भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
About this granth
Bhamati (भामती) is one of the foundational sub-commentaries of Advaita Vedanta. Vachaspati Mishra, the ninth or tenth century scholar from Mithila, wrote it on Shankara's commentary (Shariraka Mimamsa Bhashya) on Badarayana's Brahma Sutras; tradition says he named it after his wife. It gave its name to the Bhamati school of Advaita, which differs from the Vivarana school on questions such as the locus of ignorance.
This volume concentrates on the opening section known as the Chatussutri, the first four sutras from 'athato brahmajijnasa' to 'tat tu samanvayat'. Shankara's preamble on superimposition (adhyasa) and his commentary on these four sutras are treated as the groundwork of the whole system, so students of Vedanta spend the most time here.
The edition prints the sutras, Shankara's bhashya, the Bhamati and a detailed Hindi exposition by Swami Yogindrananda, an Udasin monk and disciple of Swami Rishiram. It is part one in the Vidyabhawan Prachyavidya Granthamala (no. 12) of Chowkhamba Vidyabhawan, Varanasi; the scan, of the 2005 printing, runs to 639 pages.
३३६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. ८
'एष तु वा अतिवदति यः सत्येनातिवदति' इति प्राणव्रतमतिवादित्वमनुकृष्यापरि-
त्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्प्राणमेव भूमानं मन्यत इति गम्यते ।
कथं पुनः प्राणे भूमनि व्याख्यायमाने 'यत्र नान्यत्पश्यति' इत्येतद् भूम्नो लक्षणपरं
वचनं व्याख्यायेतेति ? उच्यते—सुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यव-
हारनिवृत्तिदर्शनात्सम्भवति प्राणस्यापि 'यत्र नान्यत्पश्यति' इत्येतल्लक्षणम् । तथा
च श्रुतिः 'न शृणोति न पश्यति' इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्य-
वस्थामुक्तवा 'प्राणाग्नय एवैतस्मिन्पुरे जाग्रति' ( प्र० ४।२।३ ) इति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inभूम्नो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३७
तदपि प्राणस्याविरुद्धं, 'प्राणो वा अमृतम्' (कौ० ३।२) इति श्रुतेः। कथं पुनः प्राणं भूमानं मन्यमानस्य 'तरति शोकमात्मवित्' इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते ? प्राण एवेहात्मा विवक्षित इति ब्रूमः। तथा हि—'प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः' (छा० ७।१५।१) इति प्राणमेव सर्वात्मानं करोति। यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितम्' इति च सर्वात्मत्वारनाभिनिदर्शनाभ्यां च संभवति वैपुल्यात्मिका भूमरूपता प्राणस्य। तस्मात्प्राणो भूमेत्येवं प्राप्तम्।
तत इदमुच्यते—परमात्मैवेह भूमा भवितुमर्हति, न प्राणः। कस्मात् ?
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३३८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ८ |
|---|
स्यात् । नहि नामैव नाम्नो भूय इति नाम्न ऊर्ध्वमुपदिष्टम् । किं तर्हि ? नाम्नोऽन्य-
दर्थान्तरमुपदिष्टं वागाख्यम् 'वाग्वाव नाम्नो भूयसी' इति । तथा वागादिभ्योऽप्या
प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम् , तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणा-
दर्थान्तरभूतो भवितुमर्हति । नन्विह नास्ति प्रश्नः- 'अस्ति भगवः प्राणाद् भूयः'
इति । नापि प्रतिवचनमस्ति प्राणाद्वाव भूयोऽस्तीति, कथं प्राणादधि भूमोपदिश्यत
इत्युच्यते ? प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः- 'एष तु वा
अतिवदति यः सत्येनातिवदति' इति । तस्मान्नास्ति प्राणादध्युपदेश इति । अत्रो-
च्यते- न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inभूम्नो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३९
नेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् 'एष तु वा अतिवदति यः सत्येनातिवदति' इति। तत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात्। 'सत्यं ज्ञानमनन्तं ब्रह्म (तै० २।१) इति च श्रुत्यन्तरात्। तथा व्युत्पादिताय नारदाय 'सोऽयं भगवः सत्येनातिवदानि' इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमान-मुपदिशति। तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम्, तदेवेह भूमेत्युच्यत इति गम्यते। तस्मादस्ति प्राणादधि भूम्न उपदेश इत्यतः प्राणादन्यः परमात्मा भूमा भवितुमर्हति। एवं चेहात्मविविदिषया
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. १०
कं पश्येत्' (बृ० ४।३।१५) इत्यादिश्रुत्यन्तरात्। योऽप्यसौ सुषुप्तावस्थायां दर्शना-
दिव्यवहाराभाव उक्तः सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तो न प्राणस्वभावविवक्षया,
परमात्मप्रकरणात्। यदपि तस्यामवस्थायां सुखमुक्तं, तदप्यात्मन एव सुखस्वरूपत्वविव-
क्षयोक्तम्। यत आह—'एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि
मात्रामुपजीवन्ति' (बृ० ४।३।३२) इति। इहापि 'यो वै भूमा तत्सुखं नाल्पे सुखमस्ति
भूमैव सुखम्' इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअक्षरस्य ब्रह्मत्वम् ]
हिन्दीसहितभामतीसंवलितम्
३४१
भामती
सर्वस्यैव रूपधेयस्य नामधेयात्मकत्वात् । सर्वं हि रूपधेयं नामधेयसम्भिन्नमनुभूयते, गौरयं वृक्षोऽयमिति । न चोपायत्वात्तत्सम्भेदसम्भवः । नहि धूमोपाया वह्निधीर्धूमसम्भिन्नं वह्निमवगाहते, धूमोऽयं वह्निरिति, किन्तु वैयधिकरण्येन धूमाद् वह्निरिति । भवति तु नामधेयसम्भिन्नो रूपधेयप्रत्ययो डित्थोऽयमिति । अपि च शब्दानुपायेऽपि रूपधेयप्रत्यये लिङ्गेन्द्रियजन्मनि नामसम्भेदो दृष्टः । तस्मान्नामसम्भिन्नाः पृथिव्यादयोऽम्बराान्ता नाम्ना प्रथिताश्च विद्वाश्च, नामानि चोङ्कारात्मकानि तद्व्याप्तत्वात् । तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णानि एवमोङ्कारेण सर्वा वागिति श्रुतेः । अत
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३४२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १०
**एवं प्राप्त उच्यते— पर एवात्माऽक्षरशब्दवाच्यः। कस्मात्? अम्बरात्तधृतेः— पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्। तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्य 'आकाश एव तदोतं च प्रोतं च' इत्याकाशे प्रतिष्ठितत्वमुक्त्वा 'कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च' इत्यनेन प्रश्नेनेदमक्षरमवतारितम्। तथा चोपसंहृतम्— 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' इति। न चेयमम्बरात्तधृतिर्ब्रह्मणोऽन्यत्र संभवति। यदपि 'ॐकार एवेदं सर्वम्' इति, तदपि ब्रह्मप्रतिपत्तिसाधनत्वात् स्तुत्यर्थं द्रष्टव्यम्। तस्मान्न क्षरत्यश्नुते चेति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| अक्षरस्य ब्रह्मत्वम् ] | हिन्दीसहितभामतीसंवलितम् | ३४३ |
|---|
भामती
संज्ञा तु गृहीतसम्बन्धैरत्यन्ताभ्यासात् पिण्डाभिनिवेशिन्येव संस्कारोद्बोधसम्पातायाता स्मर्यते । यथाहूः—
'यत्तत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।
पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥
संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ॥' इति ।
न च वर्णातिरिक्ते स्फोटात्मनि अलौकिकेऽक्षरपदप्रसिद्धिरस्ति लोके । न चैष प्रामाणिक इत्युपरिष्टात् प्रवेदयिष्यते । निरूपितं चास्माभिस्तत्त्वबिन्दौ ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३४४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ११ |
|---|
स्यादेतत्—कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते, प्रधानकार-
णवादिनोऽपीयमुपपद्यते । कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति ?
अत उत्तरं पठति —
सा च प्रशासनात् ॥ ११ ॥
सा चाम्बरान्तधृतिः परमेश्वरस्यैव कर्म । कस्मात् ? प्रशासनात् । प्रशासनं
भामती
नेन सूत्रेण परमात्मैवाक्षरमिति सिद्धान्तयन्ति, तैरम्बरान्तधृतेरित्यनेन कथं प्रधानं निराक्रियत इति
वाच्यम् । अथ नाधिकरणत्वमात्रं धृतिः अपि तु प्रशासनाधिकरणता । तथा च श्रुतिः— 'एतस्य वाक्षरस्य
प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इति ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअक्षरस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३४५
हीह श्रूयते-‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ० ३।८।९) इत्यादि । प्रशासनं च पारमेश्वरं कर्म । नाचेतनस्य प्रधानस्य प्रशासनं भवति । न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥११॥
अन्यभावव्यावृत्तेश्च ॥ १२ ॥
अन्यभावव्यावृत्तेश्च कारणाद् ब्रह्मैवाक्षरशब्दवाच्यम् । तस्यैवाम्बरात्तधृतिः कर्म नान्यस्य कस्यचित् । किमिदमन्यभावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः, तस्माद् व्यावृत्तिरन्यभावव्यावृत्तिरिति । एतदुक्तं भवति-यदन्यद् ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावादिदमम्बरात्तविधारणमक्षरं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३४६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १३ |
|---|
निरुपाधिकः शारीरो नाम भवति । तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥
( ४ ईक्षतिकर्मव्यपदेशाधिकरणम् । सू० १३ )
ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति' इति प्रकृत्य श्रूयते—'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत' (प्र० ५।२, ५) इति ।
किमिस्मिन्वाक्ये परं ब्रह्माभिध्यातव्यमुपदिश्यते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inईक्षणीयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३४७
इत्येवं प्राप्तेऽभिधीयते परमेव ब्रह्महाभिध्यातव्यमुपदिश्यते । कस्मात् ? ईक्षतिकर्मव्यपदेशात् । ईक्षतिर्दर्शनम् । दर्शनव्याप्यमी क्षतिकर्म । ईक्षतिकर्मत्वेनास्याभि-ध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति—'स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते' इति । तत्राभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति; मनोरथकल्पित-स्याप्यभिध्यायतिकर्मत्वात् । ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टमित्यतः परमा-
भामती
यत्त्वेन प्रसिद्धेः परस्यैव ब्रह्मणस्तथाभावाद् ध्यायतेश्च तेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३४८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १३ |
|---|
त्मैवायँ सम्यग्दर्शनविषयभूत ईक्षितिकर्मत्वेन व्यपदिष्ट इति गम्यते । स एव चेह पर-
पुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञायते । नन्वभिध्याने परः पुरुष उक्तः, ईक्षणे तु
परात्परः, कथमितर इतरत्र प्रत्यभिज्ञायत इति ? अत्रोच्यते—परपुरुषशब्दौ तावदुभ-
यत्र साधारणौ । नचात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते,
येन तस्मात्परात्परोऽयमीक्षितव्यः पुरुषोऽन्यः स्यात् । कस्तर्हि जीवघन इति ?
उच्यते—घनो मूर्तिः । जीवलक्षणो घनो जीवघनः । सैन्धवखिल्यवद्यः परमात्मनो
जीवरूपः खिल्यभाव उपाधिकृतः परश्च विषयेन्द्रियेभ्यः सोऽत्र जीवघन इति ।
अपर आह—'स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३४९
रिवृत्तानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि संघातोपपत्तेर्भवति ब्रह्मलोको जीवघनः। तस्मात्परो यः परमात्मेक्षणकर्मभूतः स एवाभिध्यानेऽपि कर्मभूत इति गम्यते। परं पुरुषमिति च विशेषणं परमात्मपरिग्रह एवावकल्पते। परो हि पुरुषः परमात्मैव भवति, यस्मात्परं किंचिदन्यन्नास्ति; 'पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः' इति च श्रुत्यन्तरात्। 'परं चापरं च ब्रह्म यदोंकारः' इति च विभज्य, अनन्तरमोंकारेण परं पुरुषमभिध्यातव्यं ब्रुवन्परमेव ब्रह्म परं पुरुषं गमयति। 'यथा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३५० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १४ |
|---|
यते । तत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः स किं भूताकाशः, अथवा विज्ञानात्मा, अथवा परमात्मेति संशय्यते । कुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम् । आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यते । तत्र किं भूताकाश एव दहरः स्यात्, किंवा पर इति संशयः । तथा ब्रह्मपुरमिवि--- किं जीवोऽत्र ब्रह्मनामा तस्येदं पुरं शरीरं ब्रह्मपुरम्, अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमिवि । तत्र जीवस्य परस्य वाऽन्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः ।
तत्राकाशशब्दस्य भूताकाशे रूढत्वाद्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३५१
णोपार्जितत्वात् । भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वम् । नहि परस्य ब्रह्मणः शरीरेण
स्वस्वामिभावः संबन्धोऽस्ति । तत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टं, यथा राज्ञः ।
भामती
असाधारणेन हि व्यपदेशा भवन्ति । तद्यथा क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माऽप्य-
ङ्कुरः शालिबीजेन व्यपदिश्यते शाल्यङ्कुर इति । न तु क्षित्यादिभिः, तेषां कार्यान्तरेष्वपि साधार-
ण्यात् । तदिह शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम् । ब्रह्मणः सर्वविकारकारणत्वेनातिसाधा-
रण्यात् । जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यत इति युक्तम् । अपि च
ब्रह्मपुर इति सप्तम्यधिकरणे स्मर्यते,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३५२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ १ पा. ३ सू. १४
मनउपाधिकश्च जीवः, मनश्च प्रायेण हृदये प्रतिष्ठितमित्यतो जीवस्यैवेदं हृदयेऽन्तरवस्थानं स्यात् । दहरत्वमपि तस्यैव आराग्रोपमितत्वादवकल्पते । आकाशोपमितत्वादिश्च ब्रह्माभेदविवक्षया भविष्यति । न चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रूयते । 'तस्मिन्यदन्तः' इति परविशेषणत्वेनोपादानादिति ।
अत उत्तरं ब्रूमः - परमेश्वर एवात्र दहराकाशो भवितुमर्हति, न भूताकाशो जीवो वा । कस्मात् ? उत्तरेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यः । तथाहि अन्वेष्टव्यतयाऽभिहितस्य दहरस्याकाशस्य 'तं चेद् ब्रूयुः' इत्युपक्रम्य किं तदत्र विद्यते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३५३
प्रसिद्धाकाशौपम्येन दहरत्वं निवर्त्यन्भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति
गम्यते । यद्यप्याकाशशब्दो भूताकाशे रूढः, तथापि तेनैव तस्योपमा नोपपद्यत इति
भूताकाशशङ्का निवर्तिता भवति । नन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन
भेदेनोपमानोपमेयभावः संभवतीत्युक्तम् । नैवं संभवति, अगतिका हीयं गतिः, यत्का-
ल्पनिकभेदाश्रयणम् । अपि च कल्पयित्वापि भेदमुपमानोपमेयभावं वर्णयतः परिच्छ-
न्नतवादभ्यन्तराकाशस्य न बाह्याकाशपरिमाणत्वमुपपद्येत । ननु परमेश्वरस्यापि
'ज्यायानाकाशात्' ( शत० ब्रा० १०।६।३।२ )
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३५४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ १ पा. ३ सू. १४ |
|---|
शैकदेशे द्यावापृथिव्यादीनामन्तःसमाधानमुपपद्यते । 'एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः' इति चात्मत्वापहतपाप्मत्वादयश्च गुणा न भूताकाशे संभवन्ति । यद्यप्यात्मशब्दो जीवे संभवति, तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति । न ह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितुम् । ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्त्वादि विवक्ष्यतेति चेत्,–यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत, तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदहराकाशस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३५५
कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते' (छा० ८।१।६) इति
च कर्मणामन्तवत्फलत्वमुक्त्वा 'अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामाँ-
स्तेषां सर्वेषु लोकेषु कामचारो भवति' इति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं
वदन् परमात्मत्वमस्य सूचयति। यदप्येतदुक्तं, - न दहरस्याकाशस्यान्वेष्टव्यत्वं विजि-
ज्ञासितव्यत्वं च श्रुतं; परविशेषणत्वेनोपादानादिति, अत्र ब्रूमः - यद्याकाशो नान्वेष्टव्य-
त्वेनोक्तः स्यात्, 'यावान्वा अयमाकाशस्तावनेषोऽन्तर्हृदय आकाशः' इत्याद्याकाश-
स्वरूपप्रदर्शनं नोपयुज्येत।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in