Skip to content
SarvaKosh
Back to the archive

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

by महर्षि आपस्तम्ब / हरदत्त टीका

Report a copyright issue

DevanagariSanskritpublished399 pages

About this granth

The Apastamba Dharmasutra (आपस्तम्बधर्मसूत्र) belongs to the Kalpasutra of the Apastamba school of the Taittiriya branch of the Black Yajurveda and is among the oldest surviving dharmasutras. Written in terse sutras, it is divided into two prashnas, each made up of patalas and khandas.

The first prashna deals with initiation, the duties of the student and conduct towards the teacher, purity and impurity, permitted and forbidden food, and penances. The second treats the householder, the five great daily offerings, hospitality, marriage, inheritance, the duties of the king, punishment and legal procedure. It is a primary source for early Indian law and social history.

This edition gives the sutras with Haradatta Mishra's Sanskrit commentary Ujjvala, edited with notes, introduction and word index by Pandit A. Chinnaswami Shastri of Benares Hindu University and Pandit A. Ramanatha Shastri of the Sanskrit College, Tirupati. It is number 93 of the Kashi Sanskrit Series, published by the Chowkhamba Sanskrit Series Office, Benares, in 1932, and has 399 pages.

Page 31
Page 31 scan

सर्वं लाभमाहरन् गुरवे सायं प्रातरमन्त्रेण भिक्षाचर्यं
चरेद्भिक्षमाणोऽन्यत्राऽपपात्रेभ्योऽभिशस्ताच्च ॥ २५॥
अपपात्रा प्रतिलोमजा रजकादयः। अपगतानि हि तेषां पात्राणि
पाकाद्यर्थानि चतुर्भिर्वणैस्सह। अभिशस्तान् वक्ष्यति 'अथ पतनीयानी'
त्यादिना। तानुभयान् वर्जयित्वा अन्यत्र भिक्षेत । तत्र भिक्षमाणस्सर्वं
लाभ यच्च यावच्च लब्धं गोहिरण्यादि तत्सर्वं(१)ममायया गुरवे आह-
: रेत् । एवमहरहः कुर्वन् सायं प्रातरमन्त्रेण न हस्तादिना भिक्षाचर्यं भिक्षा-
: चरणं चरेत् कुर्यात् । 'सायं प्रात' रिति वचनान्न सायं गृहीतेन प्रातरा
: शः, नापि प्रातर्गृहीतेन सायमाश. ॥ २५ ॥
: अथ भिक्षाप्रत्याख्यानं निन्दितुं ब्राह्मणमाकृष्यते-
: स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्टं
: दत्तं हुतं प्रजां पशून् ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते । तस्मादु ह वै
: ब्रह्मचारिसङ्घं चरन्तं न प्रत्याचक्षीतापि हैष्वेवंविध
: एवंव्रतः स्यादिति हि(२) ब्राह्मणम् ॥ २६ ॥
: व्याख्यातः समाहितः। समाहितो ब्रह्मचारी याभिः स्त्रीभिः भिक्षमाणः
: प्रत्याख्यायते तासां प्रत्याचक्षाणाना स्त्रीणामिष्टं यागैरार्जितं धर्मं, दत्तं दानेना
: र्जितं हुतं दर्विहोमैश्च गार्हस्थ्यार्जित सर्वमेव धर्मं वृङ्क्ते आच्छिनत्ति ;
: यस्मादेवं तस्मात् ब्रह्मचारिसङ्घ चरन्त न प्रत्याचक्षीत । उ ह वा इति निपाता
: वाक्यालङ्कारार्थाः । अपिशब्दौ कदाचिदित्येतमर्थं द्योतयतः । एषु
: सङ्घीभूतेषु ब्रह्मचारिषु कदाचिदेवंविध समाहित एवव्रतः 'अथ ब्रह्म
: चर्याविधि' रित्यारभ्य यान्युक्तानि तद्वान् ब्रह्मचारी स्यात् । (३)सम्भा-
: वने लिङ् । सम्भवेत् । तस्मान्न प्रत्याचक्षीतेत्येवं ब्राह्मण भवतीति ॥२६॥
: नानुमानेन भैक्षमुच्छिष्टं दृष्टश्रुताभ्यां तु ॥ २७ ॥
: १. अमाययेति. नास्ति क. पु. सर्वमादाय इति ग. पु.
: २. "ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्यं चारेष्यति ब्रूतास्मै भिक्षा इति गृह-
: पतिर्ब्रूत बहुचारी गृहपत्नया इति किमस्या वृञ्जीताददत्या इति, इष्टापूर्तँसुकृतद्रविणमवरु-
: न्ध्यादिति, तस्मात् ब्रह्मचारिणेऽहरहर्भिक्षां गृहिणीमार्थयुरिष्टापूर्तसुकृतद्रविणमवरुन्ध्या
: दिति" इति गोपथब्राह्मणम् । (गो. ब्रा. १. २, ६)
: ३. सम्भावनाया लिङ्. इति. ख. पु.

Page 32
Page 32 scan

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २१
भिक्षाणां समूहो भैक्षम् । न तल्लिङ्गाभासेनानोच्छिष्टं मन्तव्यम् । किं
तु दृष्टश्रुताभ्यामेव । दृष्टमात्मनः प्रत्यक्षम् । श्रुतमाप्तोपदेशः । ताभ्यामेव
तदुच्छिष्टमवगन्तव्यम् । अयमंशः प्राप्तानुवादोऽपूर्वमंशं विधातुम् ।
यथा(१)'नानुवषट्करोति, अपि वोपांश्वनुवषट्कुर्यात्' इति ॥ २७ ॥
(२)भवत्पूर्वया ब्राह्मणो भिक्षेत ॥ २८ ॥
ब्राह्मणो ब्रह्मचारी भवत्पूर्वया वाचा भिक्षेत भिक्षां याचेत—‘भवति भि-
क्षां देही’ ति ॥ २८ ॥
भवन्मध्यया राजन्यः ॥ २९ ॥
‘भिक्षां भवति देही’ति राजन्यो भिक्षेत ॥ २९ ॥
भवदन्त्यया वैश्यः ॥ ३० ॥
‘भिक्षां देहि भवती’ति ॥ ३० ॥
‘सर्वं लाभमाहरन् गुरव’ इत्युक्तम् । अथाऽऽहृतं किं कर्तव्यमित्यत आह-
तत्समाहृत्योपनिधायाऽऽचार्याय प्रब्रूयात् ॥३१॥
तत् भैक्षं समाहृत्य समीपे निधायाचार्याय प्रब्रूयात्-इदमित्थमाहृतमिति॥३१॥
तेन प्रदिष्टं भुञ्जीत ॥ ३२ ॥
तेन ह्याचार्येण प्रदिष्टं सौम्य त्वमेव भुङ्क्ष्वेत्युक्तं भुञ्जीत ॥ ३२ ॥
विप्रवासे गुरोराचार्यकुलाय ॥ ३३ ॥
यदि गुरुर्विप्रोषितोऽसन्निहितः स्यात् तत् आचार्यकुलायाऽऽचार्यस्य
यत्कुलं भार्यापुत्रादि तस्मै ब्रूयात् । तेन प्रदिष्टं भुञ्जीत ॥ ३३ ॥
तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ॥ ३४ ॥
तैस्स्वकुल्यैस्सह गुरोः विप्रवासे अन्येभ्योऽपि “(३)श्रोत्रियेभ्य. प्रब्रूयात् ।
तैः प्रदिष्टं भुञ्जीतेति विपरिणामेनान्वयः । गौतमोऽप्याह(४) “असन्निधौ
तद्भार्यापुत्रसब्रह्मचारिभ्यः’ इति ॥ ३४ ॥
नाऽऽत्मप्रयोजनञ्चरेत् ॥ ३५ ॥
१. आप. श्रौ. १३. १४. ९, १० सोमयागे पत्नीवतग्रहे प्राप्तस्याप्यनुवषट्कार-
निषेधस्य उपांश्वनुवषट्कारविधानार्थं नानुवषट्करोतीत्यनुवादः ।
२. इतः सूत्रत्रयमेकीकृतं ग. पुस्तके ।
३ श्रोत्रियपदार्थः आप. ध. २. ४. ६ सूत्रे द्रष्टव्य. । ४. गौ. ध. २. ४०.

Page 33
Page 33 scan

२२ आपस्तम्बधर्मसूत्रे • [ (प. १.) कं. ३.
आत्मा प्रयोजनं प्रयोजकः यस्य स आत्मप्रयोजन । एवंभूतो भिक्षां
न चरेत् आत्मार्थे न चरेदित्यर्थः । अस्य प्रयोजनं यदा श्रोत्रिया अपि न
लभ्यन्ते तदा(१)'प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीते'ति वक्ष्यमाणमप्रोषि-
तेऽपि यथा स्यादिति ॥ ३५ ॥
भुक्त्वा स्वयममत्रं प्रक्षालयीत ॥ ३६ ॥
अमत्रं भोजनपात्रम्, भुक्त्वेति सन्निधानात् । तत्स्वयमेव प्रक्षालयीत
प्रक्षालयेत् । भिक्षापात्रस्य त्वन्येन प्रक्षालने न दोषः । उभयोरपि पात्रयो
र्ग्रहणमित्यन्ये ॥ ३६ ॥
न चोच्छिष्टं कुर्यात् ॥ ३७ ॥
यावच्छक्नोति भोक्तु तावदेव भोजनपात्रे कृत्वा भुञ्जीत ॥ ३७ ॥
अशक्तौ भूमौ निखनेत् ॥३८॥
भोजने प्रवृत्तो यदि तावद्भोक्तुं न शक्नुयात् तदा तदन्नं भूमौ
निखनेत् ॥ ३८ ॥
अप्सु वा प्रवेशयेत् ॥ ३९ ॥
अप्सु प्रक्षिपेत् ॥ ३९ ॥
आर्याय वा पर्यवदध्यात् ॥ ४० ॥
आर्यस्त्रैवर्णिकः तस्मै अनुपनीताय पर्यवदध्यात् सर्वमेकस्मिन्पात्रेऽव-
धाय तत्समीपे भूमौ स्थापयेत् ॥ ४० ॥
अन्तर्धिने वा शूद्राय ॥ ४१ ॥
अन्तर्द्धानमन्तर्धिः सोऽस्यास्तीति । व्रीह्यादित्वादिनिः । अन्तर्धी दा-
सः । अन्तर्हितं हि तस्य शूद्रत्वम्, आशौचेषु स्वामितुल्यत्वात् । प्रक-
रणादाचार्यस्येति गम्यते । आचार्यदासाय वा शूद्राय पर्यवदध्यात्४१॥
प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीत ॥ ४२ ॥
यदि शिष्य आचार्यार्थमात्मार्थं वा प्रोषितः स्यात् तदा भैक्षात् कि
ञ्चिदादायग्नौ कृत्वा प्रक्षिप्य शेष भुञ्जीत श्रोत्रियाणां सद्भावे असद्भावे
च । 'अन्यभ्योऽपि श्रोत्रियेभ्य'(२) इत्येतन्न भवति । यदि स्यात्तत्रैवायं
ब्रूया 'तदभावेऽग्नौ कृत्वा भुञ्जीते' ति । यद्यपि तत्राचार्यस्य प्रवासः
१. आप. ध. १. ३. ४२ २ इत्येतत्तत्र न भवति. इति ख. पु.

Page 34
Page 34 scan

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २३
प्रकृतः, तथापि न्यायसाम्याच्छिष्यस्यापि विप्रवासे भविष्यति ॥ ४२ ॥
अथ ब्रह्मचारिणो यज्ञं विधातु हविरादीनि सम्पादयति—
भैक्षं हविषा संस्तुतं तत्राऽऽचार्यो देवतार्थे ॥ ४३ ॥
भैक्षं हविष्येन सस्तुतं कीर्तितम् । तत्र तस्मिन् हविषि आचार्यो देवतार्थे
देवताकार्ये तत्प्रीत्यर्थत्वात्तस्य ॥ ४३ ॥
आहवनीयार्थे च ॥ ४४ ॥
तस्य जाठराग्नौ हूयमानत्वात् ॥ ४४ ॥
तं भोजयित्वा ॥ ४५ ॥
इति प्रथमप्रश्ने तृतीया कण्डिका ।
यदुच्छिष्टं प्राश्नाति ॥ १ ॥
अनुवादेषु सर्वत्र विधिः कल्प्यते । तं भोजयेत् । भोजयित्वा
तस्योच्छिष्टं प्राश्नीयात् प्राश्नाति । शकारोऽपाठश्छन्दसो वा, 'शादि'ति
श्चुत्वप्रतिषेधात् ॥ ४५ ॥ १ ॥
हविरुच्छिष्टमेव तत् ॥ २ ॥
इडाभक्षणादिस्थानीयमित्यर्थः ॥ २ ॥
यदन्यानि द्रव्याणि यथालाभमुपहरति
दक्षिणा एव ताः ॥ ३ ॥
यदन्यानि द्रव्याणि गवादीनि भिक्षाचरणे लब्धानि समिदादीनि च
स्वयमाहृतानि यथालाभमुपहरति दक्षिणा एव ताः। दक्षिणासामानाधिकरण्या-
त्ता इत्युक्तम् ॥ ३ ॥
स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ॥ ४ ॥
स एष एवंभूतो यज्ञः ब्रह्मचारिणो नित्यं प्रतायते । एवं कुर्वता ब्रह्मचा
रिणा यज्ञ एव नित्यं क्रियत इत्यर्थः ॥ ४ ॥
न चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात् ॥ ५ ॥
अस्मै शिष्याय आचार्यः श्रुतिविप्रतिषिद्ध शास्त्रविप्रतिषिद्धमुच्छिष्टं न
दद्यात् ॥ ५ ॥

Page 35
Page 35 scan

२४ आपस्तम्बधर्मसूत्रे [ (प्र.१) कं ४.
किं पुनस्तत्-
यथा क्षारलवणमधुमांसानीति ॥ ६ ॥
यथेतिवचना'च्छ्रुतिविप्रतिषिद्ध'मिति लक्षणतः प्रतिषेधाच्च क्षारा-
दिग्रहणमेवंविधस्योपलक्षणम् ॥ ६ ॥
एतेनान्ये नियमा व्याख्याताः ॥ ७ ॥
अभ्यङ्गशेषो गन्धशेषो माल्यशेष इत्यादयो ब्रह्मचारिणः प्रतिषि-
द्धा आचार्येण न देया इत्युक्तं भवति ॥ ७ ॥
केचित्तु श्रुतिविप्रतिषिद्धमाचार्यशेषमुपयुञ्जाना दृश्यन्ते पूर्वः पूर्व
आचारः प्रमाणमिति वदन्तः । तान्निराकरोति-
श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ॥ ८ ॥
अनुमानाय प्रभवतीत्यानुमानिकः । आचाराद्धि श्रुतिः स्मृतिर्वाऽनु-
मीयते । तस्मादानुमानिकादाचारात्प्रत्यक्षश्रुतिर्बलीयसी । तद्विरोधे तु नानु-
मातुं शक्यते, (१) 'अनुमानमबाधितम्' इति न्यायात्। एव च ब्रुवता ब्रह्म-
चारिणः क्षारलवणादिप्रतिषेधः प्रत्यक्षब्राह्मणमूल इति दर्शितं भवति ।
यद्यपि क्षारादिप्रतिषेधश्रुतेरुच्छिष्टव्यतिरिक्तको विषयः सम्भवति तथापि
सङ्कोचोऽपि तस्या अविशेषप्रवृत्ताया आनुमानिकादाचारादयुक्तः॥ ८ ॥
ननु परस्परविरुद्धा अपि श्रुतय उपलभ्यन्ते (२) 'गृह्णाति, न गृह्णा-
ती'ति । तत्किमाचारात् सङ्कोचिका श्रुतिर्नानुमीयते ? अत आह-
दृश्यते चापि प्रवृत्तिकारणम् ॥९॥
स्यादेव यद्ययमाचारोऽगृह्यमाणकारणः स्यात् । गृह्यते तु तत्र कार-
णम् ॥ ९ ॥
किं तत् ?
प्रीतिर्ह्युपलभ्यते ॥ १० ॥
क्षारादिभोजने भुञ्जानस्य प्रीतिर्भवति । ततश्च यत्र प्रीत्युपलब्धित
१. अनुमानबाधित इति न्यायात, इति. क. पु
२. अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति. इति श्रुतिभ्यामेकस्मि-
न्नेवातिरात्रसंस्थाके ज्योतिष्टोमे षोडशिसंज्ञस्य ग्रहस्य ग्रहणाग्रहणयोः परस्परविरुद्धयोर्वि-
धानात् तयोरपि श्रुत्यो परस्परं विरोधादिति भावः । उलूखलाकार उपर्यासेचनवान्
पात्रविशेषो ग्रहः । खदिरवृक्षनिर्मितो ग्रहविशेषष्षोडशी । तस्य सोमरसेन पूरणं ग्रहणम् ।

१. प्रथम प्रश्न (पटल १-५): उपनयन व ब्रह्मचर्य विधि

Page 36
Page 36 scan

ब्रह्मचारिनियमः] उज्ज्वलोपेते प्रथमः प्रश्नः। २५
प्रवृत्तिर्न तत्र शास्त्रमस्ति। तदनुवर्तमानो नरकाय राध्यतीति न्यायान्न
सङ्कोचिका श्रुतिरनुमीयते इति ॥ १० ॥
पितुर्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम् ॥ ११ ॥
(१)स्पष्टम् ॥ ११ ॥
धर्मविप्रतिपत्तावभोज्यम् ॥ १२ ॥
यदि तयोर्धर्माद्विप्रतिपत्तिरपायो भवति ततो न भोज्यम् । यद्वा
भुञ्जानस्य ब्रह्मचारिणो धर्मविप्रतिषेधो भवति मधुमांसादिमिश्रत्वेन
ततो न भोज्यमिति ॥ १२ ॥
सायं प्रातरुदकुम्भमाहरेत् ॥ १३ ॥
आचार्यस्य स्नानपानार्थम् ॥ १३ ॥
(२)सदाऽरण्यादेधानाहृत्याऽधो निदध्यात् ॥ १४ ॥
सदा प्रत्यहमरण्यात् न पित्रादिगृहात् एधान् काष्ठानि आचार्यगृहे
पाकार्थमाहरेत् आहृत्य चाऽधो निदध्यात् अधोनिधानमाचार्यपुत्रादिषु
बालेषु पतनशङ्कया। अपर आह-आत्मनस्समिदाधानार्थं(३)मेधाहिरण-
मिति । उक्त गृह्ये-(४)'एवमन्यस्मिन्नपि सदाऽरण्यादेधानाहृत्य। इति।
तदनुवादेनाधोनिधानं विधीयते दृष्टार्थमदृष्टार्थं वेति ॥ १४ ॥
नास्तमिते समिद्धारो गच्छेत् ॥ १५ ॥
अस्तमित आदित्ये समिध आहर्तुं न गच्छेत्; चोरव्याघ्रादिसम्भवात् ।
समिद्धार' इति(५)'अण् कर्मणि चे' ति तुमर्थेऽण्प्रत्ययः ॥ १५ ॥
अग्निमिध्वा परिसमूह्य समिध आदध्यात्सायं-
प्रातर्यथोपदेशम् ॥ १६ ॥
परिसमूहनं परितो मार्जनम् । विप्रकीर्णस्याग्ने(६)रेकीकरणमित्यन्ये ।
यथोपदेशं यथा गृह्य उक्तं तथा समिध आदध्यात् । गृह्ये विहितमपि स-
१. स्पष्टोऽर्थः इति० ग० पु०
२. “तस्मात् ब्रह्मचार्यहरहस्समिध आहृत्य साय प्रातरग्नि परिचरेत, नोपर्युपसादयेत,
अधः प्रतिष्ठापयेत्” ( गोप १ २. ६.) इति गोपथब्राह्मणम् ॥
३. इध्माहरणं इति क. ख. पु. ४. आप० गृ० ११. २२.
५. पा० सू० ३. ३. १२. ६. राशीकरणमित्यन्ये इति ख० ग० पु०
आप० ध० ४

Page 37
Page 37 scan

२६ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क.४.
मिदाधाने विधीयते सर्वचरणार्थम् । सायं प्रातरित्यादिकान्विशेषा-
न् वक्ष्यामीति च ॥ १६ ॥
सायमेवाऽग्निपूजेत्येके ॥ १७ ॥
एके आचार्यास्सायमेवाग्निपूजा कार्या, न प्रातरिति मन्यन्ते ॥ १७ ॥
समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या ॥ १८ ॥
समिदाधाने समिद्धमग्निं पाणिनेव परिसमूहेत्, न समूहन्या । समूहनी स-
म्मार्जनी दर्भनिर्मिता वेदाकृतिः, आचारात् ॥ १८ ॥
प्राक्तु याथाकामी ॥ १९ ॥
प्राक्समिदाधानात् परिसमूहने याथाकामी भवति । यथाकामस्य
भावो याथाकामी । ष्यञ्, षित्वादीकारः ॥ १९ ॥
नाऽग्न्युदकशेषेण वृथाकर्माणि कुर्वीताऽऽचामेद्वा ॥२०॥
अग्निपरिचर्यायां परिसमूहने परिषेचने च यदुपयुक्तमुदकं,
तच्छेषेण वृथाकर्माणि अदृष्टप्रयोजनरहितानि पादप्रक्षालनादीनि न कुर्वीत।
नाऽप्याचामेत् । अवृथाकर्मत्वादस्य पुनःप्रतिषेधः ॥ २० ॥
पाणिसंक्षुब्धेनोदकेनैकपाण्यावर्जितेन च
नाऽऽचामेत् ॥ २१ ॥
पाणिसंक्षुब्धं (१)पाणिना सङ्क्षोभित तेनोदकेन नाऽऽचामेत् । इदं तटाकादिषु
स्वयमाचमने । यदा पर आचामयति, तदैकेन पाणिना यदावर्जितं
तेन नाऽऽचामेत् । किं तु उभाभ्यां हस्ताभ्यां करकादि गृहीत्वा यदावर्जि-
तमुदकं, तेनैवाऽऽचामेत् । एवं च स्वयं वामहस्तावर्जितेनापि नाचामेत् ।
(अलाबुपात्रेण नालिकेरेण वैणवेन चर्ममयेन ताम्रमयेन वा पात्रेण
स्वयमाचमनमाचरन्ति शिष्टाः) ॥ २१ ॥
स्वप्नं च वर्जयेत् ॥ २२ ॥
पूर्वं 'मदिवास्वापी' (१. २ २८)त्यनेन (२)दिवास्वापः प्रतिषिद्धः ।
अनेन रात्रावपि यावदाचार्यो न स्वपिति, तावन्तं कालं स्वापः प्रतिषि-
१. कुम्भादिगतमित्यधिकं घ. पु. ( ) एतच्चिन्हान्तर्गतो भागः ख० पुस्तके नास्ति ।
२. दिवास्वापप्रतिषेधः इति, क. पु.

Page 38
Page 38 scan

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २७
ध्यते । स्वप्नकथनं वर्जयेदित्येके ॥ २२ ॥
अथाऽहरहराचार्यं गोपायेदूधर्मार्थयुक्तैः कर्मभिः ॥ २३ ॥
अथ स्वप्नस्य प्रकृतत्वात् स्वप्नानन्तरं ब्राह्मे मुहूर्ते उत्थायेत्यर्थः ।
अहरहः नित्यमाचार्यं गोपायेत् रक्षेत् । किं दण्डादि गृहीत्वा ? नेत्याह—
धर्मार्थयुक्तैः कर्मभिः । धर्मयुक्तानि कर्माणि समित्कुशपुष्पाहरणादीनि, अर्थ-
युक्तानि (१)युग्यघासाहरणादीनि ॥ २३ ॥
(२) स गुप्त्वा संविशन् ब्रूया 'द्धर्म गोपाय
माजूगुपमह'मिति ॥ २४ ॥
स(३)ब्रह्मचारी धर्मार्थयुक्तैः कर्मभिर्यावदुत्थानात् यावदस्य संवेश-
नात् एवमाचार्यं गुप्त्वा संविशन् शयनं भजन् (४)'धर्मगोपायमाजूगुपमह' मितीमं
मन्त्रं ब्रूयात् । धर्मं गोपायतीति धर्मगोपायः आचार्यः तमहमाजूगुप-
मामिमूरूपेण रक्षितवानस्मि, इदानीं तु संविशामीति मन्त्रार्थः ।
अपर आह—हे धर्म मा मां गोपाय रक्ष यस्मादहं आजूगुपमहमाचार्य-
मेतावन्तं कालमिति ॥ २४ ॥
प्रमादादाचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमं रहसि .
बोधयेत् ॥ २५ ॥
प्रमादोऽनवधानम् । प्रमादात् बुद्धिपूर्वं यो आचार्यस्य वा नियमातिक्रमस्तं रहसि
बोधयेत् । इत्थमयं नियमः पूज्यपादैरतिक्रम्यते इति ॥ २५ ॥
अनिवृत्तौ स्वयं कर्माण्यारहभेत ॥ २६ ॥
यदि बोधितोऽप्याचार्यस्ततो न निवर्तते, ततः स्वयमेव तस्य कर्त-
व्यानि ब्रह्मयज्ञादीनि कर्माण्यारहभेत कुर्यात् ॥ २६ ॥
निवर्तयेद्वा ॥ २७ ॥
१. एधसां हरणादीनि इति घ. पु.
२. "स यदहरहराचार्यकुलेऽनुष्ठिते सोऽनुष्ठाय ब्रूयात्-धर्मगुप्तो मा गोपायेति
धर्मो ह्येनं गुप्तो गोपायेति" इति गोपथब्राह्मणम् ( गो. ब्रा. १. २. ४. )
३. न्यायादुत्थानान्न्यायाच्च संवेशनात् . इति क. ख. पु. अन्यायात्••••••दन्या-
ध्याच्च••••इति. ङ पु.
४. यावदुपात्त एवायं मन्त्रः ।

Page 39
Page 39 scan

२८ आपस्तम्बधर्मसूत्रे [ (प.१.)कं.४.
प्रसह्य वा स्वयं निवर्तयेत् । पित्रादिभिर्वा निवर्तयेत् ॥ २७ ॥
अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न
स्वपितीति ॥ २८ ॥
यः पूर्वमाचार्यादुत्तिष्ठति प्रतिबुध्यते । जघन्यशब्दः पश्चादर्थे । जघ-
न्यश्च संविशति, तं ब्रह्मचारिणं न स्वपितीति धर्मज्ञा आहु । प्रयोजनमुप-
नयने 'मा सुषुप्था' इति संशासनस्यायमर्थः, न स्वापस्यात्यन्ताभाव
इति । अथशब्दश्च वाक्योपक्रमे ॥ २८ ॥
स य एवं प्रणिहितात्मा ब्रह्मचर्यत्रैवास्य सर्वाणि क-
र्माणि फलवन्त्यवाप्तानि भवन्ति यान्यपि गृहमेधे ॥२९॥
‘आचार्याधीनः स्या’ दित्यारभ्य यस्य नियमा उक्ताः, स ब्रह्मचारी,
एवमुक्तेन प्रकारेण, प्रणिहितात्मा प्रकर्षेण निहित आचार्यकुले स्थापित
आत्मा येन स तथोक्त. । प्रकर्षश्च(१)आत्मनस्तत्रैव शरीरन्यासः ।
वक्ष्यति (२)आचार्यकुले शरीरन्यासः ” इति । अस्यैवंविधस्य ब्रह्म-
चारिणः अत्रैव ब्रह्मचर्याश्रमे सर्वाणि फलवन्ति ज्योतिष्टोमादीनि कर्माण्य-
वाप्तानि भवन्ति । तत्फलावाप्तिरेव तदवाप्तिः । यान्यपि कर्माणि गृहमेधे
गृह्यशास्त्रे विवाहाद्यष्टकान्तानि, तान्यवाप्तानि भवन्ति । तदेवं नैष्ठिकब्र-
ह्मचारिविषयमिदं सूत्रम् ॥ २९ ॥
इत्यापस्तम्बीये धर्मसूत्रे चतुर्थी कण्डिका ॥ ४ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ(३) हरदत्तविरचितायामुज्ज्वलायां
प्रथमप्रश्ने प्रथमः पटलः ॥ १ ॥
१. आन्तात्तत्रैव शरीरन्यासः इति ख. पु. अन्ततस्तत्रैव, इति, घ. पु.
२. आप. ध. २. २१. ६. ३. हरदत्तमिश्रविरचितायां इति क० पु०

Page 40
Page 40 scan

अथ द्वितीयः पटलः ।
नियमेषु तपश्शब्दः ॥ १ ॥
'आचार्याधीनः स्या'दित्यादयो ये नियमाः अस्मिन्ब्रह्मचारिप्रकरणे
निर्दिष्टाः, तपश्शब्दस्तेषु द्रष्टव्यः, न तु कृच्छ्रादिषु ॥ १ ॥
तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहाप-
त्यादेतस्मात् ॥ २ ॥
तेषां नियमानामतिक्रमे विद्याकर्म विद्याग्रहणं ब्रह्म निःस्रवति गृहीतं वेदं
निस्सारयति । कुतः ? एतस्मात् नियमातिक्रमेणाध्येतुः पुरुषात् । न के
वलमेतस्मात् । किं तर्हि ? सहापत्यात् । अपत्येन सह वर्तत इति सहापत्यः
(१)'वोपसर्जनस्ये'ति सभावाभावे रूपम् । अपत्यादपि ब्रह्म निःसारयति।
यद्यप्यपत्यं नियमातिक्रमकारि न भवति, तथापि पितृदोषादेव ततो-
ऽपि ब्रह्म निस्सारयति । नियमातिक्रमेण विद्याग्रहणं कुर्वतः पुरुषात्
सहापत्यात् गृहीतं ब्रह्म निस्सरति, ब्रह्मयज्ञादिषूपयुज्यमानमप्यकिं-
ञ्चित्करं भवतीत्यर्थो विवक्षितः । स्रवतेश्च सकर्मकस्य प्रयोगो भाष्ये
दृष्टः 'स्रवत्युदकं कुण्डिकेति ।
अपर आह—(२)तदतिक्रमे नियमातिक्रमे विद्याग्रहणं न कर्तव्यम् ।
कुतः ? यतो निस्स्रवति ब्रह्म निस्सरतीत्यर्थः, शेषं समानमिति ।
विद्याकर्म निस्स्रवति ब्रह्म च निस्स्रवतीत्यन्ये । अन्ये च—कुर्वत
इत्यध्याहार्यम् । तदतिक्रमेण विद्याकर्म कुर्वतो ब्रह्म निस्स्रवतीति ॥ २ ॥
न केवलमकिञ्चित्करं नियमातिक्रमेण विद्याग्रहणम्, प्रत्युताऽनर्थ-
कारीत्याह—
कर्तपत्यमनायुष्यं च ॥ ३ ॥
कर्तशब्देन श्वभ्राभिधायिना नरको लक्ष्यते । पतत्यनेनेति
पत्यम् । एवंभूतं विद्याग्रहणं नरकपातहेतुर्भवति । अनायुष्यं च अनायुष्करं
च ॥ ३ ॥
१. पा.सू. ६ ३.८२. बहुव्रीह्यवयवस्य सहशब्दस्य सभावावस्यद्विकल्पेन इति सूत्रार्थः।
२. तदतिक्रमे विद्याकर्म निस्स्रवतीति नियमातिक्रमेण विद्याग्रहणं न कर्तव्यम्, कुतः ?
यतो निस्स्रवति ब्रह्मनिस्सारयतीत्यर्थः, इति क. पु.

Page 41
Page 41 scan

Blank page

Page 42
Page 42 scan

अभिवादनम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३१
र्षन् मनसा निर्दयेन शिवेन वा ध्यायति-इत्थमिदमस्याऽस्त्विति, तथैव तद्भू-
-वति । तथा यत्किञ्च सङ्कल्पयन्वाचा (१)क्रूरया मधुरया वा आह—
'इत्थमिदमस्यास्त्विति, तथैव तद्भवति । एव यत्किञ्च सङ्कल्पयन् चक्षुषा
घोरेण वा मैत्रेण वा अभिविपश्यति तथैव तद्भवतीत्युपदिशन्ति धर्मज्ञाः ॥ ८ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 43
Page 43 scan

३२ आपस्तम्बधर्मसूत्रे (प्र. १) कं. ५.
समीपे तिष्ठन् गुरोः प्रातरभिवादनमभिवादयीत—'असावह भो' इति न् । अ-
सावित्यत्राऽऽत्मनो नामनिर्देशः, यथा—'अभिवादये शर्माऽहं
भो' इति ॥ १२ ॥
समानग्रामे च वसतामन्येषामपि वृद्धतरां
प्राक्प्रातराशात् ॥ १३ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 44
Page 44 scan

पादोपसङ्ग्रहणम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३३
(१)प्रत्यभिवादेऽशूद्रे' इति पाणिनीयस्मृतिः । तत्र (२)'वाक्यस्य टे' रि-
त्यनुवृत्तेः प्रत्यभिवादवाक्यस्यान्ते नामप्रयोगः तस्य टेः प्लुतः । 'आयु-
ष्मान् भव सौम्या३ इति प्रयोक्तव्यः । स्मृत्यन्तरवशान्नाम्नश्च पश्चाद-
कारः । तथा च मनुः-
(३)आयुष्मान् भव सौम्येति वाच्यो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 45
Page 45 scan

३४ आपस्तम्बधर्मसूत्रे [प्र.२,क.५
ननु किमिदमुपसंग्रहणम् ? तदाह-
दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य
सकुष्ठिकमुपसंगृह्णीयात् ॥ २१ ॥
आत्मनो दक्षिणेन पाणिना आचार्यस्य दक्षिणं पादं अधस्तादभ्यधिमृश्य,
अधिशब्द उपरिभावे, अधस्ताच्चोपरिष्टाच्चाभिमृश्य । सकुष्ठिकं सगु-
ल्फम् । साङ्गुष्ठमित्यन्ये । उपसंगृह्णीयात् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 46
Page 46 scan

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३५
मनसा चाऽनध्याये ॥ २५ ॥
अनध्यायकाले मनसा च अध्यायादनन्तरः स्यात् । सन्देहस्थानानि
मनसा निरूपयेत् । अध्ययनविषयामेव चिन्तां कुर्यात् ॥ २५ ॥
आहूताध्यायी च स्यात् ॥ २६ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 47
Page 47 scan

३६ आपस्तम्बधर्मसूत्रे [ (प.२.)क.६.
यदा त्वाचार्यस्तिष्ठन् ब्रूते तदा तमनूत्थाय प्रतिब्रूयात् । उत्तरे द्वे सूत्रे
स्पष्टार्थे ॥ ७ ॥
गच्छन्तमनुगच्छेत् ॥ ८ ॥ धावन्तमनुधावेत् ॥ ९ ॥
न सोपानद्वेष्टितशिरा अवहितपाणिर्वासीदेत् ॥ १० ॥
उत्तरोपानत्प्रतिषेधा'न सोपान'दित्यनुवादः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 48
Page 48 scan

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३७
अप्रतिष्ठब्धः पाणिना ॥ १६ ॥
पाणिना प्रतिष्ठब्धो न स्यात् पाणितलं भूमौ कृत्वा पाण्यवलम्बनो
नाऽऽसीत ॥ १६ ॥
अनपाश्रितोऽन्यत्र ॥ १७ ॥
अन्यत्र कुड्याद्यपाश्रितो न स्यात् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 49
Page 49 scan

३८ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. ६.
बहवस्तु शिष्या यथावकाशमुपसीदेयुः ॥ २५ ॥
तिष्ठति च नाऽऽसीताऽनासनयोगविहिते ॥ २६ ॥
आसनयोग आसनकल्पना । आसनयोगेन विहितस्सम्भावित आस-
नयोगविहितः । आसनयोगेनाऽसम्भाविते आचार्ये तिष्ठति सति स्वयं
नाऽऽसीत ॥ २६ ॥
आसीने च न संविशेत् ॥ २७ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 50
Page 50 scan

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३९
चार्यसकाशे त्वासित्वा गमनायोत्तिष्ठति तदाऽनुत्थानमपि न कर्तव्य-
म् । यद्यप्यसौ तस्य(१)आचार्यस्य मातुलादिः गुरुः स्यात् । (२)'आचार्य-
प्राचार्यसन्निपात' इति वक्ष्यति। तेनैव न्यायेन(३)मातुलादिष्वपि प्रसङ्गे
इदमुक्तम् ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in