आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
by महर्षि आपस्तम्ब / हरदत्त टीका
About this granth
The Apastamba Dharmasutra (आपस्तम्बधर्मसूत्र) belongs to the Kalpasutra of the Apastamba school of the Taittiriya branch of the Black Yajurveda and is among the oldest surviving dharmasutras. Written in terse sutras, it is divided into two prashnas, each made up of patalas and khandas.
The first prashna deals with initiation, the duties of the student and conduct towards the teacher, purity and impurity, permitted and forbidden food, and penances. The second treats the householder, the five great daily offerings, hospitality, marriage, inheritance, the duties of the king, punishment and legal procedure. It is a primary source for early Indian law and social history.
This edition gives the sutras with Haradatta Mishra's Sanskrit commentary Ujjvala, edited with notes, introduction and word index by Pandit A. Chinnaswami Shastri of Benares Hindu University and Pandit A. Ramanatha Shastri of the Sanskrit College, Tirupati. It is number 93 of the Kashi Sanskrit Series, published by the Chowkhamba Sanskrit Series Office, Benares, in 1932, and has 399 pages.
१३४ | आपस्तम्बधर्मसूत्रे | [ (प. ८) क. २३.
गदिति प्राप्तम् । अतस्तन्मा भूदित्याह — अनन्यस्य अपृथग्भूतस्य ज-
गतः, ज्ञेयात् ज्ञातव्यात् परमार्थस्वरूपाद्द्वयात् परमेश्वराद् घटादेरिव
मृदः । स च परमेष्ठी परमे प्रकृष्टे स्वे महिम्नि हृदाकाशेऽवस्थातुं
शीलमस्येति परमेष्ठी । स्वयमेव विभाज विभक्तो देवपितृमनुष्यादि-
ना ज्ञातृज्ञेयज्ञानभेदेन च, यस्मात् स एव ज्ञेय आत्मा स्वतो विभजति
जगदनेकधा ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआत्मज्ञानफलम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११५
विवरणम् ।
एवं यथोक्तमात्मान विदितवत आध्यात्मिका योगा न्यायसहिता
अप्रतिबन्धेन भविष्यन्ति । मिथ्याप्रत्ययपूर्वका हि दोषाः । दोषनिमि-
त्तश्च धर्माधर्मजनितः ससारः दोषनिवृत्तावत्यन्तं विनिवर्तते इत्येतम-
र्थं दर्शयिष्यन्नाह--
दोषाणां तु निर्घातो योगमूल इह जीविते । निर्हृत्य
भूतदाहीयान् क्षेमं गच्छति पण्डितः ॥ २१ ॥ ३ ॥
दोषाणां तु क्रोधादीनां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३६ आपस्तम्बधर्मसूत्रे [(प.८)क.२३
विद्यया चेद् दोषनिर्हरणकर्मक्षयाववश्यं भवतः, तत इदमयत्नका-
र्यत्वाद् दोषनिर्हरणस्य नित्यानुवादरूपमनर्थकम्, निर्हृत्येति, न,
प्रवृत्तकर्माक्षिप्तत्वाद् दोषाणाम्। द्विविधानि ह्यनेकजन्मान्तरकृतानि
कर्माणि-फलदानाय प्रवृत्तान्यप्रवृत्तानि च। यत्तु प्रवृत्तं कर्म, तेनाक्षि
प्ता दोषाः कर्तुः सुखदुःखादिफलदानाय, दोषाभावे फलारम्भकत्वा-
नुपपत्तेः। न हि रागद्वेषादिशून्ये
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआत्मलाभयोगाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३७
क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो
मृषोद्यमत्याशपरीवादावसूया काममन्यू अना-
त्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३ ॥ ५ ॥
विवरणम् ।
तत्र क्रोधस्ताडनाक्रोशानादिहेतुरन्तःकरणविक्षोभो गात्रस्वेदक-
म्पनादिलिङ्गः । हर्षस्तद्विपरीतोऽभीष्टलाभजनितो बाष्परोमाञ्चनादि-
लिङ्गः । रोषोऽनिष्टविषयो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३८ आपस्तम्बधर्मसूत्रे [(प.८.) क.२३.
मानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्य-
नुतिष्ठन् विधिना (१)सार्वगामी भवति ॥ १४ ॥ ६ ॥
विवरणम् ।
अक्रोधोऽहर्षः इत्येवमाद्या अयोगविपरीताः । अतस्ते समाधिलक्षण-
त्वाद् योगाः । संविभागः आत्मनो यात्रासाधनस्याऽर्थिभ्यः संविभजनम् ।
त्यागः दृष्टादृष्टभोगानां शक्तितः परित्यजम्, तत्साधनानां च ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआत्मज्ञानोपायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३९
दृष्टार्थवादित्वम् । संविभागः आत्मान(१)मुपरुध्याऽप्यन्नादिदानम् ।
त्यागोऽपरिग्रहः । आर्जवं मनोवाक्कायानामेकरूपत्वम् । मार्दवं सूपगम्यता ।
शमः मन्युपरित्यागः । दम-(२)इन्द्रियजयः । एताभ्यामेव गतत्वात् पूर्व-
त्र स्वस्मिन् क्रमे अकामः, अमन्युः, आत्मवत्वमिति नोपदिष्टम् । सर्वभूतैर-
विरोधः ।सर्वग्रहणं क्षुद्रैरविरोधात्थम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअथ नवमः पटलः ॥
क्षत्रियं हत्वा गवां सहस्रं वैरयातनाथं दद्यात् ॥ १ ॥
क्षत्रियं हत्वा गवां सहस्रं ब्राह्मणेभ्यो दद्यात् । किमर्थम् ? वैरयातनाथं वैरं पाप
तस्य यातनं निर्हरणं तदर्थम् "ऋषभश्चात्राऽधिकः सर्वत्र प्रायश्चित्ता-
र्थ" (२४. ४) इति वक्ष्यति । तेन प्रायश्चित्तरूपमिदं दानम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inब्रह्महत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४१
एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वैकशतं गवाम् ॥
एतदेव व्रतं कृत्स्नं षण्मासाञ्शूद्रहा चरेत् ।
ऋषभैकादशा वाऽपि दद्याद्विप्राय गास्सिताः ॥' इति ॥ ४ ॥
स्त्रीषु चैतेषामेवम् ॥ ५ ॥
एतेषां क्षत्रियादीनां स्त्रीषु च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४२ आपस्तम्बधर्मसूत्रे [ (प.९.)क. २४.
तस्य सर्वप्रकाराभिशस्तस्य निर्वेषः प्रायश्चित्तं वक्ष्यते ॥ १० ॥
अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽर्धशा-
णीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ॥ ११ ॥
कृत्वेति वचनान्न परकृता कुटी ग्राह्या । वाक् यता नियता येन स
वाग्यतः वाच्यमः । आहिताग्न्यादिषु दर्शनात् निष्ठान्तस्य परनिपातः ।
शवशिर- ध्वजो यस्य स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inब्रह्महत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४३
सा वृत्तिः ॥ १६ ॥
सप्तस्वगारेषु या च यावती लभ्यते सैव वृत्तिः अपर्याप्ताऽपि ॥१६॥
अलब्धवोपवासः ॥ १७ ॥
यदि सप्तागारेषु न किञ्चिल्लभ्यते तदोपवास एव तस्मिन्नहनि ॥
गाश्च रक्षेत् ॥ १८ ॥
एवं प्रायश्चित्तं कुर्वन्नहरहर्गाश्च रक्षेत् ॥ १८ ॥
तासां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४४ आपस्तम्बधर्मसूत्रे [ (१९.)क. २४.
धर्मार्थसन्निपातेऽर्थग्राहिण एतदेव ॥ २३ ॥
धर्मस्याग्निहोत्रादेः, अर्थस्य च कुप्यकरणादेः (१) युगपद्यत्र सन्निपातः
तत्रोभयानुग्रहासम्भवे धर्मलोपेन योऽर्थं गृह्णाति तस्याऽप्येतदेव प्रायश्चि-
तम्। अथवा धर्मं हित्वाऽर्थहेतोः कौटसाक्ष्यादि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inगुरुदारगमनप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४५
गुरुतल्पगामी सवृषणं शिश्नं परिवास्याऽञ्जलावा-
धाय दक्षिणां दिशमनावृत्तिं व्रजेत् ॥ १ ॥
गुरुरत्र पिता, नाऽऽचार्यादिः । तल्पशब्देन शयनवाचिना भार्या ल-
क्ष्यते । सा च साक्षाज्जननी(१) । न तत्सपत्नी । तां गत्वा सवृषणं साण्डं
शिश्नं परिवास्य क्षुरादिना छित्त्वाऽञ्जलावाधाय
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४६ आपस्तम्बधर्मसूत्रे [(प्र. १.) क. २५.
स्तेनो ब्राह्मणस्वर्णहारी । अंसे स्वे स्कन्धे । मुसलमाधाय आयसं खा-
दिरं वा धारयन् । राजानं गत्वा कर्माऽऽचक्षीत-एवंकर्माऽस्मि, शाधि मामि-
ति। स तेन मुसलेन एन स्तेनं हन्यात् , यथा मृतो भवति ।(१)वधेन स्ते
यान् मोक्षो भवति ॥ ४ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकालो येषाम् । यथा-अद्य दिवा भुङ्क्ते श्वो नक्तमिति, ते तथोक्ताः ।
तथापि मितभोजिन. न मृष्टाशिनः । (१)अपोऽभ्यवेयुः भूमिगतास्वप्सु
स्नानं कुर्युः । सवनानुकल्पं, यथा सवनानि प्रातःसवनादीन्यनुक्लृप्तानि
अनुसृतान्यनुष्ठितानि भवन्ति तथा(२) त्रिषवणमित्यर्थः । तिष्ठेयुरहनि,
रात्रावासीरन् । एवं स्थानासनाभ्यां विहरन्तः कालक्षेपं कुर्वन्तः । एते त्रिभि-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४८ आपस्तम्बधर्मसूत्रे [(प्र.१.)क.२६.
वायसः काकः । प्रचलाकः कामरूपी कृकलासः । बर्हिणो मयूरः । चक्रवा-
को दिवा मिथुनचर , रात्रौ विरही । हंसो मानसवासी। भासो गृध्रविशेषः ।
नकुलमण्डूकादय. प्रसिद्धाः । डेरिका गन्धमूषिका । एतेषां समुदितानां वधे
शूद्रवत्प्रायश्चित्तम् । प्रत्येक वधे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअपतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १४९
प्रायश्चित्तान्युक्तानि तानि स्त्रीणामप्येवमेव कर्तव्यानि । एतत् 'चत्वारो
वर्णा' इति जात्याभिधानादेव (१) प्राप्तं सन्निषेधार्थमुच्यते—अत ऊर्ध्वं
पुरुषस्यैव न स्त्रीणामिति । अपर आह—जात्याभिधानादेव सिद्धे अ-
तिदेशार्थं वचनम् । अतिदेशेषु चार्धं प्राप्यते इति स्मार्तो न्यायः । तेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१६० आपस्तम्बधर्मसूत्रे [ (प.९.) क. २६.
वर्णाश्शुचयः पावका' इति चतसृभिरप उपस्पृशेत् । तूष्णीं प्रथमं स्नात्वा
पश्चादेतैर्मन्त्रैर्मार्जनं कुर्यात् । वारुणीभिर्वा (१) 'इमं मे वरुण, 'तत्त्वा यामि;
'त्वन्नो अग्ने' इत्येताभिर्न्यैर्वा पवित्रैः (२) पवमानस्सुवर्जन' इत्येतेना-
नुवाकेन (३) शुद्धवतीभिः (४)
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inजमानः । आचार्ये तं प्रति कार्यनिवेदने।एवमाचार्यद्वारे । भिक्षाचर्य भिक्षाचरणम्।
तत्र च ‘भवति भिक्षां देही’ति । अस्मादेव ज्ञायते-असमावृत्तविषय-
मेतदिति ॥ ११ ॥
एवमन्येष्वपि दोषवत्स्वपतनियेषूत्तराणि
यानि वक्ष्यामः ॥ १२ ॥
यथा मिथ्याधीतस्येदं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८२ आपस्तम्बधर्मसूत्रे [(प्र.९.)क. २७.
श्रावण्यां वा पौर्णमास्यां तिलभक्ष उपोष्य वा श्वो भूते
(१)माहानदमुदकमुपस्पृश्य सावित्र्या समित्सह-
स्रमादध्याज्जपेद्वा ॥ १ ॥
गिरिप्रभवा समुद्रगामिनी नदी महानदी तत्र भवं माहानदम् । समि-
त्सहस्रं याज्ञिकस्य वृक्षस्य । 'आदध्या'दिति वचनान्न होमधर्मः स्वाहा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअपतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५३
द्वादशरात्रसाध्यो व्रतविशेषः कृच्छ्रद्वादशरात्रः ॥ ६ ॥
तस्य विधिमाह(१)-
त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहम्, त्र्यहमयाचितव्रत-
स्त्र्यहं नाश्नाति किञ्चनेति कृच्छ्रद्वादशरात्रस्य विधिः॥७॥
आदितस्त्रिष्वहस्सु नक्तं नाऽश्नीयात् । दिवैव भुञ्जीत । ततस्त्र्यहम-
दिवाशी रात्रावेव भुञ्जीत
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in