आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
by महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य)
Source: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (origin)
Page 240 of 292
Read in context१८८ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
दशीत्रयोदशीपञ्चदशीषु एकनक्षत्रे दिवसे कर्तव्यम् । सा दशमी यद्यन्तर्दशाहे भवति तत्रैव कर्तव्यम् । अथ बहिर्दशाहात् संचयनमपि तत्रैव । अपर आह — दशमी रात्रिर्गृह्यते मृताहादारभ्य तस्या ऊर्ध्वमित्यादीति ॥ १ ॥
लक्षणे कुम्भे पुमांसम् ॥ २ ॥
लक्षणे लक्षणयुक्ते शुभे कुम्भे पुमांसं संचिन्वीरन् पुंसोऽस्थीनीत्यर्थः ॥ २ ॥
अलक्षणायां स्त्रियम् ॥ ३ ॥
अलक्षणायां कुम्भ्यां स्त्रियोऽस्थीनि संचिन्वीरन् ॥ ३ ॥
अयुजोऽमिथुनाः प्रवयसः ॥ ४ ॥
व्याख्यातम् । एते संचेतारः ॥ ४ ॥
क्षीरोदकेन शमीशाखया त्रिः प्रसव्यायतनं परिव्रजन् प्रोक्षति शीतिके शीतिकावतीति ॥ ५ ॥
क्षीरमिश्रेणोदकेन ॥ ५ ॥
अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्लादयन्तोऽवदध्युः ॥ ६ ॥
संह्लादः शब्दः, यदि ग्रावाणः संह्लादेरन्निति दर्शनात् । उपकनिष्ठिकानामिका । अङ्गुष्ठोपकनिष्ठिकाभ्यामङ्गुलीभ्याम् एकैकमस्थ्यादाय असंह्लादयन्तोऽस्थ्नां परस्परसङ्घट्टनेन शब्दो यथा न स्यात् तथा कुर्वन्तः कुम्भेऽवदध्युः ॥ ६ ॥
पादौ पूर्वं शिर उत्तरम् ॥ ७ ॥
तत्र पादास्थीनि पूर्वमवदध्युः । ततोऽङ्गान्तराणि क्रमेणाशिरसः । चरमं शिरःकपालम् ॥ ७ ॥