ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
by आचार्य ब्रह्मगुप्त
DevanagariHindipublished737 pages
Page 17 of 737
Read in contextPage 17
भूमिका
ब्रह्मगुप्तकृतो ब्राह्मस्फुटसिद्धान्तः
श्रीचापवंशतिलके श्रीव्याघ्रमुखे नृपे शकनृपाणाम् ।
पञ्चाशत्संयुक्तैर्वर्षशतैः पञ्चभिरतीतैः ॥
ब्राह्मः स्फुटसिद्धान्तः सज्जनगणितज्ञगोलवित्प्रीत्यै ।
त्रिंशद्वर्षेण कृतो जिष्णुसुतब्रह्मगुप्तेन ॥
इति ब्राह्मस्फुटसिद्धान्तीयसंज्ञाध्याये आचार्योक्त्या ५२० शाकवर्षे-आचा-
र्यस्य (ब्रह्मगुप्तस्य) जन्म समयस्ततः परं त्रिंशति वर्षेषु गतेषु तेन ब्राह्मस्फुट-
सिद्धान्तसंज्ञको ज्योतिषसिद्धान्तग्रन्थो विरचितः¹। गुर्जरदेशमध्ये भिनमाल नाम
ग्राम एवास्य जन्मस्थानं बहूनां पाश्चात्यानां गवेषणया सिध्यति । गुर्जरदेशीय-
ज्योतिर्विदां मुखकथातोऽपि भिल्लमालकोऽधुना भिनमालनाम्ना प्रसिद्धो ग्राम
एवाऽऽचार्यस्य