Skip to content
SarvaKosh
Back to the archive

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

by आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य)

Report a copyright issue

DevanagariHindipublished366 pages

About this granth

The Baudhayana Shulbasutra (बौधायनशुल्बसूत्रम्) deals with the construction of altars for Vedic sacrifice and is one of the oldest sources for Indian mathematics, especially geometry. Shulba means cord, the measuring rope used to lay out the altars. To keep their shapes and areas exact, the text states geometrical rules, among them the theorem now known by Pythagoras's name and a very close value for the square root of two.

It covers units of measure, methods for drawing right angles and squares, turning a circle into a square and a square into a circle, adding and subtracting areas, and then the building of the fire altars of the agnichayana: the garhapatya and ahavaniya, and altars shaped like a falcon, a chariot wheel, a trough, a forked shape and a heron.

This edition gives the sutras with two Sanskrit commentaries, the Bodhayanashulbamimamsa of Vyankateshvara Dikshita and the Shulbadipika of Dwarakanatha Yajva. It was edited by Pandit Vibhutibhushan Bhattacharya, former librarian of Sampurnanand Sanskrit University, and published in 1979 as number 107 of the Sarasvati Bhavana Granthamala. It has 366 pages.

प्रारंभिक पृष्ठ एवं वैदिक ज्यामिति विस्तृत भूमिका

Page 1
Page 1 scan

सरस्वतीभवन-ग्रन्थमाला
[ १०७ ]
बोधायनाचार्यप्रणीतं
बौधायनशुल्बसूत्रम्
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः

Page 2
Page 2 scan

यथाप्रदत्तपृष्ठे किमपि देवनागरी-अक्षरं अथवा सूत्र/भाष्यग्रन्थस्य पाठ्यवस्तु नास्ति। इदं रिक्तं (कोरा) पृष्ठम् अस्ति। पृष्ठे केवलं डिजिटलीकरणस्य शीर्षके पादटिप्पण्यां च आंग्लभाषायाः सूचना अङ्किता अस्ति:

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

Page 3
Page 3 scan

Blank page

Page 4
Page 4 scan

Blank page

Page 5
Page 5 scan

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
SARASVATĪBHAVANA-GRANTHAMĀLĀ
[ 107 ]
BAUDHĀYANAŚULBASŪTRAM
by
BODHĀYANĀCĀRYA
With two Commentaries
‘Bodhāyanaśulbamīmāṁsā’
by
Śrī Vyaṅkaṭeśvara Dīkṣita
&
‘Śulbadīpikā’ वेद १५२
by
Śrī Dwārakānātha Yajva
Edited by
Pt. Vibhūtibhūṣaṇa Bhaṭṭācārya
Ex-Librarian
Sampurnanand Sanskrit Vishvavidyalaya
[मुद्रा/सील: सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः / श्रुतम् मे गोपाय]
Chief Editor of the Granthamālā
DR. BHĀGĪRATHA PRASĀDA TRIPĀTHĪ ‘VĀGĪŚA ŚĀSTRĪ’
Director, Research Institute,
Sampurnanand Sanskrit Vishvavidyalaya,
VARANASI
1979
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

Page 6
Page 6 scan

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
Published by—
Director, Research Institute,
Sampurnanand Sanskrit Vishvavidyalaya,
Varanasi.
Available At—
Publication Section
Sampurnanand Sanskrit Vishvavidyalaya,
Varanasi–221002.
First Edition : 500 Copies
Price : 75-00 P.
Printed by—
G. S. Upadhyaya
Manager
Sampurnanand Sanskrit Vishvavidyalaya Press,
Varanasi
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

Page 7
Page 7 scan

सरस्वतीभवन-ग्रन्थमाला
[ १०७ ]
बोधायनाचार्यप्रणीतं
बौधायनशुल्बसूत्रम्
श्रीव्यङ्कटेश्वरदीक्षितविरचितया
बोधायनशुल्बमीमांसाख्यव्याख्यया
श्रीद्वारकानाथयज्वविरचितया
शुल्बदीपिकाव्याख्यया
समलङ्कृतम्
सम्पादकः
प० विभूतिभूषणभट्टाचार्यः
पुस्तकालयाध्यक्षचरः
सरस्वतीभवनपुस्तकालयस्य
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः
श्रुतम् मे गोपाय
ग्रन्थमालाया मुख्यसम्पादकः
डॉ० भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री'
अनुसन्धानसंस्थाननिदेशकः
सम्पूर्णानन्दसंस्कृतविश्वविद्यालये
वाराणस्याम्
२०३६ तमे वैक्रमाब्दे २००१ तमे शकाब्दे १९७९ तमे खैस्ताब्दे

Page 8
Page 8 scan

प्रकाशकः—
निदेशकः, अनुसन्धानसंस्थानस्य
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः
वाराणसी।
प्राप्तिस्थानम्—
प्रकाशनविभागः,
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः
वाराणसी-२२१००२.
प्रथमं संस्करणम् : ५०० प्रतिरूपाणि
मूल्यम् : ७५-०० रूप्यकाणि
मुद्रकः—
घनश्याम उपाध्यायः
व्यवस्थापकः
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयीयमुद्रणालयस्य
वाराणसी।

Page 9
Page 9 scan

प्रास्ताविकम्
वेदानां व्याख्यानार्थं ब्राह्मणारण्यकोपनिषदो वेदाङ्गानि च प्रवृत्तानि । वेदाङ्गेषु
ज्योतिषाङ्गं हित्वा प्रायोऽन्यानि सर्वाण्येवाङ्गानि सूत्रशैल्याऽऽविर्भूतानि । ऋक्प्रातिशाख्यस्य
तु पद्यसूत्रात्मकतयोभयथा प्रवृत्तिः । वेदब्रह्मणो मुखरूपं व्याकरणम्, ज्योतिषं लोचनम्,
छन्दः पादद्वयरूपम्, निरुक्तं श्रोत्रम्, शिक्षा च घ्राणस्थानीया वर्तते, एवमेव कल्पो
हस्तस्वरूप आस्थीयते । क्रियानिर्वर्तनाय यथा शरीरे हस्तौ प्राधान्यं भजेते, तथैव यज्ञकर्म-
विधिनिर्धारणाय वेदाङ्गेषु कल्पः प्रमुखः । ‘कल्प्यते = समर्थ्यते यागप्रयोगोऽत्र' इति
सायणः । श्रौत-गृह्य-धर्म-शुल्वाऽऽख्यानि चतुर्विधानि सन्ति कल्पसूत्राणि प्रतिवेदं संबद्धानि ।
तत्र शुल्बसूत्राणि श्रौतसूत्रान्तर्गतानि समाम्नायन्ते । शुल्बं नाम यज्ञकर्मणि कुण्डनिर्माण-
प्रसङ्गे मानार्थमुपयुज्यमाना रज्जुः । शुल्वम् = रज्जुमानादिना कृतमिदं क्षेत्रगणित-
मुच्यते । हेमचन्द्रानुसारेण शुल्वशब्दः ‘ताम्रे यज्ञकर्मण्याचारे जलसंनिधौ' इति चतुर्ष्वर्थेषु
प्रयुज्यते । द्विधाऽस्य व्युत्पत्तिः । गत्यर्थकाद् शल्धातोः ‘उल्वादयश्च' (४।६५) इत्यौणा-
दिकेन सूत्रेण शुल्बशब्दस्ताम्रार्थको निपात्यते । सुव्व (< शुल्बम्) इति प्राकृतभाषायाः
शब्दः पञ्चस्वर्थेषु प्रयुक्तः, । हेमचन्द्रदर्शिताेष्वर्थेषु तत्र रज्ज्वर्थोऽधिकः । विभिन्नेष्वर्थेष्वयं
प्रादेशिकीषु भाषासु 'सूत्र' 'सुत्त्र' 'सुब्बा' चुब्ब' 'सुब्बी' 'चूंब' इत्याद्याकृतिषु व्यवह्रियमाणः
स्वकीयं प्रयोगभूयस्त्वं पुष्णाति । रज्ज्वर्थकः शुल्बशब्दस्तु मानार्थकाच्चौरादिकाद्
शुल्बधातोर्व्युत्पाद्यते ।
सर्वेषां वेदानां शुल्बसूत्राणि साम्प्रतं नोपलभ्यन्ते । कात्यायनशुल्बसूत्रं शुक्लयजुर्वेदं
संबध्नाति । बौधायन-आपस्तम्ब-मानव-मैत्रायण-वाराह-शुल्बसूत्राणि खलु कृष्णयजुर्वेदम-
भिसम्बद्धानि । बौधायनशुल्बसूत्रं कृष्णयजुर्वेदस्य तैत्तिरीयशाखया सह सम्बद्धम् । वाधूल-
शुल्बसूत्रं साम्प्रतं लभ्यते । मशकशुल्बसूत्रं हिरण्यकेशीशुल्बसूत्रं चेदानीं नाधिगम्येते । एते
आपस्तम्बशुल्बसूत्रस्य करविन्दस्वामिकृतव्याख्यायामुल्लिख्येते ; यज्ञानां यथासमयं सम्पा-
दनार्थे यथाऽऽर्यैर्ज्योतिषशास्त्रमाविर्भावितम् , उपबृंहितं च, तथैव यज्ञवेदीनामाकारस्वरूप-
योर्निर्धारणाय प्राचीने भारते समधीतार्यैर्ज्यामितिर्बीजगणितं च । शुल्बसूत्राणामनु-
शीलनेन तदीयो ज्यामितिज्ञानाभासो जायते ।
सर्वेषु शुल्बसूत्रेषु बौधायनशुल्बसूत्रमाकारेण द्राघिष्ठम् । इह प्रथमेऽध्याये ८३;
द्वितीये ४३, तृतीये च १४६ संहत्य २७२ सूत्राणि संदृब्धानि सन्ति । रेखामानपरिभाषा,
समचतुरश्रकरणोपायः, दीर्घचतुरश्रकरणोपायः, एकतोऽणिमद्दीर्घचतुरश्रकरणोपायः, प्रकारा-
न्तरेण दीर्घचतुरश्रैकतोऽणिमद्दीर्घचतुरश्रकरणोपायः, द्विकरण्यानयनम्, त्रिकरणीतृतीय-

Page 10
Page 10 scan

( १ )
करणयोरानयनम्, अन्यासाविष्टकरणीनामानयनम्, समचतुरश्रयोः समसनप्रकारः, महा-
चतुरश्रादल्पचतुरश्रापोद्धारप्रकारः, समचतुरश्रस्य दीर्घचतुरश्रकरणोपायः, समचतुरश्रस्य
दीर्घचतुरश्रकरणे प्रकारान्तरम्, दीर्घचतुरश्रस्य समचतुरश्रीकरणोपायः, चतुरश्रस्यैकतोऽ-
णिमत्करणोपायः चतुरश्रस्य प्रउगकरणोपायः (प्रउगम् = शकटमुखम् ), चतुरश्रस्योभयतः
प्रउगकरणोपायः चतुरश्रस्य मण्डलकरणोपायः, मण्डलस्य चतुरश्रकरणोपायः, द्विकरणीपरि-
ज्ञानोपायः, गार्हपत्यदक्षिणाहवनीयाग्नीनां स्थानानयनप्रकारः, उत्करस्थानानयनम्,
दार्शिकीया वेदेर्विहरणोपायः, पाशुबन्धिकवेदि विहरणोपायः, उत्तरवेदि विहरणोपायः पैतृक्या
वेदेर्विहरणोपायः, सौत्रामणीवेदि विहरणोपायः, अग्निष्टोमवेदि विहरणोपायः, सौमिकमहा-
वेदि विहरणोपायः, सदोविहरणोपायः, सदोहविर्धानविहरणोपायः, सौमिकोत्तरवेदि विहरणो-
पायः, चात्वालोपखयोर्विहरणोपायः, धिष्ण्यानां विहरणम्, आग्नीध्रमार्जालीयागारविहरणम्,
प्रक्रमादिविशेषनिर्णयश्चेत्यादिविषयाः प्रथमेऽध्याये सूत्रिताः।
सर्वाग्निसामान्येनाग्निधर्माः, अग्निपरिमाणम्, अग्नेः सर्वक्रतुषु विकल्पः, प्रथमा-
ग्निचयन इष्टकासंख्या, अग्नेः पशुसमानाकारत्वम्, अग्निचयने नियमः, अग्नीनां विशेष-
धर्मकथनम्, इष्टकाधर्मकथनम्, चतुरश्रगार्हपत्यचित्युपधानम्, परिमण्डलगार्हपत्यचित्यु-
पधानम्, धिष्ण्यानामुपधानप्रकारः, इष्टकानिर्माणे विशेष इत्यादयो विषया द्वितीयेऽध्याये
वर्णिताः सन्ति।
श्येनचिदाकारनिरूपणम्, चतुरश्येनचिद्विमानप्रकारः, चतुरश्रश्येनचिदुपधानप्रकारः,
वक्रपक्षव्यस्तपुच्छश्येनचिदुपधानम्, कङ्कचिदुपधानप्रकारः, अलजचिदुपधानप्रकारः, प्रउग-
चिदुपधानप्रकारः, उभयतः प्रउगचिदुपधानप्रकारः, प्रधियुक्तरथचक्रचिदुपधानप्रकारः,
चतुरश्रद्रोणचिदुपधानप्रकारः, परिमण्डलद्रोणचिदुपधानप्रकारः, समूह्यपरिच्चाय्यचितोरुपधान-
प्रकारः, श्मशानचिदुपधानप्रकारः, वक्राङ्गकूर्मचिदुपधानप्रकारः, परिमण्डलकूर्मचिदुपधान-
प्रकार इत्यादयो विषयास्तृतीये समुपन्यस्ताः सन्ति।
बौधायनशुल्वसूत्रमेतत् सर्वेषु शुल्बसूत्रेषु विषयदृष्ट्याऽनन्यसाधारणं प्राचीनतमं च
विराजते। कस्यापि वर्गस्य भुजयुताऽऽयतरूपतया परिणमनस्य रैखिको विधिः शुल्बसूत्रेऽ-
स्मिन् (८०० खी० पू०) वर्णितः। बोधायनेन श्रौतसूत्रमपि रचितमासीत्। श्रौतसूत्र-
स्यास्य काले श्रोणानां कृत्तिकानां चोदयः सहश्यामभूद् दिशि। एतेन बोधायनसमयः
ख्रीस्तात् पूर्वं १३३० वर्षेषु सिध्यतीति गोरखप्रसादो मन्यते।
बौधायनस्य समुल्लेखस्तदीयेषु श्रौत-गृह्य-धर्म-पितृ-श्रौत-प्रवर-सूत्रेषु लभ्यते।
इतरत्र आग्निवेश्य-गृह्यसूत्रे (२, ६, ३.: ३६); चरणव्यूहे (२: ३६); संस्कारभारद्वाज-
गृह्यसूत्रे, संस्कारकौस्तुभे चापि तन्नाम खल्लुलिख्यते। तन्नाम्ना प्रसिद्धा ग्रन्था बौधायनश्रौत-
सूत्रम्, बौधायनगृह्यसूत्रम्, बौधायनधर्मसूत्रम्, बौधायनपितृमेधसूत्रम्, बौधायनश्रौतप्रवरः,

Page 11
Page 11 scan

बौधायनीयप्रयोगसारः ( बौधायनीयश्रौतप्रयोगसारः ), बौधायनदर्शपूर्णप्रयोगः, बोधायन-
कल्पविवरणम्, बौधायनकल्पप्रयोगः, बौधायनीयगृह्यमाला, बौधायनचरकसौत्रामणी,
बौधायनप्रयोगः, बौधायनविधिः, बौधायनशिक्षा, बौधायनसंग्रहः, बौधायनस्मृतिः, बौधायन-
परिशिष्टम्, भगवदज्जकीयम्, ब्रह्मसूत्रवृत्तिश्चेति । दशोपनिषत्सु श्रीमद्भगवद्गीतायां चापि
तत्कृतं व्याख्यानं श्रूयते, न तूपलभ्यते ।
श्रीभाष्ये श्रीमता रामानुजाचार्येणोक्तम्-‘भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं
पूर्वाचार्याः संचिक्षिपुः । तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते' इति । आनन्दभाष्ये
रामानन्दाचार्येण बोधायनस्य गुरुशिष्यपरम्परा निर्दिष्टा । तत्र स श्रीशुकदेवमुनेः शिष्य-
स्तदाज्ञया ब्रह्मसूत्रवृत्तिमरीरचत् । अन्यच्च तदीयमन्यदीयं नामधेयं पुरुषोत्तममुनिरित्यपि
ततो विज्ञायते – 'यस्याश्च ( शारीरकब्रह्ममीमांसायाः ) सूत्ररूपत्वेनातिसूक्ष्माकारतामवधार्य
साक्षाद्भगवदवतारस्वरूपस्य स्वपरमगुरोस्तस्याशयं तत एव समधिगम्य परमैकान्त्यनिरतस्य
स्वगुरोश्च श्रीशुकदेवमुनेराज्ञया बोधायनापरनामधेयश्रीपुरुषोत्तममुनिना सुखबोधाय
विशदतमा वृत्तिरभ्यधायि' ( प्रथमसूत्रावतरणिकाभाष्यम् ) । श्रीमद्भगवद्गीताया
आनन्दभाष्येऽपि स्वसम्प्रदायपरम्परायां श्रीशुकदेवशिष्यः पुरुषोत्तममुनिरिति स्वामिरामा-
नन्देन समश्लोकि--
श्रीरामं जनकात्मजामनिलजं मेधोवसिष्ठावृषी ।
योगीशं च पराशरं श्रुतिविदं व्यासं जिताक्षं शुकम् ॥
श्रीमन्तं पुरुषोत्तमं गुणनिधिं गङ्गाधराद्यान् यतीन् ॥ इति ।
पाणिनेर्गुरुर्वर्षस्तस्यानुजस्तूपवर्षः कथासरित्सागरे वर्ण्यते शङ्करस्वामिसुतः ।
पूर्वोत्तरमीमांसासूत्रवृत्तिकारतयाऽयं प्रथितः । पूर्वमीमांसायाः शाबरभाष्ये ब्रह्मसूत्रभाष्ये
च शङ्कराचार्येणैष बहुत्र स्मृतः । एवं खल्वेष उपवर्षो ब्रह्मसूत्रवृत्तिकाराद् बोधायनादभिन्नः
प्रतिभाति । किन्तु रामानुजाचार्यानुसारेण तयोर्भिन्नता न शक्यते वक्तुम् । ऐकात्म्याधि-
करणे शङ्कराचार्येण खल्पूपवर्षमतमित्थं समुदलेखि ( ३. ३, ५३ )- अत एव च भगवतोप-
वर्षेण प्रथमे तन्त्रे ‘आत्माऽस्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः' इति ।
श्रीभाष्यकारेण रामानुजेन तु तदैकात्म्याधिकरणं प्रत्यगात्मपरकमाख्यायते । श्रीभाष्यो-
पजीव्यब्रह्मसूत्रवृत्तिरस्य बोधायनस्य शङ्कराऽऽचार्योद्धृतस्योपवर्षस्य चाभेदे त्वैकात्म्या-
धिकरणस्य स्थाने प्रत्यगात्मपरकत्वं न स्यात् । एवं खलु श्रीभाष्यदर्शनेन तयोर्भिन्नता
प्रतीयते । वस्तुतस्तु रामानुजाचार्यो बौधायनकृतां ब्रह्मसूत्रवृत्तिं साक्षादाधारीकृत्य श्रीभाष्यं
न प्रणिनाय । तेन तु तत्रादौ 'भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्याः संचि-
क्षिपुः । तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते'. इति स्पष्टमभिहितं पूर्वाचार्यसंक्षिप्तीकृत-
बोधायनवृत्त्युपयोगविषये । पूर्वाचार्योऽसौ श्रीकण्ठ एव भवितुमर्हतीति श्रीक्षेत्रेशचन्द्रचट्टो-
पाध्यायामतम् । अतस्तत्र सर्वत्र श्रीभाष्यमतमेव बोधायनमतमित्यङ्गीकारे संकोचमञ्चन्ति

Page 12
Page 12 scan

( ४ )
सुधीजनाः । 'भूत्यै न प्रमदितव्यम्' इत्यादिस्यलेषु यत्र शङ्कराचार्य ऐश्वर्यमर्थं निश्चिनोति
भूतिशब्दस्य, तत्र बोधायनस्तु बौधायनगृह्यसूत्रे 'भूतिः= भस्म' इत्यैदमर्थ्यं निर्धारयतीति
श्रीभाष्यसिद्धान्तानैक्यान्महर्ती सन्देहपदवीमारोपयति विभेदोऽयम् ।
वस्तुतस्तु ब्रह्मसूत्रवृत्तिकृतो बौधायनात् कल्पसूत्राणां प्रवर्तक आचार्यो भिन्नो
वर्तते । बौधायनधर्मसूत्रस्य भाष्यकारेण गोविन्दस्वामिनाऽयं 'काण्वायनः' इति नामान्तरेण
स्मृतः । तत्र 'बोधायनः' इति 'बौधायनः' इति चोभयवर्तनीको लभ्यते पाठः । कृष्णानदी-
प्रदेशे बौधायनशाखीया ब्राह्मणा भूयिष्ठतया दृश्यन्ते । वेदभाष्यकारः सायणोऽपि बौधायन-
शाखीयो ब्राह्मणोऽभूत् । नन्दिवर्मणो नवमशताब्दीकेषु बहुषु शिलालेखेषु प्रवचनकाराणां
कृते प्रदत्तस्य दानस्य समुल्ले खो वर्तते । एवं तावद् दाक्षिणात्यादस्माद् बौधायनाद्
ब्रह्मसूत्रवृत्तिकृतः पखर्तिनो बौधायनस्य पार्थक्यं बाढं सिध्यति ।
शुल्बसूत्राणामाद्यः प्रवर्तको नासीद् बौधायनः । तस्मात् पूर्वं बहुभिराचार्यैः शुल्ब-
सूत्राणि सूत्रितान्यासन्निति निर्विवादं शक्यते प्रतिपादयितुम् । बौधायनेनेह शुल्बसूत्रे
पूर्ववर्तिनां बहूनामाचार्याणां मतानि 'अपरम्', 'एके', 'एकेषाम्' इत्यादिशब्दैः समुद्धृतानि
सन्ति । यथा—'चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम्' ( १,४ ) ; 'विराट् सम्पन्नेत्येके-
षाम्' ( १ ६२ ) ; 'यजमानमात्री चतुःस्रक्तिर्भवतीत्येकेषाम्' ( १,६५ ) ; एके समामनन्ति
( २,६ ); अथ हैके चिन्वते ( २,६ ) ; चतुरश्रेत्येकेषाम्, परिमण्डलेत्येकेषाम् ( २,३० ) ;
अथ हैक एकविधप्रभृतीन् प्रउगादीन् ब्रुवते ( ३,१४२ ) ; समचतुरस्रानैक आचार्याः
( ३, १४३ ) इति । एकत्र स मैत्रायणीब्राह्मणमप्युद्धरति—'दैव्यस्य मानुषस्य च व्या-
वृत्त्या इति मैत्रायणीब्राह्मणं भवति' ( ३, ६ ) इति । बौधायनीयं शुल्बसूत्रं पाणिनीयसूत्रवत्
परिनिष्ठितं नास्ति । तत्रैकस्मिन्नेव सूत्रे सदृश्या क्रियाया आवृत्तिः क्रियते । यथा—
न खण्डामुपदध्यात् ,
न भिन्नामुपदध्यात् ,
न जीर्णामुपदध्यात् ,
न लक्ष्मामुपदध्यात् ( २, २४ ) ।
बौधायनात् पूर्वं शुल्बविषयकाश्छन्दोबद्धा ग्रन्था अभूवन्निति प्रतीयते । बौधायनेन
बहुवचनोपन्यासपूर्वकं स्वकीयं मतमित्यमभिव्यक्तम्—'अविशेषात् ते मन्यामहे' (३,१३० )
इति । सूत्रशैल्या लिखितानां ग्रन्थानां विश्लेषणार्थं वार्त्तिकानि भाष्याणि व्याख्याश्च
परमोपकाराय सिध्यन्ति । व्याख्याकारस्य ग्रन्थकाराद् बुद्धिमत्तरत्वं विस्तृतपाण्डित्यं च भवत
इति प्रसिद्धम् । ग्रन्थग्रन्थिभेदनाय विस्तरशो ग्रन्थकाराशयावबोधाय च व्याख्यानामस्ति
कश्चिदनितरसाधारणो महिमा ।
इह व्याख्याद्वये विभिन्नानामाचार्याणां ग्रन्थानां च मतानि ग्रन्थावबोधाय
प्रस्तुतानि । यथा—काश्यपीयैः ( शु० मी० ४ ) ; जैमिनिना ( शु० मी० ६ पृ० ) ; अस्म-
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

Page 13
Page 13 scan

( ५ )

दाचार्याः ( शु० मी० ६ पृ० ); आपस्तम्बाचार्याः ( शु० मी० ६ पृ० ); कात्यायन आह
( शु० दी० ११ पृ० ); आचार्याः ( शु० मी० १६ ); आर्यभटीये ( शु० दी० २६ पृ० );
कात्यायनः ( शु० दी० ३४ पृ० ); आपस्तम्बाचार्यैः ( शु० मी० ४७ पृ० ); आचार्याः
( शु० मी० ५३ पृ० ); व्याख्यातमाचार्यैः ( शु० मी० ५६ पृ० ); आपस्तम्बाचार्यवचना-
दवसीयते ( ५७ पृ० ); तथा चापस्तम्बः ( शु० दी० ६० पृ० ); व्याख्यानमाचार्यैः कृतं
वेदितव्यम् ।
कोशेष्वनुपलब्धार्थानां शब्दानांमर्था व्याख्यायोरनयोर्यथास्थलं निर्दिष्टाः सन्ति ।
यथा—वेलायाम्=त्वक्छायाम्, वेलाशब्देनांश उच्यते (३, ११ शु० मी०); विशयस्थाः =
मध्यस्थाः (२, १३ शु० मी०); उप्लव-= उपप्लवशब्दाेऽन्तपर्यायः (२, १५ शु० मी० );
विशये = एकदेशे । विशयशब्दस्यैकदेशार्थत्वमापस्तम्बेनोक्तम् ( ३, ४३ शु० मी० );
चुचुके = पूर्वस्मिन्नग्रे ( ३, ८३ शु० मी० ); प्रउगः = शकटस्येषयोः संयोगप्रदेशः ( ३, ८१
शु० दी० ); अनीके = पश्चिमान्त्यप्रदेशे ( ३, ८४ शु० मी० ); अनूचीनम् = प्राक्
प्रत्यग्दीर्घम् ( ३, १२६ शु० मी० ) । यत्र क्वापि व्याख्याकाराभ्यां सन्तोषो नानुभूतो
व्याख्याभ्यां तत्र 'पक्षान्तरमप्यस्ति, तदप्यनुसन्धेयम् ( ३२ पृ० ); 'अत्र कल्पोक्तो विधिरनु-
सन्धातव्यः' ( शु० दी० १४६ पृ० ) इत्याद्युक्तम् ।
बौधायनशुल्बसूत्रस्य शुल्बदीपिकाभिधेया द्वारकानाथयज्वकृता व्याख्या थिबोमहोदयेन
संपाद्य पण्डितपत्रिकायां मुद्रापिता । आङ्ग्लभाषानुवादोऽपि तेनैव कृतस्तत्र प्रकाशितः ।
विलेमकैलैण्डमहोदयसम्पादितं द्वारकानाथयज्वव्याख्यासमेतं बौधायनशुल्बसूत्रं कालिकातातः
१६१३ तमे ख्रीस्ताब्दे प्रकाशितमभूत् । एवं सत्यपि व्यङ्कटेश्वरदीक्षितकृता शुल्बमीमांसाऽ-
प्रकाशितेवातिष्ठत् । सरस्वतीभवनपुस्तकालयस्य पुस्तकाध्यक्षचरणेन श्रीविभूतिभूषणभट्टाचार्येण
भाण्डारकरप्राच्यानुसन्धानसंस्थानस्य पुस्तकालयादस्य प्रतिलिपिः समासादिता । त्रुटितानां
पाठानां पूरणम्, अशुद्धीनां च संशोधनं कृत्वा व्याख्येयं पूर्वसम्पादितग्रन्थेन सह कुशलं
सम्पादिता । ग्रन्थोपन्यस्तानां प्रस्ताराणां बहुभी रेखाचित्रैर्ग्रन्थोऽयं परिमण्डितो नूनं जिज्ञासु-
जनानामुपकाराय विद्वज्जनानां च प्रीणनाय सेत्स्यतीति ध्रुवं प्रत्येति ।

वाराणस्यां } भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री'
मेषसंक्रान्तौ २०३६ वै० } निदेशकः
( १४-४-१६७६ शनिवासरे ) } अनुसन्धानसंस्थानस्य

Page 14
Page 14 scan

Blank page

Page 15
Page 15 scan

॥ श्रीदुर्गाशरणम् ॥
भूमिका
बौधायनशुल्वसूत्रमिदं पण्डितपत्रे श्रीमतो थिबोमहोदयेन द्वारकानाथयज्व-
प्रणीतया टीकया शुल्वदीपिकाख्यया आङ्ग्लभाषान्तरेण च सह सम्पाद्य प्रकाशितमासीत्।
प्रकाशिते आलोचिते चास्मिन् ग्रन्थे पाश्चात्त्येषु भारतीयविद्यालोचकेषु पण्डितेषु महान् बुद्धि-
भेदः समुत्पन्नः । पाश्चात्त्या भारतीयविद्यालोचकास्तावत् सामान्यतः प्राचीनानां यवन-
पण्डितानां विशेषतश्च पिथागोरस्, युक्लीदप्रभृतीनां क्षेत्रतत्त्व ( Geometry ) विषायिणी
प्रतिभैव असत्प्रतिपन्नतया सर्वातिशायिनीति मन्यमानाः क्षेत्रमितिसम्बन्धिनां प्रायः सर्वेषा-
मेव सिद्धान्तानां पिथागोरसादय एवोद्भावका आसन्निति गणितशास्त्रीयेतिहासप्रणयना-
दिभिः सडिण्डिमघोषं प्रचारितवन्तः। तन्मूलकमेव केषाञ्चिद् गणितसिद्धान्तानां पिथा-
गोरसीयसिद्धान्तादि नामकरणमपि

Page 16
Page 16 scan

मिति निर्णीतवन्तः । ते च सूत्रकाराः क्षेत्रतत्त्वज्ञानं विनैव शुष्केष्ट्यादिभिः कथं कथमपि
क्षेत्राद्यङ्कनप्रक्रियां निरूपितवन्त इति तेषामाशयः ।
अत्रोच्यते निरनुयोज्या एते सूत्रकाराः पाश्चात्त्यविद्वद्भिरुद्भावितस्य पर्यनुयोगस्येति
अग्रे प्रतिपादयिष्यामः । अभ्युपेत्यापि ब्रूमः पाश्चात्त्यैर्विद्वद्भिः कल्पितात् पिथागोरसादीना-
माविर्भावकालात् शतेभ्यो वर्षेभ्यः पूर्वं क्षेत्रतत्त्वज्ञानं विनैव बोधायनादीनामाचार्याणां यथार्थ-
क्षेत्राद्यङ्कनसामर्थ्यं तेषां प्रतिभाया लोकोत्तरत्वमेव निःसंशयं प्रमाणयति । इदानीं पाश्चा-
त्त्यैर्विद्वद्भिरुद्भावितस्यानुक्तितदुरुक्तिरूप-पर्यनुयोगस्यैवोद्धारः क्रियते । तत्र प्रथमतस्तावत्
शुल्बसूत्राणां विषयनिरूपणमेव कर्त्तव्यम् । तेनैव च अनुक्त्यादेरुद्धारोऽपि भविष्यति ।
शुल्बं तावत् अग्निचयनोपयोगित्वेनोपादेयं शास्त्रमुच्यते । कर्मणां तावत् देशकालपात्रानु-
विधायित्वं सर्ववादिसिद्धम् । कर्मोपयोगिदेशस्तु ब्राह्मणादौ विहितः । तादृशदेशसम्पादना-
नुकूलव्यापारनिरूपणमेव शुल्बसूत्रादौ अधिकृतं वेदितव्यम् । अत एव प्रस्तुतग्रन्थस्य प्रथम-
सूत्रस्थ-चयशब्दव्याख्यायां शुल्बमीमांसाकर्तृभिर्वेङ्कटदीक्षितैरुक्तम्—
“चयशब्दस्य कल्पसूत्रप्रतिपाद्यमानमन्त्रकरणकेष्टकासाधनकक्रमविशेषस्थण्डिलनिर्वृ-
त्त्यौपयिकव्यापारात्मकचयनोपयुक्तक्षेत्रविशेषोपधेयेष्टकाकरणश्येनाद्याकारपरिज्ञानोपायभूतव्या-
पारपरत्वम्” इति ।
तथा च यथाविहितश्येनाद्याकारेण स्थण्डिलनिर्वृत्तिरेव शुल्बशास्त्रस्य मुख्यो विषयः ।
तत्र तादृशस्थण्डिलनिर्वृत्त्यौपयिकत्वेन श्येनादिरूपेण क्षेत्राङ्कनरूपोभूमेर्व्यवच्छेदः, व्यवच्छिन्ना-
याञ्च तस्यां विहितसंख्याकानामिष्टकादीनामुपधानञ्च स्थण्डिलनिर्वृत्तिसाधकमिति तथो-
र्विषयत्वमवगन्तव्यम् । एतेन शुल्बशास्त्रस्य क्षेत्रव्यवहारगणितोपजीवकत्वेऽपि न तादृश-
व्यवहारगणितात्मकत्वमिति सुस्पष्टम् । तेन क्षेत्रव्यवहारगणित ( Mensuration ) रीत्या
क्षेत्राणां तुल्यफलकत्वादिकथने उपपत्तिप्रदर्शनमावश्यकमिति पाश्चात्त्यविदुषामनुक्तिरूप-
पर्यनुयोगोद्भावनमकाण्डताण्डवमेव । यच्च शुल्बसूत्रेषु उपदिष्टेन प्रकारेण सम्पाद्यमानानां
वृत्तानां समचतुरश्राणां वा अयथार्थक्षेत्रफलजनकत्वं तेन च तेषु दुरुक्तिरूपपर्यनुयोगोद्भावनं
पाश्चात्त्यानां तदपि शुल्बोपदिष्टप्रकाराणां क्षेत्रव्यवहारगणितप्रसिद्धसिद्धान्तमूलकत्वात् निर-
नुयोज्यानुयोग एव ।
ननु तथापि शुल्बसूत्रोपजीव्यानां क्षेत्रव्यवहारगणितसिद्धान्तानां दुष्टत्वप्रवादः स्थास्य
त्येवेति चेन्न तादृशगणितग्रन्थानां इदानीमनुपलब्धत्वेऽपि तदुपजीवकेभ्यः शुल्बसूत्रेभ्य एव
तेषामनुमानसम्भवात् । अनुमिते च तादृशगणितग्रन्थे तत्रत्यानां सिद्धान्तानां सोपपत्तिकत्व-
मपि अर्थादापद्यते । लौकिकं विषयमधिकृत्य प्रवर्त्तितेषु शास्त्रेषु प्रमाणैरभ्युपगतानामेव
सिद्धान्तत्वम् । या च वृत्तक्षेत्रफलतुल्यफलकसमचतुरश्रकरणे अशुद्धफलोत्पत्तिः सापि वृत्तक्षेत्र-

Page 17
Page 17 scan

( ग )
फलानयने उपकरणभूतस्य व्यासपरिध्योरनुपातस्यासन्नमानपरिग्रहजन्या। नहि व्यासपरि-
ध्योरनुपातस्य यथार्थं मानं ज्ञातुं शक्यत इति तदासन्नमानेनैव सन्तोष्टव्यं पाश्चात्त्य-
विद्वद्भिरपि।
एवञ्च दिङ्निर्णयप्रस्तावे पूर्वापरदिशोरानयनार्थं यः खलु उपायः शुल्वसूत्रेषूपदिष्ट
स्तदनुसरणेन या पूर्वापररेखा लभ्यते सा तु रवेः क्रान्तिशरस्य पूर्वाह्नापराह्वयोर्भिन्नत्वात् नैव-
यथार्थपूर्वापरदिग्गामिनी भवतीति तादृशोपायस्यानुपादेयत्वमिति। तत्रोच्यते—द्वादशाङ्गुल
शङ्कतुल्यत्रिज्यया वृत्तेऽङ्किते परिधिस्तावत् द्विसप्तत्यङ्गुलाधिको भवति। तस्य षष्ठ्युत्तर-
त्रिशततमोभागः खलु अंशस्तुल्यो भवति। तथा च तादृशवृत्तेऽशस्य मानं अङ्गुल्याः पञ्च-
मांशतुल्यं भवेत्। तस्य षष्टिभिर्भागे हृते कलामानं लभ्यते। क्रान्तिस्तावत् एकस्मिन् षष्ठि-
घट्यात्मके दिने चतुर्विंशतिकलातोऽधिका नैव भवति। तथा त्रिंशद्घट्यात्मके दिनार्धे तु
द्वादशकलात्मिका क्रान्तिरेव परमा भवेत्। छायाप्रवेशनिर्गमकालयोरन्तरं यदि पञ्चदश-
घट्यात्मकं कल्प्यते तदा तादृशे कालान्तरे षट्कलातोऽधिका क्रान्तिर्न भवति। षण्णाञ्च
कलानामङ्गुलिमानन्तु अङ्गुलीनां पञ्चाशत्तमभागतुल्यं तदा भवेत् यदि क्रान्ति-
शरस्य वृद्धिः चतुर्विंशतिकलातुल्या परमा कल्प्यते। न च तथास्ति। अतः दिङ्‌निर्ण-
यार्थं कृते वृत्ते पूर्वाह्नापराह्वयोः छायाप्रवेशनिर्गमकालयोरन्तरे रवेर्यः शरान्तरः वास्त
विकस्तस्य वृत्तपरिधौ यथार्थं प्रदर्शनं यज्ञादौ प्रवृत्तानां कृते दुष्करत्वादनावश्यकमेव।
ततश्च दिङ्‌निर्णयप्रकारस्य अवास्तवफलजनकत्वप्रवादोऽपि पाश्चात्त्यानां परोत्कर्षासहिष्णुत्वमेव
द्योतयति।
इदानीं शुल्वसूत्रोपदिष्टानां केषाञ्चित् विषयाणामालोचनं क्रियते। समचतुरश्रे दीर्घ-
चतुरश्रे वा क्षेत्रे सम्पाद्ये लम्बपातनप्रक्रियैव तावदादौ ज्ञेया। परस्परं लम्बभावेनावस्थितैः
रेखाचतुष्टयैर्व्यवच्छिन्नस्य क्षेत्रस्यैव यथासम्भवं समचतुरश्रत्वं दीर्घचतुरश्रत्वं वा भवति। अतः
प्रस्तुते शुल्वसूत्रे प्रथमतः पृष्ठ्यायाः (मध्यरेखायाः) अन्तद्वयं केन्द्रं कृत्वा पृष्ठ्यातुल्य-
त्रिज्यया द्वे वृत्ते अङ्कनीय इत्युपदेशः। तेन च अङ्कितयोर्वृत्तयोः सम्पातजनितमत्स्यमुख-
पुच्छयोः रेखया संयोजनेन तस्याः संयोजिकायाः रेखायाः पृष्ठ्योपरि लम्बत्वं, पृष्ठ्याया-
श्चार्धितत्वं भवतीति प्रत्यक्षसिद्धम्। यूक्लीदेनापि सुबहोः कालानन्तरमपि लम्बपातने, कस्या-
श्चित् सरलायाः रेखायाः तुल्ये विभागे वा कर्त्तव्ये यथायथम् अस्यैव प्रकारस्यानुसरणं कृतं
वेदितव्यम्। अस्य च प्रकारस्य गणितज्ञाननिरपेक्षतया प्रथममुपदेशो बोधायनशुल्वे
कृत इति मन्तव्यः।
पृष्ठ्यां भूमि परिकल्प्य जात्यत्र्यस्रसम्पादनेनापि पृष्ठ्यान्तयोर्लम्बपातनं तत एव च
समस्य दीर्घस्य वा चतुरश्रस्य सिद्धिरिति द्वितीयः प्रकारः। अस्मिंश्च प्रकारे मानार्थंरज्जु-
ग्रहणं तत्र च न्यञ्छनादिचिह्नकरणं गणितज्ञानसाध्यमिति प्रक्रियालाघवे सत्त्वेऽपि गणितज्ञान-

Page 18
Page 18 scan

( घ )
सापेक्षत्वात् अनन्तरमुपदेश इति मन्तव्यः । आपस्तम्बाचार्येण तु अस्यैव प्रकारस्योपदेशः
प्रथमतया कृतो वर्त्तते । तट्टीकाकारेण करविन्दाधिपेनात्र रज्जुग्रहण, तस्यां रज्ज्वन्तरप्रक्षेपः,
तत्र च न्यञ्छनादिचिह्नस्थानानाम् आनयनार्थं काचित् पाटीगणितप्रक्रिया ग्रन्थतात्पर्य्यमनु-
सृत्य प्रदर्शिता । अनया च प्रक्रियया भूमेः (कोटेः), भुजकर्णयोः सङ्कलिते च ज्ञाते जात्य-
त्र्यस्रोत्पादनार्थं भुजकर्णयोर्मानमानेतुं शक्यते । तत्र पृष्ठ्यैव भूमिः, कोटिर्वा, प्रमाण-
रज्जुसंज्ञया उच्यते । भुजकर्णयोः सङ्कलिततुल्या प्रमाणरज्जवां प्रक्षिप्ता रज्जुरेव अभ्यस्तरज्जु-
संज्ञया व्यवह्रियते । तथा च तद्वाक्यम्—
“सर्वेष्वभ्यासेषु साम्यासस्य प्रमाणस्य आगन्तुपरिमिता यावन्तो भागाः सम्पद्यन्ते
तावद्द्विगुणभागं आगन्तुं कृत्वा तस्मिन् भागेनैकेन हीने लक्षणकरणम्” इति । अत्र आगन्तु-
शब्दस्य प्रमाणरज्ज्वां प्रक्षिप्ता अभ्यस्तरज्जुरेवार्थः । अद्यत्वे प्रसिद्धेन प्रकारेण न्यासे
क्रियमाणे—
आ
(१) प्र + —————— = अक्ष्णया (कर्णः)
प्र + आ
२ ——————
आ
आ
(२) आ - —————— = भुजः (पार्श्वमानी)
प्र + आ
२ ——————
आ
यद्यपि एकयैव प्रक्रियया कर्णोभुजश्चानेतुं शक्यते तथापि वैशद्यार्थम् अस्माभिः
प्रक्रियाद्वयं पृथक् लिखितं ज्ञेयम् । अत्र प्र = प्रमाणम्, आ = आगन्तुरिति बोद्धव्यम् ।
अत्रोदाहरणन्तु—यद्येकस्य जात्यत्र्यस्रस्य भूमिः प्रमाणं वा ४ कल्प्यते, तादृशे जात्ये
त्र्यस्रे भुजकर्णयोर्योगे ८ तुल्ये कल्पिते प्रमाणरज्ज्वां प्रक्षिप्ता अभ्यस्तरज्जुः ४ तुल्या
कल्पिता । साम्यासस्य प्रमाणस्य मानं ८ तुल्यं भवति । परं न ज्ञायते कियति कर्णे, भुजे वा
कल्पिते जात्यत्र्यस्रं सम्पत्स्यत इति । दृष्टं तावत् भूमिः ४ भुजकर्णयोर्योगः ८ इति ।
इदानीम् अनया प्रक्रियया न्यासे कृते ।
4 | 4 | 4 1 |
4 + ————— = कर्णः = | 4 + ───── = | 4 + ──── = | 4 + 1 = 5 कर्णः
4 + 4 | 2 8 2 | 4 |
2 ───── | ─── | |
4 | 4 | |
तथा च साम्यासस्य प्रमाणस्य ५ तुल्यो भागः कर्णः, शेषश्च ३ तुल्यो भुजो भवति ।
इति भुजः ३ कोटिः ४ कर्णश्च ५ तुल्यो जातस्तेन च जात्यत्र्यस्रं सम्पन्नम् ।

Page 19
Page 19 scan

( ङ )
द्वितीयेनापि प्रकारेण—
४ ४ ४ १
४ - ────── = भुजः | ४ - ──── = भुजः | ४ - ─── = भुजः
२ ४+४ २ ८ २ ४
─── ───
४ ४
४ - १ = ३ भुजः । शेषः ५ कर्णोभवति । एवं सर्वत्रानुसन्धेयम् ।
द्विसमं-त्रिसमं वा त्रिभुजं सम्पाद्य पृष्ठ्योपरि लम्बपतनं ततश्च समचतुरस्रादिकं
सम्पादनीयमिति तृतीयः प्रकारः । पृष्ठ्यान्तयोः शङ्कू निहन्यात् । एकैकं शङ्कुमभितः
तुल्येऽन्तराले पूर्वपश्चिमयोः शङ्कुद्वयं निक्षेपेम् । प्रमाणभूतां रज्जुम् उभयतःपाशां कृत्वा
तन्मध्ये न्यञ्छनार्थं चिह्नं कर्त्तव्यम् । इदानीं पृष्ठ्यान्तशङ्कुमभितः निखातयोः शङ्क्वयोः
रज्ज्वन्तपाशद्वयं निःक्षिप्य न्यञ्छनेन रज्जुं दक्षिणस्यामुत्तरस्यां वा दिशि आकर्षणयीम् ।
तेन द्विसमं त्रिसमं वा त्रिभुजं सम्पद्यते । तस्माच्च न्यञ्छनाख्यान्मध्यचिह्नात् पृष्ठ्यान्त-
शङ्कोरुपरि रेखा कर्त्तव्या । सा च पृष्ठ्यान्ते लम्बिता भवति । ततः समं दीर्घं वा चतुरस्रं
सम्पद्यते ।
एते उल्लिखिता उपायाः समकर्णस्य समचतुरस्रस्य तथाविधदीर्घचतुरस्रस्य वा
सम्पादने उपयोगिनः । विषमकर्णचतुरस्रं तावदुभयतः प्रउगमित्युच्यते । तादृशञ्च क्षेत्रं
प्रउग ( त्रिभुज ) क्षेत्रद्वयकल्पनेन विधेयमिति शुल़्वसूत्रकाराणां सम्प्रदाय इति मन्तव्यम् ।
प्रउगं नाम शकटमुखं, समद्विबाहुकं वा त्रिभुजं क्षेत्रमुच्यते । शकटमुखसादृश्यात् तादृशं
क्षेत्रमपि तन्नाम्ना ख्यायते शुल्यसूत्रेषु । तथा च एकस्यां भूमौ यदि विपरीतदिशि
समाद्वबाहुकं त्रिभुजं क्षेत्रद्वयं सम्पद्यते तदा तस्य क्षेत्रस्य विषमकर्ण चतुरस्रत्वमर्थादापन्नं
भवति । इष्टक्षेत्रफलतो द्विगुणं समचतुरस्रं, दीर्घचतुरस्रं वा क्षेत्रं सम्पाद्य ततो ग्रन्थोक्तक्रमेण
उभयतः प्रउगक्षेत्रनिष्पत्तिरिति ज्ञेयम् ।
अथेदानीं चतुरस्रक्षेत्रयोः समासनिर्हारयोः प्रकार आलोच्यते । अयञ्च प्रकारः
पाश्चात्त्येषु क्षेत्रव्यवहारगणित ( Mensutation ) ग्रन्थेषु नैव आलोचितो दृश्यते ।
समासो नाम द्वयोः चतुरस्रयोः क्षेत्रफलसङ्कलित-तुल्यक्षेत्रफलकचतुरस्रनिष्पत्तिरित्युच्यते ।
निर्हारश्च महतश्चतुरस्रादल्पचतुरस्रस्य निरसनमुच्यते । चतुरस्रशब्देन च समकर्ण-
चतुरस्रस्यैव ग्रहणं सूत्रकृदभिमतम् । विषमकर्णसमचतुरस्रस्य तु उभयतः प्रउगक्षेत्रत्वं
पूर्वमेवोक्तम् । विषमकर्णविषमचतुरस्रस्य श्रौतकार्येषु उपयोगाभावात् शुल्यसूत्रेष्वनधिकृतत्वं
मन्तव्यम् । क्रियतेऽनयेति व्युत्पत्त्या करणीनां क्षेत्रफलजनकत्वं अर्थादापन्नम् । अनन्तर-
करण्योर्गुणनफलं तावत् क्षेत्रफलमित्युच्यते । क्षेत्रयोः समासे क्षेत्रफलस्य वृद्धिः, निर्हारे च
ह्रासः इति पूर्वमेवोक्तम् । क्षेत्रफलस्य ह्रासो वृद्धिवर्वा करणीनां यथायथं ह्रासवृद्धिसाध्यमिति

Page 20
Page 20 scan

( च )

तु तयोः ( करणी-क्षेत्रफलयोः ) स्वरूपादेवावगम्यते । तस्मात् क्षेत्रयोः समासे कर्त्तव्ये
उद्दिष्टक्षेत्रकरणीतः समस्तक्षेत्रकरणीनां वृद्धिः, निर्हारे च क्षेत्रकरणीनां ह्रासो भवतीति
तात्पर्यम् । करणीनां वृद्धयर्थं न्यायस्तावत् ग्रन्थकृता “समचतुरश्रस्याक्षणया रज्जुर्द्विस्तावतीं
भूमिं करोतीति; दीर्घचतुरश्रस्याक्षणया रज्जुः पार्श्वमानी तिर्यङ्‌मानी च यत् पृथग्भूते
कुरुतस्तदुभयं करोतीति” सूत्राभ्यां प्रकाशितो वर्त्तते ।
उल्लिखिते प्रथमे सूत्रे “तावर्ती भूमिं द्विः करोति” इति वचनात् क्षेत्रफलस्य
द्वैगुण्यसाधिका तावदक्षणयारज्जुमिता करणी ( पार्श्वमाणी ) समचतुरस्रे क्षेत्रे भवतीति
लभ्यते । तदर्थश्च आलापविषयभूतस्य क्षेत्रस्य अक्षणया रज्ज्वा करणीभूतया यदि समचतुरस्रान्तरं
क्रियते चेत् तदा तादृशक्षेत्रस्य फलम् आलापविषयभूतक्षेत्रस्य फलतो द्विगुणं भवेदिति । सर्वथा
तुल्ययोः समचतुरस्रयोः समासस्थले क्षेत्रफलस्य वृद्धिस्तावत् उभयोः क्षेत्रफलयोः सङ्कलिततुल्या
द्विगुणेति यावद् भवतीति गणितेन लभ्यते । इदानीं तादृशसङ्कलिततुल्यक्षेत्रफलजनिका करणी
कियन्मिता भवेदिति जिज्ञासायाम् उक्तेन न्यायेन द्विगुणक्षेत्रफलजनकत्वं तु आलापविषय-
भूतक्षेत्रस्याक्षणयारज्जुमितायाः करण्या एवेति ज्ञायते । तया करण्या क्षेत्रसम्पादनेन च
द्विगुणक्षेत्रफललाभः सुकरः ।
अतुल्यसमचतुरस्रयोः समासे तु नायं न्यायः प्रवर्त्तते । क्षेत्रफलसङ्कलितस्य द्वैगुण्या-
भावादिति तादृशं स्थलमुद्दिश्य दीर्घचतुरस्रस्येत्यादिवचनमवगन्तव्यम् । तदर्थंश्च आलाप-
विषयभूतस्य दीर्घचतुरस्रस्याक्षणयारज्जुमितया करण्या यदि समचतुरस्रान्तरं क्रियते तदा
तादृशसमचतुरस्रस्य क्षेत्रफलं तावत् उक्तस्य दीर्घचतुरस्रस्य, पार्श्वमान्या करणीभूतया
सम्पादितस्य समचतुरस्रस्य, तिर्यङ्‌मान्या च करणीभूतया सम्पादितस्य समचतुरस्रस्य च
क्षेत्रफलयोः सङ्कलिततुल्यं भवतीति । अतुल्यसमचतुरस्रयोः क्षेत्रफलसङ्कलितं तावत् तयोरेकस्य
पार्श्वमान्या पार्श्वमानीभूतया, अन्यस्य च पार्श्वमान्या तिर्यङ्‌मानीभूतया सम्पादितस्य दीर्घ-
चतुरस्रस्य अक्षणया करणीभूतया सम्पादितसमचतुरस्रस्य क्षेत्रफलतुल्यं भवतीति गणितयुक्त्या
ज्ञायते । कर्णवर्गस्य भुजवर्ग-कोटिवर्गयोर्योगतुल्यत्वात् । भुजकोट्योरेव शुल्बसूत्रेषु पार्श्वमानी-
तिर्यङ्‌मानीति कर्णस्य च अक्षणयेति पारिभाषिकी संज्ञा प्रसिद्धा । करणी तु वर्गमूलस्य वाचिकेति
शुल्बसूत्रवित्सु बहुलम् । तस्मात् उक्तस्थले पार्श्वमान्या करणीभूतया सम्पादितसमचतुरस्रस्य
क्षेत्रफलं तावद् पार्श्वमानीत्यपराख्यस्य भुजस्य मूलत्वेन करणीभूतस्य वर्गराशितुल्यं भवति ।
एवं तिर्यङ्‌मानीत्यपराख्यायाः कोटेर्मूलत्वेन करणीभूतायाः वर्गराशितुल्यमेव तिर्यङ्‌मान्यां
करणीभूतया सम्पादितसमचतुरस्रस्य क्षेत्रफलं ज्ञेयम् । तयोर्वर्गराश्योर्योगतुल्यत्वमेव
अक्षणयेत्यपराख्यस्य कर्णवर्गस्येति । तादृशदीर्घचतुरस्रस्य अक्षणया करणीभूतया सम्पादित-
समचतुरस्रक्षेत्रस्य फलं उक्तयोः क्षेत्रयोः फलसङ्कलिततुल्यं भवेदिति ।
तस्मादतुल्यसमचतुरश्रयोः समासे कर्त्तव्ये द्वयोरतुल्ययोः समचतुरस्रयोरेकस्य
पार्श्वमानीं पार्श्वमानीकृत्य, अपरस्य च पार्श्वमानीं तिर्यङ्‌मानीकृत्य दीर्घचतुरस्रमेकं सम्पाद्य