Skip to content
SarvaKosh
भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)

भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)

Bhaishajya Ratnavali Hindi

by कविराज गोविन्ददास सेन (टीकाकार: वैद्य शंकरलाल)

Source: Bhaishajya Ratnavali with Hindi Translation by Vaidya Shankar Lal (1942) (origin)

Public domain in India · Report a copyright issue

DevanagariHindipublished1,416 pages

Page 490 of 1416

Read in context
Page 490

४५८ भैषज्यरत्नावली । [ रक्तपित्त-

बृहत्कूष्माण्डावलेह ।

पुराणं पीनमानीय कूष्माण्डस्य फलं दृढम् ।
तद्वीजाधारबीजत्वक्-शिराशून्यं समाचरेत् ॥ ८८ ॥
ततोऽतिसूक्ष्मखण्डानि कृत्वा तस्य तुलां पचेत् ।
गोदुग्धस्य तुलामध्ये मन्देऽग्नौ वा पचेच्छनैः ॥ ८९ ॥
शर्करायास्तुलां सार्द्धां गोघृतं प्रस्थमात्रकम् ।
प्रस्थार्द्धं माक्षिकं चापि कुडवं नारिकेलतः ॥ ९० ॥
पियालफलमज्जानां द्विपलं गोक्षुरी पलम् ।
क्षिपेदेकत्र विपचेल्लेहवत्साधु साधयेत् ॥ ९१ ॥

उत्तम पकेहुए पुराने और एक दृढ पेठेको लेकर और उसको छीलकर बीज और छिलके रहित करलेवे। फिर उसको कुछ उबालकर और उसको वस्त्रमें रस निचोडकर छोटे २ टुकडे करके धूपमें सुखालेवे। ऐसे पेठेके ४०० तोले टुकडोंको चार सौ तोले गोदुग्धमें धीरे धीरे मन्द मन्द अग्निके द्वारा पकावे। जब वह अच्छी तरह पकजाय तब १५० पल खाँड, ६४ तोले गोघृत, शहद ३२ तोले, नारियल १६ तोले, चिरौंजीकी मींग ८ तोले, गोखुरू ४ तोले इन सबको एकत्र मिलाकर लेहकी समान पकावे ॥ ८८-९१ ॥

भिषक् सुपक्वमालोक्य ज्वलनादवतारयेत् ।
कोष्णे तत्र क्षिपेदेषां चूर्णं तानि वदाम्यहम् ॥ ९२ ॥
एकोऽशः शतपुष्पाया अथ क्षारो यमानिका ।
गोक्षुरः क्षुरकः पथ्या कपिकच्छुफलानि च ॥ ९३ ॥
सप्तमी त्वक् च सर्वेषामक्षयुग्मं पृथक् पृथक् ।
धान्यकं पिप्पलीमुस्तमश्वगन्धा शतावरी ॥ ९४ ॥
तालमूली नागबला बालकं पत्रकं शठी ।
जातीफलं लवङ्गं च सूक्ष्मैला बृहदेलिका ॥
शृङ्गाटकं पर्पटकं सर्वं पलमितं पृथक् ॥ ९५ ॥
चन्दनं नागरं धात्री फलं च पि कशेरुकम् ।
प्रत्येकं पञ्चकर्षाणि चत्वार्येतानि निक्षिपेत् ॥
पलद्वयमुशीरस्य मसनस्योषणस्य च ॥ ९६ ॥