Skip to content
SarvaKosh
ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

by आचार्य ब्रह्मगुप्त

Report a copyright issue

DevanagariHindipublished737 pages

Page 20 of 737

Read in context
Page 20

पञ्चषष्ट्या वर्षैः क्रांतिपातः प्राय एकमंशं पश्चिमदिश्यपसरति तज्ज्ञानं स्वल्प-
कालेनासम्भव इवेति वेधविज्ञेनापि ब्रह्मगुप्तेनायनचलनं नोपलब्धमिति । आर्य-
भटविरोधी भूत्वापि ब्रह्मगुप्तो ब्राह्मस्फुटसिद्धान्तरचनानन्तरं सप्तत्रिंशत्तमे वर्षे
खण्डखाद्यकं नामकरणग्रन्थं रचितवान् यथा तत्प्रारम्भे --
प्रणिपत्य महादेवं जगदुत्पत्तिस्थितिप्रलयहेतुम् ।
वक्ष्यामि खण्डखाद्यकमाचार्य्यार्य्यभटतुल्यफलम् ॥
प्रायेणार्यभटेन व्यवहारः प्रतिदिनं यतोऽशक्यः ।
उद्वाहजातकादिषु तत्समफललघुतरोक्तिरतः ॥
इति तदुक्तग्रन्थपर्यालोचनया ज्ञायते यत्सर्वत्र व्यवहारकृतां मानवानां
मध्ये प्रचरितार्यभटमत निराकरणमतीव कठिनमासीदिति—'आर्यभटमतानुसारि-
व्यवहरतां तात्कालिकजनानामुपकारायैव व्यावहारिकः करणग्रन्थः खण्डखाद्यक-
नामको रचितो ब्रह्मगुप्तेन । यथोपलब्धेषु प्राचीनज्योतिषसिद्धान्तग्रन्थेषु ब्राह्म-
स्फुटसिद्धान्त आदर्शरूपो ग्रन्थस्तथैव सर्वेषां करणग्रन्थानामादर्शरूपमादिमं वा
इतस्त्रयोदशशतवर्षैः प्राचीनं खण्डखाद्यकं करणम् । अथ ‘ब्रह्माह्वयश्रीधरपद्म-
नाभबीजानि यस्मादति विस्तृतानि' इति बीजगणिते भास्करोक्त्या ज्ञायते
यद्ब्रह्मगुप्तस्य विपुलो बीजगणित ग्रन्थ आसीत्परमयं ग्रन्थः कुत्रापि नोपलभ्यते
न वा श्रूयते । ब्रह्मगुप्त एव सर्वापेक्षया श्रीपतेरादर्शभूतः । ब्राह्मस्फुटसिद्धान्त-
सिद्धान्तशेखरयोः पर्यालोचनया ज्ञायते यद् ब्रह्मगुप्तोक्ताः संक्षिप्ता बहुलार्थयुक्ता
आर्या एव बृहदाकारैश्छन्दोभिरनूदिताः श्रीपतिना। वस्तुतो ब्रह्मगुप्तोक्तं ग्रह-
गणितं सूक्ष्मं ज्ञात्वा सत्यमिव तदेव स्वीकुर्वन् श्रीपतिस्तदुक्तिवैषम्यं स्वसुन्दर-
रचनाभिरपहरन् सुगमतंर ग्रन्थांतरं (सिद्धान्त शेखरं) चकार, नात्र केषामपि
विप्रतिपत्तिः । ग्रन्थरचनासम्बन्धे श्रीपतेर्विशेषतो लल्लाचार्य एवादर्शः । ये केचन
विषया ब्रह्मगुप्तेन न कथिता अथ लल्लेन कथितास्तान् सर्वानिव नियतमेव
श्रीपतिः श्लोकान्तरेण तथैव कथितवान् । वस्तुतो द्वयोर्ग्रन्थयोः (ब्राह्मस्फुट
सिद्धान्तशिष्यधीवृद्धिदयोः) परिशीलनं कृत्वा श्रीपतिना सिद्धान्तशेखरो रचितः ।
ब्राह्मस्फुट सिद्धान्ते येषामाचार्याणां नामानि समागतानि सन्ति तेषां सम्बन्धे
किञ्चिद्विविच्यते । सर्वेषां सिद्धान्तानामादिमः सर्वेभ्यः प्राचीनॊ वा ब्रह्मसिद्धान्त
एव, स एव कैश्चित् पितामहसिद्धान्तनाम्नाप्युच्यते । पञ्चसिद्धान्तिकायां
वराहमिहिरेण द्वादशोऽध्याय आर्यापञ्चात्मकः पैतामहसिद्धान्तः कथितो
यथा—
रविरशिनोः पञ्चयुगं वर्षाणि पितामहोपदिष्टानि ।
अधिमासस्त्रिंशद्भिर्मासैरवमस्त्रिषष्ट्याऽह्नाम् ॥