बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
by महर्षि बौधायन
Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)
Page 223 of 486
Read in contextद्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७१
व्यक्ति का खेत में गिरे अन्न को एकत्र कर जीवनवृत्ति चलाना, समावर्तन संस्कार होने के बाद भी भिक्षा मांग कर जीविका निर्वाह करना, समावर्तन के बाद चार मास से अधिक गुरु के यहां निवास करना, ऐसे समावर्तन संस्कार के बाद गुरुकुल में निवास करने वाले व्यक्ति का अध्यापन करना और नक्षत्रों का निर्देश कर ज्योतिष द्वारा जीविका निर्वाह करना ये सभी अशुद्धि उत्पन्न करने वाले कर्म हैं ॥८॥
द्यूतमक्षादिभिर्देवनम् । अभिचारः श्येनाद्यनुष्ठानम् । उञ्छः पथि क्षेत्रे वाऽनाघृते देशे एकैककणिशोद्धरणं तेन वर्तनमुञ्छवृत्तिः । सा चाऽनाहिताग्नेरशुचिकरा । आहिताग्नेस्तु विहिता ! तथा हि—
वर्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः ।
इष्टीः पार्वणनान्तीयाः केवला निर्वपेत्सदा ॥ इति ।
समावृत्तो गृहस्थस्तस्य भिक्षाचर्या । तस्य चैव समावर्तनप्रभृति मासचतुष्टयादूर्ध्वं गुरुकुले वासः । अतस्तस्य मासद्वयं मासचतुष्टयं वा गुरुकुलवास इष्यत एव । तथा चाऽपस्तम्बः—'द्वौ द्वौ मासौ समाहित आचार्यकुले वसेत् भूयश्श्रुतमिच्छन्' । इति तस्यैवमुक्तलक्षणात् कालादूर्ध्वं यदध्यापनं तदप्यशुचिकरम् । अतश्चैतत् ज्ञापितं यावन्मरणं विद्यासङ्ग्रहः कार्य इति । तदुक्तम्—
वलीपलितकालेऽपि कर्तव्यश्श्रुतिसङ्ग्रहः ॥ इति ॥
नक्षत्रनिर्देशो ज्योतिःशास्त्रोपजीवनम् । चशब्दात् प्रतिमालेखनगृहस्थपरपाकोपजीवनानि गृह्यन्ते ॥ ८ ॥
यान्येतान्यशुचिकराणि—
'तेषां तु निर्वेशो द्वादश मासान् द्वादशाऽर्धमासान् द्वादश द्वादशाहान् द्वादश षडहान् द्वादश त्र्यहान् द्वादशाहं षडहं त्र्यहमहोरात्रमेकाहमिति यथाकर्माभ्यासः ॥ ९ ॥
अनु०—ऐसे अशुचियुक्त व्यक्तियों का प्रायश्चित्त दुष्कर्म की मात्रा के अनुसार बारह मास, बारह पक्ष, बारह-बारह दिनों की अवधि, बारह छः दिनों की अवधि, बारह तीन दिनों की अवधि, बारह दिन, छः दिन, तीन दिन-रात्रि या एक दिन व्रत करना होता है ॥ ९ ॥
अत्र षडहात् प्राग्ये काला निर्दिष्टाः तान् प्राजापत्येन याजयेत् । षडहादींस्त्वनशनेन । यथा पापस्य कर्मणोऽभ्यासस्तथा सेवा । तत्र गुर्वभ्यासे गुरुकल्पः । मध्यमे मध्यमः । लघौ लघुः ॥ ९ ॥
१. सूत्रमिदं समानाक्षरमेव आप. ध. १. २९ १७-१८ द्रष्टव्यम् ।