भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
About this granth
Bhamati (भामती) is one of the foundational sub-commentaries of Advaita Vedanta. Vachaspati Mishra, the ninth or tenth century scholar from Mithila, wrote it on Shankara's commentary (Shariraka Mimamsa Bhashya) on Badarayana's Brahma Sutras; tradition says he named it after his wife. It gave its name to the Bhamati school of Advaita, which differs from the Vivarana school on questions such as the locus of ignorance.
This volume concentrates on the opening section known as the Chatussutri, the first four sutras from 'athato brahmajijnasa' to 'tat tu samanvayat'. Shankara's preamble on superimposition (adhyasa) and his commentary on these four sutras are treated as the groundwork of the whole system, so students of Vedanta spend the most time here.
The edition prints the sutras, Shankara's bhashya, the Bhamati and a detailed Hindi exposition by Swami Yogindrananda, an Udasin monk and disciple of Swami Rishiram. It is part one in the Vidyabhawan Prachyavidya Granthamala (no. 12) of Chowkhamba Vidyabhawan, Varanasi; the scan, of the 2005 printing, runs to 639 pages.
| ५७८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १४ |
|---|
प्रयोजनं क्रियत इति, नैष दोषः; शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् । तत्कार्यमप्यनृतमेवेति चेद् ब्रूयात्, तत्र ब्रूमः - यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं,
भामती
धूममहिष्या वह्निज्ञानं सत्यं स्यात् । नहि चक्षुषो रूपज्ञानं सत्यमुपजायत इति रसादिज्ञानेनापि ततः सत्येन भवितव्यम् । यतो नियमो हि स तादृशः सत्यानां यतः कुतश्चित् किञ्चिदेव जायत इत्येवमसत्यानामपि नियमो यतः कुतश्चिदसत्यात्सत्यं कुतश्चिदसत्यं यथा दीर्घत्वादेर्वर्णेषु समारोपितत्वाविशेषेऽप्यजीनमित्यतो ज्यानिविरहमवगच्छन्ति सत्यम्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअसत्यात्सत्यस्योत्पत्तिः ] हिन्दीसहितभामतीसंवलितम् ५८९
तथापि तदवगतिः सत्यमेव फलम् , प्रतिबुद्धस्याप्यबाध्यमानत्वात् । नहि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् । एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः । तथा च श्रुतिः—‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्त-
भामती
यद्यपि स्वप्नदर्शनावस्थस्य इति ॐ । लौकिको हि सुप्तोत्थितोऽवगम्यं बाधितं मन्यते न तदवगतिं, तेन यद्यपि परीक्षका अनिर्वचनीयरूषितामवगतिमनिर्वचनीयां निश्चिन्वन्ति तथापि लौकिकाभिप्रायेणैतदुक्तम् । अत्रान्तरे लोकायतिकानां मतमपाकरोति ॐ एतेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५८० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १४
स्मिन्त्स्वप्ननिदर्शने' ( छा० ५।२।९ ) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं
दर्शयति । तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु 'न चिरमिव जीविष्यतीति
विद्यात्' इत्युक्त्वा 'अथ यः स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति'
इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति । प्रसिद्धं
चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यत ईदृशेना-
साध्वागम इति । तथाऽकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः । अपि
चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकं नातः परं किंचिदाकाङ्क्ष्यमस्ति ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअसत्यात्सत्यस्योत्पत्तिः ] हिन्दीसहितभामतीसंवलितम् ५८१
माणेऽर्थे आकाङ्क्षा स्यात् । न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति य आकाङ्क्ष्येत । न चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम् 'तद्धास्य विजज्ञौ' ( छा० ६।१६।३ ) इत्यादिश्रुतिभ्यः । अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् । न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् । अविद्यानिवृत्तिफलदर्शनात्, बाधकज्ञानान्तराभावाच्च । प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृत-
भामती
प्रतिक्षिप्येत, तत्रानुकूलप्रतिकूलनिवारणाज्ञातः परं किञ्चिदाकांक्ष्यमिति । न चेयमवगतिर्दुलिक्षीरप्रायेत्याह ॐ न चेयम् इति ॐ । स्यादेतत् -- अन्त्या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५८२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १४
व्यवहारो लौकिको वैदिकश्चेत्यवोचाम । तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वान्नानेकात्मकब्रह्मकल्पनावकाशोऽस्ति । ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते । परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति । नेत्युच्यते, ‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ ( बृ० ४।४।२५ ) ‘स एष नेति नेत्यात्मा’ ( बृ० ३।९।२६ ), ‘अस्थूलमण्व’ ( बृ० ३।८।८ ) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यो ब्रह्मणः कूटस्थत्वावगमात् । न ह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम् । स्थितिगतिवत्स्यादिति चेत्—न, कूटस्थस्येति विशेषणात् । नहि कूटस्थस्य ब्रह्मणः
भामती
सत्यञ्च तदविसंवादादनृतञ्च विचारासहतयाऽनिर्वच्यत्वात् । अन्त्यस्यैकात्म्यज्ञानस्यानपेक्षतया बाधकत्वमनेकत्वज्ञानस्य च प्रतियोगिग्रहापेक्षया दुर्बलत्वेन बाध्यत्वं वदन् प्रकृतमुपसंहरति ॐ तस्मादन्त्येन प्रमाणेन इति ॐ । स्यादेतत्—न वयमनेकत्वव्यवहारसिद्ध्यर्थमनेकत्वस्य तात्त्विकत्वं कल्पयामः, किन्तु श्रौतमेवास्य तात्त्विकत्वमिति चोदयति ॐ ननु मृदादि इति ॐ । परिहरति ॐ नेत्युच्यते इति ॐ । मृदादिदृष्टान्तेन हि कथञ्चित्परिणाम उन्नेयः, न च शक्य उन्नेतुमपि, मृत्तिकेत्येव सत्यमिति कारणमात्रसत्यत्वावधारणेन कार्यस्यानृतत्वप्रतिपादनात् साक्षात् कूटस्थनित्यत्वप्रतिपादिकास्तु सन्ति सहस्रशः श्रुतय इति न परिणामधर्मता ब्रह्मणः । अथ कूटस्थस्यापि परिणामः कस्मान्न भवतीत्यत आह ॐ नह्येकस्य इति ॐ । शङ्कते ॐ स्थितिगतिवद् इति ॐ । यथैकवाणाश्रये गतिनिवृत्ती एवमेकस्मिन् ब्रह्मणि परिणा-
भामती-व्याख्या
का निर्वाह हो जाता है, अतः व्यवहार-निर्वाहक ज्ञान के लिए उसके विषयीभूत अनेकत्व को तात्त्विक मानने की आवश्यकता नहीं। अनेकत्व को तात्त्विक या सत्य इसलिए नहीं कह सकते कि उसका विसंवाद होता है, अतः वह अनृत (मिथ्या) है, क्योंकि विचार की कसौटी पर खरा न उतरने के कारण अनिर्वचनीय है। अन्तिम एकात्मतावगति को अन्य ज्ञान की अपेक्षा न होने के कारण प्रमाण या बाधकरूप एवं अनेकत्वावगति को प्रतियोगिज्ञानादि की अपेक्षा होने के कारण बाध्यरूप बताते हुए प्रकरण का उपसंहार किया जाता है—"तस्मादन्त्येन प्रमाणेन प्रतिपादिते"।
अनेकत्व-व्यवहार की सिद्धि के लिए अनेकत्व को तात्त्विक नहीं माना जाता अपितु श्रुति के आधार पर आत्मा में अनेकत्व सिद्ध होता है—इस प्रकार की शंका की जाती है—"ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद् ब्रह्म"। जैसे मृत्तिका घट, शराव आदि अनेक रूपों में परिणत होने के कारण अनेकरूप मानी जाती है वैसे ही ब्रह्म आकाश आदि अनेक रूपों में परिणत होने के कारण अनेकरूप क्यों नहीं ? उक्त शङ्का का परिहार किया जाता है—"नेत्युच्यते"। मृदादि दृष्टान्तों के आधार पर परिणामवाद की कल्पना नहीं की जा सकती क्योंकि "मृत्तिकेत्येव सत्यम्" इस वाक्य के द्वारा कारणमात्र की सत्यता अवधारित होने के कारण कार्यप्रपञ्च में अनृतत्व सिद्ध किया जाता है एवं ब्रह्म में कूटस्थत्व, नित्यत्व और एकत्व आदि की प्रतिपादिका अनन्त श्रुतियाँ हैं, अतः ब्रह्म को परिणामी कभी भी नहीं कहा जा सकता। कूटस्थ एकतत्त्व को परिणामी क्यों नहीं माना जा सकता—इसका समाधान करते हुए भाष्यकार कहते हैं—"न ह्येकस्य ब्रह्मणः परिणामधर्मत्वम्"। एक तत्त्व को परिणाम और परिणामाभाव वाला नहीं कहा जा सकता। एक तत्त्व में भी कथित उभयरूपता की शङ्का की जाती है—"स्थितिगतिवत्स्यात्"। अर्थात् जैसे एक ही बाण कभी गति (स्पन्दन) और कभी उसके अभाव (स्थिति) का आश्रय होता है वैसे ही एक ही
असत्यात्सत्यस्योत्पत्तिः ] हिन्दीसहितभामतीसंवलितम् ५८३
स्थितिगतिवदनेकधर्माश्रयत्वं संभवति । कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधा-
दित्यवोचाम, न च यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम्, एवं जगदाकारपरि-
णामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावात् । कूटस्थब्रह्मा-
त्मत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम्—‘स एष नेति नेत्यात्मा’ इत्युपक्रम्य
‘अभयं वै जनक प्राप्तोऽसि’ ( बृ० ४।२।४ ) इत्येवंजातीयकम् । तत्रैतत्सिद्धं
भवति—ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्यां यत्तत्राफलं
श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि, तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते,
फलवत्सन्निधावफलं तदङ्गमितिवत्, नतु स्वतन्त्रं फलाय कल्प्यत इति । नहि
परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तम् , कूटस्थनित्य-
त्वान्मोक्षस्य । ननु कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यादीशीत्रीशितव्याभाव ईश्वरका-
भामती
मश्च तदभावश्च कोटस्थं भविष्यत इति । निराकरोति ॐ न, कूटस्थस्येति विशेषणाद् इति ॐ ।
कूटस्थनित्यता हि सदातनी स्वभावावप्रच्युतिः, सा कथं प्रच्युत्या न विरुध्यते ? न च धर्मिणो व्यतिरि-
च्यते धर्मो येन तदुपजनापायाऽपि धर्मो कूटस्थः स्यात् । भेद ऐकान्तिके गवाश्ववद्धर्मधर्मिभावाभावात् ।
बाणादयस्तु परिणामिनः स्थित्या गत्या च परिणमन्त इति । अपि च स्वाध्यायाध्ययनविध्यापादितार्थ-
वत्त्वस्य वेदराशेरेकेनापि वर्णेनानर्थकेन न भवितव्यम्, किं पुनरियता जगतो ब्रह्मयोनित्वप्रतिपादकेन
वाक्यसन्दर्भेण, तत्र फलवद् ब्रह्मदर्शनसमानासनसन्निधावफलं जगद्योनित्वं समाम्नायमानं तदर्थं
सत्तदुपायतयाऽवतिष्ठते नार्थान्तरार्थमित्याह ॐ न च यथा ब्रह्मणः इति ॐ । अतो न परिणामपरत्वमस्ये-
त्यर्थः । तदनन्यत्वमित्यस्य सूत्रस्य प्रतिज्ञाविरोधं श्रुतिविरोधञ्च चोदयति ॐ कूटस्थब्रह्मात्मवादिनः इति ॐ ।
भामती-व्याख्या
ब्रह्म सृष्टि के समय परिणाम और प्रलय के समय परिणामाभाव का आश्रय क्यों नहीं हो सकता ? इस शङ्का का निराकरण किया जाता है—“न, कूटस्थस्येति विशेषणात्” । कूटस्थ-नित्यता नाम है स्वभावाऽप्रच्युति का, वह ब्रह्म में नित्य है। अतः उसकी प्रच्युति कभी नहीं हो सकती । कूटस्थत्वाप्रच्युति के बिना परिणामवाद सम्भव नहीं। धर्मी से धर्मों को अत्यन्त भिन्न नहीं माना जा सकता कि उनकी उत्पत्ति और विनाश की अवस्था में धर्मी कूटस्थ बना रहे। धर्मों को अत्यन्त भिन्न मानने पर गो-अश्व के समान धर्मधर्मिभाव उपपन्न नहीं हो सकता। बाण आदि पदार्थ कूटस्थ न होने के कारण स्थिति और गति के रूप में परिणत हो जाते हैं। दूसरी बात यह भी है कि ‘स्वाध्यायोऽध्येतव्यः’ इस विधिवाक्य के द्वारा समस्त वेदराशि में अर्थवत्ता प्रसाधित की गयी है। अतः उसका एक वर्ण भी अनर्थक नहीं हो सकता, फिर भला ब्रह्म की अपरिणामिता के प्रतिपादक अनेक वेदान्तवाक्यों का नैरर्थक्य सम्भव क्योंकर होगा? ब्रह्म के जगदाकारपरिणामित्व का प्रतिपादन करने वाले वेदान्तवाक्यों का स्वतन्त्र कोई फल या प्रयोजन नहीं माना जा सकता क्योंकि ब्रह्मात्मता-दर्शन का फल मोक्ष बताया गया है किन्तु ब्रह्म के प्रपञ्चाकार-परिणामित्व का कोई फल नहीं माना जाता। अतः ‘फलवत्सन्निधौ अफलं तदङ्गं भवति’ इस न्याय के आधार पर सृष्टिप्रक्रिया का प्रतिपादन ब्रह्मावगति का साधनमात्र माना जाता है। भाष्यकार यही कह रहे हैं—‘‘न च यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनमेवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलाय’’। फलतः सृष्टिप्रतिपादक वाक्यों को परिणामपरक नहीं माना जा सकता। ‘‘तदनन्यत्वमारम्भणशब्दादिभ्यः’’—इस सूत्र पर प्रतिज्ञाविरोध और श्रुतिविरोध का आक्षेप किया जाता है—‘‘ननु कूटस्थब्रह्मात्मवादिनः’’। अर्थात् ब्रह्म को नित्यकूटस्थ
| ५८४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १४ |
|---|
रणप्रतिज्ञाविरोध इति चेत्, न; अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात् सर्वज्ञत्वस्य। 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः' (तै० २।१) इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिमलया नाचेतनात्प्रधानादन्यस्माच्चेत्येषोऽर्थः प्रतिज्ञातः- 'जन्माद्यस्य यतः' (ब्र० सू० १।१।२) इति। सा प्रतिज्ञा तदवस्थैव न तद्विरुद्धोऽर्थः पुनरिहोच्यते। कथं नोच्यतेऽत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता? शृणु यथा नोच्यते- सर्वज्ञस्येश्वरस्यात्मभूत इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते। ताभ्यामन्यः सर्वज्ञ ईश्वरः, 'आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद् ब्रह्म' (छा० ८।१४।१) इति श्रुतेः, 'नामरूपे व्याकरवाणि' (छा० ६।३।२), 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते' (तै० आ० ३।१२।७), 'एकं बीजं बहुधा यः करोति' (श्वे० ६।१२) इत्यादिश्रुतिभ्यश्च। एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि। स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये। तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च, न परमार्थतो विद्यायापास्तसर्वोपाधिस्वरूप आत्मनीशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते। तथा चोक्तम्- 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा' (छा० ७।२४।१) इति। 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' (बृ० ४।५।१५) इत्यादिना च, एवं
भामती
परिहरति ॐ न, अविद्यात्मक इति ॐ। नाम च रूपञ्च ते एव बीजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्षत्वात्तैश्वर्यस्य। एतदुक्तं भवति— न तात्त्विकमैश्वर्यं सर्वज्ञत्वञ्च ब्रह्मणः किन्त्वविद्योपाधिकमिति तदाश्रयं प्रतिज्ञासूत्रं, तत्त्वाश्रयन्तु तदनन्यत्वसूत्रं, तेनाविरोधः। सुगममन्यत् ॥ १४ ॥
भामती-व्याख्या
मानने पर ईश्वर में जगतकारणता-प्रतिपादन की प्रतिज्ञा एवं तत्प्रतिपादक श्रुतिवाक्यों का विरोध क्यों नहीं उपस्थित होता? उसका परिहार किया जाता है—“न, अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य”। [आशय यह है कि शङ्कावादी का कहना था कि सूत्रकार ने अपने द्वितीय (“जन्माद्यस्य यतः”—इस) सूत्र में जो प्रतिज्ञा की थी ‘ईश्वरो जगतः कारणम्’। उस प्रतिज्ञा में अब (तदनन्यत्वमारम्भणशब्दादिभ्यः’ इस सूत्र में) जो ‘तदनन्यत्व’ हेतु का उपन्यास किया जाता है—‘ईश्वरो जगतः कारणम्, जगदनन्यत्वात्’। यहाँ प्रयुक्त हेतु में ‘प्रतिज्ञा-विरोध’ नाम का निग्रहस्थान है, जैसा कि न्यायसूत्रकार ने कहा है—“प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः” (न्या० सू० ५।२।४)। जगतकारणत्व और ‘जगदभिन्नत्व’—ये दोनों धर्म अत्यन्त विरुद्ध हैं, क्योंकि घट कभी अपना कारण नहीं हो सकता]। इस शङ्का का समाधान करते हुए भाष्यकार ने जो कहा है—“न अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्”, उसका आशय यह है कि ईश्वर में जो जगतकर्तृत्वप्रयुक्त सर्वज्ञत्व माना जाता है, वह तात्त्विक नहीं, अपितु अविद्यारूप उपाधि के द्वारा कल्पित होता है, प्रतिज्ञा-सूत्र में कल्पित सर्वज्ञत्व ही अपेक्षित होता है और अपेक्षित ऐश्वर्य भी नामरूपात्मक बीजशक्ति का व्याकरण (प्रकटन) ही है, जिसे ईश्वर में मान लेने पर किसी प्रकार का विरोध उपस्थित नहीं होता ॥ १४ ॥
कार्यकारणयोरनन्यत्वम् ] हिन्दीसहितभामतीसंवलितम् ५८५
परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे । तथेश्वरगीतास्वपि – 'न
कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥'
( गी० ५।१४-१५ ) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते ।
व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः–'एष सर्वेश्वर एष भूताधिपति-
रेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय' ( बृ० ४।४।२२ ) इति । तथा
चेश्वरगीतास्वपि – 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि
यन्त्रारूढानि मायया' ( गी० १८।६१ ) इति । सूत्रकारोऽपि परमार्थाभिप्रायेण
'तदनन्यत्वम्' इत्याह । व्यवहाराभिप्रायेण तु 'स्याल्लोकवद्' इति महासमुद्रस्थानीयां
ब्रह्मणः कथयति । अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति–सगुणे-
षूपासनेषूपयोक्ष्यत इति ॥ १४ ॥
भावे चोपलब्धेः ॥ १५ ॥
इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते,
भामती
कारणस्य भावः सत्ता चोपलम्भश्च तस्मिन् कार्यस्योपलब्धेर्भावाच्च । एतदुक्तं भवति — विषयपदं
विषयविषयिपरं, विषयिपदमपि विषयविषयपरं, तेन कारणोपलम्भभावयोरुपादेयोपलम्भभावादिति
सूत्रार्थः सम्पद्यते । तथा च प्रभारूपानुविद्धबुद्धिबोध्येन चाक्षुषेण न व्यभिचारः, नापि वह्निभावाभावा-
नुविधायिभावाभावेन धूमभेदेनेति सिद्धं भवति । तत्र यथोक्तहेतोरेकदेशाभिधानेनोपक्रमते भाष्यकारः
❖ इतश्च कारणादनन्यत्वं ❖ भेदाभावः ❖ कार्यस्य, ❖ यत्कारणं ❖ यस्मात् कारणात् । ❖ भाव एव
भामती-व्याख्या
कार्य और कारण के अनन्यत्व ( अभेद ) का साधक यह अन्वय-सूत्र है— "भावे
चोपलब्धेः" । [ यहाँ यह विशेष ज्ञातव्य है कि 'यत् सत्त्वे यत्सत्त्वम्' या 'यदुपलब्धौ यदुप-
लब्धिः' इस प्रकार का प्रत्येक अन्वय केवल कार्य-कारणभाव का ही साधक है, कार्य और
कारण के अभेद का नहीं । अभेद-सिद्धि के लिए 'सत्त्व' ( भावत्व ) और 'उपलब्धि'— इन
दोनों का मिलित अन्वय अपेक्षित है— यद्भावोपलब्ध्योः यद्भावोपलब्धी, तयोरभेदः । इसके
अनुरूप सौत्र पदों की योजना की जाती है ] । 'कारणभावे च कार्योपलब्धेः'— इस प्रकार के
प्रकरणोपयोगी वाक्य में यद्यपि 'भाव' पद केवल सत्त्वरूप विषय का एवं 'उपलब्धि' पद
केवल ज्ञानरूप विषयी का वाचक है, तथापि दोनों पदों से विषय और विषयी—दोनों
विवक्षित हैं, क्योंकि उपादान कारण के भाव एवं उपलम्भ पर उपादेय ( कार्य ) का भाव
और उपलम्भ निर्भर है, अतः उपादान और उपादेय का अभेद है—ऐसा सूत्र का अर्थ
विवक्षित है । यदि 'यदुपलब्धौ यदुपलब्धिः, तयोरभेदः'— इतना ही नियम माना
जाता है, तब आलोक और घटादिरूप चाक्षुष विषय में व्यभिचार हो जाता है,
क्योंकि आलोक की उपलब्धि होने पर ही घटादि की उपलब्धि होती है, तथापि
आलोक और घटादि पदार्थों का अभेद नहीं होता । इसी प्रकार 'यद्भावे यद्भावः,
तयोरभेदः'— इतनी ही व्याप्ति मानी जाय, तब अग्नि और धूमादि में व्यभिचार हो जाता है,
क्योंकि अग्नि के होने पर धूम होता है, किन्तु वह अग्नि से अभिन्न नहीं होता । [ उभयरूपता
की उभयत्र विवक्षा होने पर कहीं भी व्यभिचार नहीं होता, क्योंकि, न तो आलोक के होने
पर घटादि का होना अनिवार्य होता है और न अग्नि की उपलब्धि होने पर धूम की उपलब्धि
आवश्यक है ] । कथित भाव और उपलब्धि— इन दो हेतुओं में से एक ( भाव ) हेतु का
७४
५८६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. १५
नाभावे । तद्यथा सत्यां मृदि घट उपलभ्यते, सत्सु च तन्तुषु पटः । न च नियमेनान्य-
भावेऽन्यस्योपलब्धिर्दृष्टा । न ह्यश्वो गोरन्यः सन् गोर्भाव एवोपलभ्यते । न च कुलाल-
भाव एव घट उपलभ्यते, सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात् । नन्वन्यस्य भावेऽ-
प्यन्यस्योपलब्धिर्नियता दृश्यते—यथाग्निभावे धूमस्येति । नेत्युच्यते, उद्वापितेऽप्यग्नौ
गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात् । अथ धूमं कयाचिदवस्थया
विशिंष्यादीदृशो धूमो नासत्याग्नौ भवतीति । नैवमपि कश्चिद्दोषः, तद्भावानुरक्तां हि
बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः । न चासावग्निधूमयोर्विद्यते । 'भावाच्चो-
पलब्धेः' इति वा सूत्रम् । न केवलं शब्दादेव कार्यकारणयोरनन्यत्वं, प्रत्यक्षोपलब्धि-
भावाच्च तयोरनन्यत्वमित्यर्थः । भवति हि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे ।
तद्यथा—तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते, केवलास्तु
तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवोऽशूषु तदवयवाः ।
अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि, ततो वायुमात्रमाकाश-
भामती
कारणस्य इति ॐ । अस्य व्यतिरेकमुखेन गमकत्वमाह ॐ न च नियमेन इति ॐ । काकतालीयन्यायेना-
न्यभावेऽन्यस्योपलभ्यते, न तु नियमेनेत्यर्थः । हेतुविशेषणाय व्यभिचारं चोदयति ॐ नन्वन्यस्य भावेऽपि
इति ॐ । एकदेशिमतेन परिहरति ॐनेत्युच्यते इति ॐ । शङ्क्यैकदेशिपरिहारं दूषयित्वा परमार्थपरिहारमाह
ॐ अथ इति ॐ । तदनेन हेतुविशेषणमुक्तम् । पाठान्तरेणेदमेव सूत्रं व्याचष्टे ॐ न केवलं शब्दादेव
इति ॐ । पट इति हि प्रत्यक्षबुद्ध्या तन्तव एवातानवितावस्था आलम्ब्यन्ते, न तु तदतिरिक्तः पटः
प्रत्यक्षमुपलभ्यते । एकत्वं तु तन्तूनामेकप्रावरणलक्षणार्थक्रियावच्छेदाद्बहूनामपि । यथैकदेशकालावच्छिन्ना
भामती-व्याख्या
अभिधान भाष्यकार करते हैं—"इतश्च कारणादनन्यत्वं कार्यस्य" । 'अनन्यत्व' शब्द का अर्थ
अभेद है। भाष्यस्थ 'यत्कारणम्' शब्द का भाव यह है कि कार्य और कारण का अनन्यत्व
जिस कारण (हेतु) से सिद्ध होता है, वह कारण है—'भावे एव कारणस्य कार्योपलब्धेः' ।
इसी नियम में व्यतिरेकमुखेन अभेद-साधकत्व कहा जा रहा है—'न च नियमेनान्यभावेऽन्य-
स्योपलब्धिर्दृष्टा' । अर्थात् काकतालीय न्याय से (अकस्मात्) भिन्न पदार्थ के होने पर भिन्न
पदार्थ की उपलब्धि कभी हो जाती है किन्तु नियमतः नहीं। अभेद-साधक हेतुओं में
उभयरूपता विशेषण की आवश्यकता दिखाने के लिए केवल हेतु के व्यभिचार की शङ्का
उठाते हैं—"नन्वन्यस्य भावेऽपि" । उस शङ्का का परिहार एकदेशी के मत से करते हैं—
"नेत्युच्यते" । दूध पकाने की भट्ठिकादि में अग्नि के बुझ जाने पर भी धूम देखा जाता है,
अतः अग्नि के बिना भी धूम रहता है। एकदेशी-मत को दूषित करके वास्तविक परिहार
किया जाता है—"अथ धूमं कयाचिदवस्थया विशिंष्यात्" । "तद्भावानुरक्तां हि बुद्धिं कार्य-
कारणयोरनन्यत्वे हेतुं वयं वदामः"—इस भाष्य के द्वारा विवक्षित हेतु-विशेषण स्फुट किया
गया है।
पाठान्तर-निर्देशपूर्वक इसी सूत्र की व्याख्या की जा रही है—"न केवलं शब्दादेव" ।
आशय यह है कि "अयं पटः"—इस प्रकार की प्रत्यक्षात्मक बुद्धि के द्वारा विशेष ताना-बाना
वाले तन्तु ही गृहीत होते हैं, उनसे अतिरिक्त पट नाम की कोई वस्तु प्रत्यक्षतः उपलब्ध नहीं
होती। यदि तन्तुरूप ही पट है, तब तन्तुओं में बहुत्व होने के कारण पट में 'अयमेकः'—इस
प्रकार एकत्व-व्यवहार क्यों ? इस प्रश्न का उत्तर यह है कि अनेक तन्तुओं में भी एकत्व-
व्यवहार तब होता है, जब कि वे मिलकर प्रावरण (शरीराच्छादनरूप) एक अर्थक्रिया
कार्यकारणयोरभेदः ] हिन्दीसहितभामतीसंवलितम् ५८७
मात्रं चेत्यनुमेयम् ( छा० ४।६।४ ) । ततः परं ब्रह्मैकमेवाद्वितीयं, तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥ १५ ॥
सत्त्वाच्चावरस्य ॥ १६ ॥
इतश्च कारणात्कार्यस्यानन्यत्वं, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते— 'सदेव सोम्येदमग्र आसीत्' ( छा० ६।२।१ ), 'आत्मा वा इदमेक एवाग्र आसीत्' ( ऐ० आ० २।४।१।१ ) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् । यच्च यदात्मना यन्न वर्तते न तत्तत उत्पद्यते,
भामती
धवखदिरपलाशादयो बहवोऽपि वनमिति । अर्थक्रियायाञ्च प्रत्येकमसमर्था अप्यनारभ्यैवार्थान्तरं किञ्चि-न्मिलिताः कुर्वन्तो दृश्यन्ते, यथा ग्रावाण उखाधारणमेकम्, एवमनारभ्यैवार्थान्तरं तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति । न च समवायाद्द्वयोरपि भेदानवसायः इति साम्प्रतम्, अन्यो-न्याश्रयत्वात् — भेदे हि सिद्धे समवायः समवायाच्च भेदः । न च भेदे साधनान्तरमस्ति, अर्थक्रियाव्यप-देशभेदयोरभेदेऽप्युपपत्तेरित्यपपादितम् । तस्माद्यत्किञ्चिदेतत् । अनया च विशा मूलकारणं ब्रह्मैव परमा-र्थसद्ववान्तरकारणानि च तन्त्वादयः सर्वेऽनिर्वच्या एवेत्याह ॐ तथा तन्तुषु इति ॐ ॥ १५ ॥
विभजते ॐ इतश्च इति ॐ । न केवलं श्रुतिः, उपपत्तिश्चात्र भवति ॐ यच्च यदात्मना इति ॐ । नहि तैलं सिकतात्मना सिकतायामस्ति, यथा घटोऽस्ति मृदि मृदात्मना । प्रत्युत्पन्नो हि घटो मृदात्मनो-
भामती-व्याख्या
( प्रयोजन ) का निष्पादन करते हैं, जैसे कि धव, खदिर और पलाशादि अनेक वृक्षों में ही 'वनम्'—इस प्रकार एकत्व-व्यवहार उनकी अवच्छेदकीभूत एक देश-कालरूप उपाधि को लेकर हो जाता है, वैसे ही अनेक तन्तुओं में प्रावरणरूप एक अर्थक्रिया की अपेक्षा 'अयमेकः पटः'—ऐसा व्यवहार माना जाता है। यद्यपि प्रत्येक तन्तु प्रावरणरूप प्रयोजन की सिद्धि में सक्षम नहीं होता, तथापि अनेक मिले हुए तन्तु पटादिरूप कार्यान्तर को उत्पन्न किए बिना ही प्रावरणरूप कार्य का सम्पादन वैसे ही कर लेंगे, जैसे कि अनेक पत्थर मिलकर ( चूल्हे का रूप धारण कर ) उखा ( हाँडी या बटलोई ) को धारण करते हैं। 'यद्यपि तन्तुओं से पट भिन्न है, तथापि दोनों के मध्य में समवाय होने के कारण भेद का भान नहीं हो पाता'—ऐसा मानने पर अन्योन्याश्रय दोष प्रसक्त होता है, क्योंकि कार्य और कारण में भेद सिद्ध होने पर समवाय सम्बन्ध सिद्ध होगा और समवाय सिद्ध होने पर भेद। कार्य और कारण के भेद-साधन में अन्य कोई हेतु सम्भव नहीं। 'तन्तु को कोई सुई में डाल कर सिलाई के काम में लाते हैं, पट को नहीं और पट ओढ़ने-बिछाने के काम आता है, तन्तु नहीं'—इस प्रकार का अर्थक्रिया-भेद एवं 'इमे तन्तवः', 'अयं पटः' —इस प्रकार का व्यपदेश-भेद ( विशेष शब्दों का प्रयोग ) भी तन्तु और पट का भेद सिद्ध नहीं कर सकता, क्योंकि एक ही वस्तु उपाधि-विशेष से उपहित होकर भिन्न-भिन्न कार्यों का सम्पादन करती है—यह कहा जा चुका है। [ सांख्यतत्त्वकौमुदी में भी कहा है—"स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाभेदाश्च नैकान्तिकं भेदं साधयितुमर्हन्ति, एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषाम-विरोधात्" ( सां. त. कौ. का. ९ ) ]। इस विचार के द्वारा यह सिद्ध होता है कि मूल कारण एक ब्रह्म वस्तुसत् है, तन्त्वादिरूप सभी अवान्तर कारण अनिर्वचनीय हैं—"तथा तन्तुषु अंशवोंऽशुषु तदवयवाः" ॥ १५ ॥
"सत्त्वाच्चावरस्य"—इस सूत्र की व्याख्या की जाती है—"इतश्च कारणात् कार्यस्यान-न्यत्वम्" । केवल श्रुति अनन्यत्व की साधिका नहीं, अपितु युक्ति भी है—"यच्च यदात्मना यत्र
| ५८८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १६ |
|---|
यथा सिकताभ्यस्तैलम् । तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते । यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति, एवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति । एकं च पुनः सत्त्वमतोऽप्यनन्यत्वं कारणात्कार्यस्य ॥ १६ ॥
भामती
पलभ्यते, नैवं प्रत्युत्पन्नं तैलं सिकतात्मना । तेन यथा सिकतायाः तैलं न जायत एवमात्मनोऽपि जगन्न जायेत, जायते च, तस्मादात्मात्मनाऽऽसीदिति गम्यते । उपपद्यन्तरमाह ॐ यथा च कारणं ब्रह्म इति ॐ । यथा हि घटः सर्वदा सर्वत्र घट एव न जात्वसौ क्वचित् पटो भवत्येवं सदपि सर्वत्र सर्वदा सदेव न तु क्वचित् कदाचिदसद्भवितुमर्हतीत्युपपादितमधस्तात् । तस्मात् कार्यं त्रिष्वपि कालेषु सदेव । सत्त्वं चेत् किमतस्तयोरेवमित्यत आह ॐ एकञ्च पुनः इति ॐ । सत्त्वं चैकं कार्यकारणयोः, नहि प्रतिव्यक्ति सत्त्वं भिद्यते, ततश्चाभिन्नसत्तान्वयवादेते अपि मिथो न भिद्येते इति । न च ताभ्यामनन्यत्वात् सत्त्वस्यैव भेद इति युक्तम् । तथा सति हि सत्त्वस्य समारोपितत्वप्रसङ्गः । तत्र भेदाभेदयोरन्यतरसमारोपकल्पनायां किं तात्त्विकाभेदोपादाना भेदकल्पनास्त्वाहो तात्त्विकभेदोपादानाभेदकल्पनेति । वयं तु पश्यामो भेदग्रहस्य प्रतियोगिग्रहापेक्षत्वाद्द्वेदग्रहमन्तरेण च प्रतियोगिग्रहासम्भवादन्धोऽन्याश्रयापत्तेः, अभेदग्रहस्य च निरपेक्षतया तदनुपपत्तेः, एकैकाश्रयत्वाच्च भेदस्यैकाभावे तदनुपपत्तेः, अभेदग्रहोपादानैव भेदकल्पनेति सर्वमवदातम् ॥ १६ ॥
भामती-व्याख्या
न वर्तते, न तत् तत उत्पद्यते”। तेल बालू में तादात्म्येन नहीं रहता, अतः बालू से तेल उत्पन्न नहीं होता । घट मृत्तिका में मृत्तिकात्वेन रहता है, अतः वह मृत्तिका से उत्पन्न होता देखा जाता है । यही कारण है कि वर्तमान घट मृत्तिकात्वेन उपलब्ध होता है, किन्तु वर्तमान तेल सिकतात्वेन उपलब्ध नहीं होता । फलतः जैसे सिकता (बालू) से तैल उत्पन्न नहीं होता, वैसे ही आत्मा से भी आकाशादि प्रपञ्च उत्पन्न नहीं हो सकता था, किन्तु उत्पन्न होता है, अतः प्रपञ्च आत्मरूपेण आत्मा में अवस्थित था—ऐसी अवगति (अनुमिति) होती है । इसी अर्थ की पुष्टि के लिए अन्य युक्ति दिखाते हैं—“यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति एवं कार्यमपि”। जैसे कि घट सर्वदा सर्वत्र घट ही है, वह कभी पट नहीं होता, वैसे ही सत् पदार्थ सदैव सत् ही रहेगा, कभी असत् नहीं हो सकता—ऐसा पहले कहा जा चुका है । इससे यह सिद्ध हो गया कि कार्य प्रपञ्च तीनों कालों में सत् ही है । कार्य का सत्त्व मान लेने से क्या लाभ ? इस प्रश्न का उत्तर है—“एकं च पुनः सत्त्वमतोऽप्यनन्यत्वं कारणात्कार्यस्य”। कार्य और कारण में सत्त्व एक ही है, प्रत्येक व्यक्ति में सत्त्व भिन्न-भिन्न नहीं रहता, इस लिए अभिन्न (एक) सत्ता से अभिन्न होने के कारण कार्य और कारण परस्पर भिन्न नहीं हो सकते । ‘कार्य और कारण भिन्न हैं, अतः भिन्न पदार्थों से अभिन्न होने के कारण सत्त्व का ही भेद क्यों न मान लिया जाय ?’ इस शङ्का का समाधान यह है कि वैसा मानने पर सत्त्व में समारोपितत्व प्रसक्त होगा, क्योंकि तब यह विकल्प उठ खड़ा होता है कि भेद और अभेद—इन दोनों में से एक के समारोप की कल्पना में क्या तात्त्विक अभेद में भेद की कल्पना (आरोप) की जाय ? अथवा तात्त्विक भेद में अभेद की कल्पना की जाय ? हम अद्वैतवेदान्तियों का दृष्टिकोण यह है कि भेद-ज्ञान अपने प्रतियोगियों के ज्ञान पर निर्भर है, क्योंकि प्रतियोगियों के ज्ञान के बिना भेद-ज्ञान सम्भव नहीं, इस प्रकार अन्योऽन्याश्रय दोष हो जाता है, अतः अभेद में ही भेद की कल्पना माननी उचित है। अभेद-ज्ञान निरपेक्ष है, अतः अन्योन्याश्रयता नहीं । एक-एक व्यक्ति के आश्रित भेद रहता है, अतः भेद को एकत्व या अभेद की नियमतः अपेक्षा है, अतः अभेद-ग्रह में ही भेद की कल्पना न्याय-
सत्कार्यवादः ] | हिन्दीसहितभामतीसंवलितम् | ५८९
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥
ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः—‘असदेवेदमग्र आसीत्’ (छा० ३।१९।१) इति, ‘असद्वा इदमग्र आसीत्’ (तै० २।७।१) इति च । तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत्, नेति ब्रूमः,—न ह्ययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः, किं तर्हि ? व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य । कथमेतदवगम्यते ? वाक्यशेषात् । यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषात्निश्चीयते । इह च तावत् ‘असदेवेदमग्र आसीद्’ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परामृश्य सदिति विशिनष्टि ‘तत्सदासीत्’ इति । असतश्च पूर्वापरकालासंबंधादासीच्छब्दानुपपत्तेश्च । ‘असद्वा इदमग्र आसीद्’ इत्यत्रापि ‘तदात्मानं स्वयमकुरुत’ इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् । तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य । नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् । अतः प्राङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते ॥ १७ ॥
युक्तेः शब्दान्तराच्च ॥ १८ ॥
युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च । युक्तिस्तावद्वर्ण्यते—दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते । न हि दध्यर्थिभिर्मृत्तिकोपादीयते, न घटार्थिभिः क्षीरं, तदसत्कार्यवादे नोपपद्येत । अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते ? न मृत्तिकायाः ? मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात् । अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत, तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च । शक्तिश्च कारणस्य कार्यनियमार्था
भामती
व्याकृतत्वाव्याकृतत्वे च धर्मावनिर्वचनीयौ । सूत्रमेतन्निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ १७ ॥
ॐ अतिशयवत्त्वात्प्रागवस्थायाः इति ॐ । अतिशयो हि धर्मो नासत्यतिशयवति कार्ये भवितुमर्हतीति । ननु न कार्यस्यातिशयो नियमहेतुरपि तु कारणस्य शक्तिभेदः, स चासत्यपि कार्ये कारणस्य
भामती-व्याख्या
संगत है । मण्डनमिश्र भी कहते हैं— “अभेदोपादानो भेदः” (ब्र० सि० पृ० ७०) ॥ १६ ॥
श्रुतियों में जो कार्य प्रपञ्च को कभी असत् कहा गया है—"असद्वा इदमग्र आसीत्”, (तै. उ. २।७।१) । वहाँ असत्त्वका अर्थ अव्याकृतत्व (अनभिव्यक्तत्व) है । जगत् अव्याकृत से व्याकृत होता है । व्याकृतत्व और अव्याकृतत्व—दोनों धर्म अनिर्वचनीय माने जाते हैं । शेष भाष्य अत्यन्त सुगम है ॥ १७ ॥
[ सांख्याचार्यों ने जिन असदकरण, उपादान-ग्रहण, सर्वसम्भवाभाव, शक्ताच्छक्योत्पत्ति, कारणात्मत्वादि युक्तियों के द्वारा सत्कार्यवाद की सिद्धि की है । सम्भवतः सूत्रकार ने उन्हीं युक्तियों का स्मरण यहाँ किया है—"युक्तेः" ] । दूध से दधि बनता है, मृत्तिका से नहीं, अतः दधि की पूर्वावस्था दूध में सत् मानी जाती है, फलतः असत्कार्यवाद की हानि और सत्कार्यवाद की सिद्धि होती है, क्योंकि मृत्तिका से दूध में जो विशेषता या अतिशय है, वह एक ऐसा धर्म है, जो कि दधि की पूर्वावस्था में ही रहेगा । 'यदि कहा जाय कि कार्य की पूर्वावस्था दूध से ही दधि होने का नियामक नहीं, अपितु कारण की शक्ति नियामक है,
५९० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. १८
कल्प्यमाना नान्याऽसती वा कार्यं नियच्छेत् , असत्त्वाविशेषादन्यत्वाविशेषाच्च । तस्मा-
त्कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्यम् । अपि च कार्यकारणयोर्द्रव्यगुणादीनां
चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् । समवायकल्पनायामपि, समवा-
यस्य समवायिभिः संबन्धेऽभ्युपगम्यमाने, तस्य तस्यान्योऽन्यः संबन्धः कल्पयितव्य
इत्यनवस्थाप्रसङ्गः । अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः । अथ समवायः स्वयं संबन्ध-
रूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्येत, संयोगोऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैव
भामती
सत्त्वासन्नेवेष्यत आह ॐ शक्तिश्च इति ॐ । नान्या कार्यकारणाभ्यां, नाप्यसती कार्यान्मनेति योजना ।
ॐ अपि च कार्यकारणयोः इति ॐ । यद्यपि भावाच्चोपलब्धेरित्यत्रायमर्थं उक्तस्तथापि समवायदूषणाय
पुनरवतारितः । अनभ्युपगम्यमाने च समवायस्य समवायिभ्यां सम्बन्धे विच्छेदप्रसङ्गोऽवयवावयविद्रव्य-
गुणादीनां मिथः । नह्यसम्बद्धः समवायिभ्यां समवायः समवायिनौ सम्बन्धयेदिति । शङ्कते ॐ अथ
समवायः स्वयम् इति ॐ । यथा हि सत्त्वयोगाद् द्रव्यगुणकर्माणि सन्ति, सत्त्वं तु स्वभावत एव सदिति न
सत्त्वान्तरयोगमपेक्षते, तथा समवायः समवायिभ्यां सम्बद्धं न सम्बन्धान्तरयोगमपेक्षते, स्वयं सम्बन्धरूप-
त्वादिति, तदेतत्सिद्धान्तान्तरविरोधापादनेन निराकरोति ॐ संयोगोऽपि तर्हि इति ॐ । न च संयोगस्य
भामती-व्याख्या
वह शक्ति कार्य के असत् होने पर भी कारण में रहती है' तब के लिए कहा गया है— शक्तिश्च
कारणस्य" । अर्थात् वह शक्ति न तो कार्य और कारण से भिन्न हो सकती है और न कार्य
के असत् होने पर उपपन्न हो सकती है। “अपि च कार्यकारणयोः” । यद्यपि कार्य और
कारण का तादात्म्य "भावाच्चोपलब्धेः” –इस पन्द्रहवें सूत्र में कहा जा चुका है, तथापि
समवाय सम्बन्ध का निरास करने के लिए तादात्म्य का पुनः पुष्टीकरण कर दिया गया है।
"अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः" –इस भाष्य का आशय यह है कि समवाय सम्बन्ध
का अपने सम्बन्धियों के साथ सम्बन्धान्तर मानने पर अनवस्था और सम्बन्धान्तर न मानने
पर समवाय के अवयव-अवयवी और गुण-द्रव्यादि संबंधियों का परस्पर विच्छेद प्रसक्त होता है।
[पट और तन्तु --इन दोनों के साथ एक समवाय का सम्बन्ध माना जाता है, तब समवाय के
द्वारा सम्बन्धित पट और तन्तुओं में 'पटवन्तः तन्तवः' या 'पटविशिष्टाः तन्तवः' --इस प्रकार
विशिष्ट ज्ञान सम्पन्न हो जाता है किन्तु समवाय का पटादि कार्य और तन्तुवादि कारण से
सम्बन्ध न मानने पर कार्य और कारण में विशिष्ट बुद्धि नहीं होगी, क्योंकि ] समवाय
सम्बन्ध अपने कार्य और कारणादिरूप सम्बन्धियों से असम्बद्ध होकर उनको परस्पर
सम्बन्धित नहीं कर सकता।
शङ्का –समवाय स्वयं सम्बन्धरूप होने के कारण सम्बन्धान्तर की अपेक्षा के विना
वैसे ही अपने सम्बन्धियों में विशिष्टता-ज्ञान का जनक हो जाता है, जैसे द्रव्य, गुण और कर्म
में सत्ता जाति के सम्बन्ध से सत्त्व-बुद्धि होती है, किन्तु सत्ता में सत्तान्तर-सम्बन्ध के विना
ही 'सत्' बुद्धि हो जाती है।
समाधान –उक्त शङ्का का निराकरण भाष्यकार ने सिद्धान्तान्तर-विरोध की शैली पर
किया है-“संयोगोऽपि तर्हि” [अर्थात् नैयायिकों का यह भी कहना है कि संयोग सम्बन्ध
अपने सम्बन्धियों में समवाय सम्बन्ध से रह कर अपने सम्बन्धियों को परस्पर सम्बन्धित
करता है। यहाँ सिद्धान्ती का कहना यह है कि यदि समवाय सम्बन्ध अपने सम्बन्धियों के
साथ सम्बन्धान्तर की अपेक्षा के विना ही अपने सम्बन्धियों में परस्पर वैशिष्ट्य-ज्ञान का
जनक हो जाता है, तब संयोग सम्बन्ध भी अपने सम्बन्धियों के साथ समवाय सम्बन्ध के
समवायनिरासः ] हिन्दीसहितभामतीसंबलितम् ५९१
समवायं संबध्नीयेत । तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनाऽनर्थक्यम् । कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते ? किं समस्तेष्ववयवेषु वर्तेत,
भामती
कार्यत्वात् कार्यस्य च समवायिकारणाधीनजन्मकत्वात् असमवाये च तदनुपपत्तेः समवायकल्पना संयोग इति वाच्यम् । अजसंयोगे तदभावप्रसङ्गात् । अपि च सम्बन्ध्यधीननिरूपणः समवायो यथा सम्बन्धिद्वयभेदे न भिद्यते तन्नाशे च न नश्यत्यपि तु नित्य एक एव, एवं यदि संयोगोऽपि भवेत् ततः को दोषः ? अथैतत्प्रसङ्गभिया संयोगवत्समवायोऽपि प्रतिसम्बन्धिमिथुनं भिद्यते चानित्यश्चेत्यभ्युपेयते, तथा सति यथैकस्मान्निमित्तकारणादेव जायत एवं संयोगोऽपि निमित्तकारणादेव जनिष्यत इति समानम् । ॐ तादात्म्यप्रतीतेश्च इति ॐ । सम्बन्धावगमो हि सम्बन्धकल्पनाबीजं न तादात्म्यावगमस्तस्य नानात्वैकाश्रयसम्बन्धविरोधादिति । वृत्तिविकल्पेनावयवातिरिक्तमवयविनं दूषयति ॐ कथञ्च कार्यम् इति ॐ । ॐ समस्त
भामती-व्याख्या
विना ही अपने सम्बन्धियों को परस्पर सम्बन्धित कर सकता, फलतः समवाय की सिद्धि ही न हो सकेगी ] । यदि नैयायिक यह कहता है कि संयोग एक जन्य पदार्थ है, जन्य पदार्थ सदैव अपने समवायिकारण के अधीन होता है, उसका समवाय सम्बन्ध न मानने पर समवायिकारण के विना संयोग की उपपत्ति क्योंकर होगी ? इस शङ्का का निरास करता हुआ सिद्धान्ती कहता है कि दो विभु पदार्थों का संयोग नित्य माना जाता है, जन्य नहीं, वह संयोग जैसे समवायिकरण के विना उपपन्न हो जाता है, वैसे ही सामान्य संयोग भी उपपन्न हो जायगा, समवाय मानने की आवश्यकता क्या ?
दूसरी बात यह भी है कि “द्विष्ठसम्बन्धसंवित्तिर्नैकरूपप्रवेदनात्” (प्रज्ञाकरभा. पृ. ४) इस न्याय के आधार पर समवाय सम्बन्ध भी अपने दोनों सम्बन्धियों के स्वभाव पर निर्भर है। दोनों सम्बन्धियों में परस्पर भेद है, किन्तु समवाय एक है, वह भिन्न नहीं होता। सम्बन्धियों के नष्ट हो जाने पर भी नष्ट नहीं होता, क्योंकि नित्य माना जाता है। इसी प्रकार यदि संयोग संबन्ध को मान लिया जाता है, तब क्या दोष ? यदि इस समान प्रसङ्ग ( प्रतिबन्दी ) के भय से संयोग के ही समान समवाय को भी सम्बन्धी के भेद से भिन्न और अनित्य मान लिया जाता है, तब अनवस्था-प्रसङ्ग से बचने के लिए समवाय को समवायिकारण के अधीन न मान कर केवल निमित्तकारण से ही उत्पन्न माना जा सकता है और उसी प्रकार संयोग भी केवल निमित्तकारण से उत्पन्न हो जायगा—इस प्रकार समान-प्रसङ्ग का घेराव बना ही रहता है।
“तादात्म्यप्रतीतेश्च द्रव्यगुणादीनाम्”- इस भाष्य का आशय यह है कि दो पदार्थों में जब 'सम्बद्धौ' इस प्रकार संबन्ध की प्रतीति होती है, तब उस प्रतीति के आधार पर संबन्ध की कल्पना की जाती है, किन्तु तादात्म्य की प्रतीति संबन्ध की साधिका नहीं, प्रत्युत पदार्थों में नानात्व और संबन्ध की विरोधिनी है, क्योंकि तादात्म्यापन्न पदार्थ नाना नहीं, एक होता है और एक पदार्थ में संबन्ध होता नहीं, संबन्ध सदैव अनेक पदार्थों का ही होता है, फलतः तादात्म्य नानात्वसमानाधिकरणभूत संबन्ध का विरोधी है।
जिस अवयवी पदार्थ का अवयवों में समवाय माना जाता है, वह अवयवी प्रत्येक अवयव में रहता है ? अथवा अनेक अवयवों में ? इस प्रकार उसकी वृत्तित्ता का विकल्प उठा कर अवयवी का निरास किया जाता है-“कथं च कार्यमवयविद्रव्यम्”। समस्त अवयवों में रहनेवाले वृक्षादि अवयवी की उपलब्धि नहीं हो सकती, क्योंकि वृक्षादि के मध्य और पिछले भाग के अवयवों का द्रष्टा के इन्द्रिय से सम्बन्ध नहीं होता, क्योंकि वे अवयव साम्मुखीन
| ५९२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १८ |
|---|
उत प्रत्यवयवम् ? यदि तावत्समस्तेषु वर्तेत, ततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्याशक्यत्वात् । न हि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते । अथावयवशः समस्तेषु वर्तेत, तदाप्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्येरन्, यैरारम्भकेष्ववयवेष्ववयवशोऽवयवी वर्तेत, कोशावयवव्यतिरिक्कैरंशावयवैरसिः कोशं व्याप्नोति । अनवस्था चैवं प्रसज्येत, तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषामवयवानां कल्पनीयत्वात् । अथ प्रत्यवयवं वर्तेत तदैकत्र व्यापारेऽन्यत्राव्यापारः स्यात् । न हि देवदत्तः स्रुघ्ने संनिधीयमानस्तदहरेव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसत्कार्यवादः ] | हिन्दीसहितभामतीसंवलितम् | ५९३
प्रतीत्यभावात् । यदि गोत्वादिवत्प्रत्येकं परिसमाप्तोऽवयवी स्यात्, यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यत एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत । नचैवं नियतं गृह्यते । प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात्तस्य चैकत्वाच्छृङ्गेणापि स्तनकार्यं कुर्यादुरसा च पृष्ठकार्यम् । न चैवं दृश्यते । प्रागुत्पत्तेश्च कार्यस्यासत्त्व उत्पत्तिरकत्र्तृका निरात्मिका च स्यात् । उत्पत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति, गत्यादिवत् । क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिध्येत । घटस्य चोत्पत्तिरुच्यमाना
भामती
विशेषा अनिर्वाच्या न परमार्थसन्तस्तथा च क्वास्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ५९४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ २ पा. १ सू. १८ |
|---|
न घटकर्तृका, किं तर्हि ? अन्यकर्तृकेति कल्प्या स्यात् । तथा कपालादीनामप्युत्पत्ति-
रुच्यमानाऽन्यकर्तृकैव कल्प्येत । तथा च सति घट उत्पद्यत इत्युक्ते कुलालादीनि
कारणान्युत्पद्यन्त इत्युक्तं स्यात् । न च लोके घटोत्पत्तिरित्युकते कुलालादीनामप्युत्प-
द्यमानता प्रतीयते, उत्पन्नताप्रतीतेश्च । अथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरात्मला-
भश्च कार्यस्येति चेत्, कथमलब्धात्मकं संबध्येतेति वक्तव्यम् ? सतोर्हि द्वयोः
संबन्धः संभवति, न सदसतो रसतोर्वा, अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति
भामती
घटमुत्पद्यत इत्यपि प्रसङ्गात् । तस्मात् करोतिकारयत्योरिव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसत्कार्यवादः ] हिन्दीसहितभामतीसंवलितम् ५९५
मर्यादाकरणमनुपपन्नम् । सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा, नाभावस्य । न हि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन मर्यादाकरणेन, निरुपाख्यो वन्ध्यापुत्रो राजा बभूव भवति भविष्यतीति वा विशेष्यते । यदि च वन्ध्यापुत्रोऽपि कारकव्यापारादूर्ध्वमभविष्यत्तत इदमप्युपापत्स्यत—कार्याभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीति । वयं तु पश्यामो वन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषाद्यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यत्येवं कार्याभावोऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति । नन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत । यथैव हि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ५९६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १८ |
|---|
कारणस्यात्मभूत एवान्यात्मभूतस्यानारभ्यत्वादित्यभाणि । न च विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति । नहि देवदत्तः संकोचितहस्तपादः प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् । तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् । जन्मोच्छेदान्तरितत्वात्तन्न युक्तं नान्यत्रेति चेत्, न; क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् । अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसत्कार्यवादः ] | हिन्दीसहितभामतीसंवलितम् | ५९७
प्रागुत्पत्तेः सत्त्वमनन्यत्वं च कारणादवगम्यते शब्दान्तराच्चैतदवगम्यते । पूर्वसूत्रेऽसद्द्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोऽन्यः सद्द्व्यपदेशी शब्दः शब्दान्तरम्—'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्यादि । 'तद्धैक आहुरसदेवेदमग्र आसीद्' इति चासत्पक्षमुपक्षिप्य 'कथमसतः सज्जायेत' इत्याक्षिप्य 'सदेव सोम्येदमग्र आसीद्' (छा० ६।२।१) इत्यवधारयति । तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिद्ध्यतः । यदि तु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in