग्रारोहणार्थम् । दीपभाजनमालोकाधारः, भ्रमर-
करण्डकं दीपनिर्वापणार्थं शलभभाण्डम्-इत्यादिभिरनेकै रुपकरणैर्युक्तः, अहमिति
शेषः । लुब्धेश्वरस्य लुब्धधनिकस्य धूर्तप्रधानस्य वा । सन्धिं इष्टकासंयोगम् ।
पटभासेति-पटभासो गवाक्षजालं तस्य सूक्ष्मेण छिद्रेण विवरेण आलचिता दृष्टा
अन्तर्गृहे गृहमध्ये स्थितानां प्रवृत्तिर्वृत्तान्तो येनासौ । अव्यथः अश्रान्तः । नीवीं
मूलधनम् । सारमहतीं सारेण श्रेष्ठरत्नादिना महतीं महामूल्यवतीम् । निरगाम्
निरगच्छम् ।
(२९) नीलेति-नीलाः कृष्णा ये नीरदा मेघास्तेषां निकरः समूहस्तद्भव
पहना । कमरमें अतितीक्ष्ण तलवार बांधी । सेंध लगानेवाली, शबरी-कैंची, संड़सी, काष्ठ-
निर्मित पुरुषका मस्तक, योगवर्तिका, (जिसके जलानेपर सर्पं दीख जाते हैं) नापनेका फीता
यन्त्रसाधन, रस्सी, दीपपात्र, भ्रमरकरण्डक (दीपक बुझानेवाले भौरोंसे भरी पेटी)
आदि अनेक प्रकारकी सामग्रियां ले करके गया और एक लोभी धनीके घरमें सेंध लगायी
वहाँ पहले मैंने झरोकेके सूक्ष्म छिद्रसे घरकी सारी स्थिति भलीभांति देख ली और तब
बिना हिचकके अपने घरके समान घुस गया तथा एक बहुमूल्य करधनी चुरा करके
निकल आया ।
( २९ ) बाहर काले बादलों के कारण अतिशय घने अन्धकारयुक्त राजमार्गमें एकाएक
Nepal Sanskrit University, Balmeeki Campus, Kathmandu